अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 304, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् २८३
सहभूर्ये मिथःफलाः ।
मिथः पारम्पर्येण ये धर्माः परस्परफलास्ते परस्परः सहभूहेतुर्यथाकथम् ।
भूतवच्चित्तचित्तानुवर्तिलक्षणलक्ष्यवत् ॥ ५० ॥
चत्वारि महाभूतान्यन्योन्यं सहभूहेतुः । चित्तं चित्तानुवर्तिनां धर्माणां,
तेऽपि तस्य । संस्कृतलक्षणानि लक्ष्यस्य, सोऽपि तेषाम् ।
एवं च कृत्वा सर्वमेव संस्कृतं सहभूहेतुर्यथायोगम् । विनापि चान्योन्य-
फलत्वेन धर्मोऽनुलक्षणानां सहभूहेतुः, न तानि तस्येत्युपसंख्यातव्यम् ॥ ५० ॥
के पुनरेते चित्तानुवर्त्तिनो धर्माः ?
चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च ।
चित्तानुवर्त्तिनः
सर्वे चित्तसम्प्रयुक्ताः, ध्यानसंवरः, अनास्रवसंवरः, तेषां च ये जात्या-
दयः, चित्तस्य च । एते धर्माश्चित्तानुवर्त्तिन उच्यन्ते ।
- कथमेते चित्तमनुपरिवर्त्तन्ते ? समासतः
“सहभूर्ये मिथफलाः” इति । हेतुरिति वर्त्तते । सहभूहेतुस्ते धर्मा भवन्ति
ये धर्माः मिथःफलाः, ये परस्परफला इत्यर्थः । सहभूहेतुः सहभुव इति नोक्तम् ।
कस्मात् ? सन्ति हि धर्माः केचित् सहभुवो न तु सहभूहेतुः, तद्यथा—नीला-
द्युपादायरूपं भूतैः सहभूर्भवति, न चान्योन्यं सहभूहेतुः । अतो मिथःफला
इत्यर्थपरिग्रहः । इदञ्च सावशेषं लक्षणम्, अतो वक्ष्यति—विनापि चान्यो-
न्यफलत्वेच धर्मोऽनुलक्षणानां सहभूहेतुः, न तानि तस्येत्युपसंख्यातव्यमिति ।
उपसंख्यानकरणञ्च महाशास्त्रताप्रदर्शनार्थम् । सोपसंख्यानं हि व्याकरणादि
महाशास्त्रं दृश्यते ।
“भूतवत्” इति । तद् यथार्थे वतिप्रत्ययः । एवञ्च कृत्वा सर्वमेव संस्कृतं
सहभूहेतुर्यथायोगमिति । यस्मात् संस्कृतलक्षणानि लक्ष्यस्य सहभूहेतुः, सोऽपि
तेषाम्, अतः यथायोगं यथासम्भवं सर्वं संस्कृतं सहभूहेतुः, संस्कृतस्य लक्षण-
वत्त्वात्, लक्ष्यलक्ष्योश्च सहभूहेतुत्वात् । न तु सर्वं सर्वस्य; अपरलक्षणेर-
सहभूहेतुत्वादिति यथायोगग्रहणम् ॥ ५० ॥
तेषाञ्च ये जात्यादयश्चित्तस्य चेति । तेषाञ्च चित्तसम्प्रयुक्तानां चेतनादीनां
ध्यानसंवरस्यानास्रवसंवरस्य ये जात्यादयश्चत्वारो धर्माश्चित्तानुपरिवर्तिन
उच्यन्ते ।