सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 305, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 305

२८४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रियं-
कालफलादिशुभतादिभिः ॥ ५१ ॥
कालस्तावच्चित्तेनैकोत्पादस्थितिनिरोधतया एकाध्वपतितत्वेन चतुर्थेन¹।
फलादिभिरेकफलविपाकनिःष्यन्दतया । पूर्वकस्त्वेकशब्दः सहार्थे
वेदितव्यः ।
शुभतादिभिः कुशलाकुशलाव्याकृतचित्ते कुशलाकुशलाव्याकृततया ।
एवं दशभिः कारणैश्चित्तानुपरिवर्त्तिन उच्यन्ते ।
“कालफलादिशुभतादिभिः” इति। कालेन च फलादिभिश्च शुभतादिभि-
श्वेति कालफलादिशुभतादिभिः ।
कालस्तावदिति । विस्तरः—चित्तेन सहैते एकोत्पादा एकस्थितय एकनिरो-
धाश्च, तद्भावः, तया एकोत्पादस्थितिनिरोधतयेति । एकमध्वानं पतिताः एकाध्व-
पतिताः, तद्भावः, तेन एकाध्वपतितत्वेन चतुर्थेनेति । कालतश्चित्तमनुपरिवर्त्तन्ते ।
एकफलतयैकविपाकतयैकनिष्यन्दतया च चित्तमनुपरिवर्त्तन्ते । फलमिह पुरुष-
कारफलं विसंयोगफलं च, विपाकफलनिष्यन्दयोः पृथग् गृहीतत्वात् । अधि-
पतिफलं तु सर्वसाधारणत्वान्न गण्यते । अयं चैकशब्दः संख्याने साधारणे वा
एकफलतयेत्यादि । पूर्वकस्त्वेकशब्दः सहार्थे । चित्तेन सहोत्पादस्थितिनिरोध-
तयेत्यर्थः । न ह्यत्र संख्यानार्थः सम्भवति । न हि यश्चित्तस्योत्पादः स एव
चित्तानुपरिवर्त्तिनाम्, यो वा तेषां स चित्तस्येति ।
एवं दशभि कारणैरिति । कालतश्चतुर्भिरेकोत्पादतयैकस्थितितयैकनिरोध-
तयैकाध्वपतितत्वेन चेति । ननु चैकोत्पादस्थितिनिरोधतयेत्येतेनैवैकाध्वपति-
तत्वमुक्तम् ? न सर्वमुक्तम् । अनुत्पत्तिधर्मिणि हि चित्ते ते चित्तानुपरिवर्तिन
एकाध्वपतिता भवन्ति, नैकोत्पादस्थितिनिरोधा इति । तस्मादेकाध्वपतितत्वं
चतुर्थं कारणमुच्यते । एकफलविपाकनिष्यन्दतयेति त्रिभिः ।
कुशलाकुशलाव्याकृततया चेति पुनस्त्रिभिरिति दशभिः । पर्यायवृत्ति जाति
वा प्रत्येवमुक्तम्—दशभिरिति । न ह्येकत्र चित्ते दश कारणानि भवन्ति ।
न हि कुशले चेतस्यकुशलाव्याकृते कारणे भवतः, न चाकुशलाव्याकृते चित्ते
अनुत्पत्तिधर्मिणि । एकविपाकनिष्यन्दतयैकफलनिष्यन्दताभ्यामनाव्याकृतत्वेन चेति
चतुर्भिः । उत्पत्तिधर्मिणि त्वेभिरेव चतुर्भिरेकोत्पादस्थितिनिरोधताभिश्चेति
सप्तभिः । अनास्रवेऽप्येवम् । अव्याकृततां तु केवलमपनीय कुशलता प्रक्षेप्सव्या ।
अकुशले तु कुशलसास्रवे चानुत्पत्तिधर्मिण्यकुशलतया कुशलतया च यथावस्त्वे-
१. च—का० ।