सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 308, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 308

निर्देशः ] द्वितीयं कोशस्थानम् २८७
दृष्टेर्हेतुः । कस्मात् ? प्राप्तयस्तावद् वृक्षप्रपाटिकावत् स्वसर्वत्रगेभ्यो बहिरव-
स्थितत्वान्न सर्वत्रगा व्यवस्थाप्यन्ते । सर्वत्रगत्वाभावाच्च न सत्कायदृष्टेः सर्वत्र-
गहेतुः । सर्वत्रगजात्यादयोऽपि यद्यपि सर्वत्रगाः इष्टाः; “प्राप्तिवर्ज्याः सहभुवो
येऽप्येभिस्तेऽपि सर्वगाः” (अभि० को० ५.१३) इति सिद्धान्तवचनात् ।
न तु ते चित्तचैत्तवत् पश्चिमानां चित्तचैत्तानां सर्वत्रगहेतुः, स्वलक्ष्यव्यापार-
परत्वेनाप्राधान्ये सति चित्तचैत्तान्तरेषु सर्वत्रगत्वे सति पुरुषकाराभावात् ।
सर्वत्रगव्यवस्थापनं तु तेषां जात्यादीनां स्वसन्तानसर्वत्रगहेतुत्वात् । तस्मान्न ते
सत्कायदृष्टेर्हेतुरिति शास्त्रार्थतो लक्ष्यते ।
सभागहेतुस्तर्हि कस्मान्न भवति ? सभागहेतुव्यवस्था हि पुरुषकारापेक्षयापि ।
यस्य हि धर्मस्य जनने यः पुरुषकारवान् धर्मः स तस्य सभागहेतुः । इदमेव च
ज्ञापकम्—यथेष्टं सभागहेतुव्यवस्थेति