सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1209, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1209

११८६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ समाप्ति-
सद्धर्मो द्विविधः शास्तुरागमाधिगमात्मकः।
तत्रागमः सूत्रविनयाभिधर्माः, अधिगमो बोधिपक्षाः—इत्येष द्विविधः
सद्धर्मः।
धातारस्तस्य वक्तारः प्रतिपत्तार एव च ॥ ३९ ॥
आगमस्य हि धारयितारो वक्तारः। अधिगमस्य प्रतिपत्तारः।
अतो यावदेते स्थास्यन्ति तावत् सद्धर्म इति वेदितव्यम्।
तेषां तु वर्षसहस्रमवस्थानमाहुः।
अधिगमस्यैवम्। आगमस्य तु भूयांसं कालमित्यपरे १॥ ३६ ॥
योऽयमिह शास्त्रेऽभिधर्म उक्तः किमेष एव शास्त्राऽभिधर्मो
देशितः ?
काश्मीरवैभाषिकनीतिसिद्धः,
प्रायो मयाऽयं कथितोऽभिधर्मः।
“धातारस्तस्य वक्तारः प्रतिपत्तार एव च” इति। तस्य आगमाधि-
गमात्मकस्य सद्धर्मस्य यथासंख्यं आगमस्य ये वक्तारः तेऽस्य धातारः,
अधिगमस्य च ये प्रतिपत्तारः तेऽस्य धातार इति।
अधिगमस्यैवमिति। वर्षसहस्रमवस्थानमिति। आगमस्य तु भूयांसं
कालमिति। वर्षसहस्रादूर्ध्वमपीत्यर्थः। एष एव पक्षो युक्त इति
पश्यामः ॥ ३९ ॥
योऽयमिति। योऽयमिह अभिधर्मकोशलक्षणे अभिधर्म उक्तः। किमेष
एव शास्त्राऽभि १धर्मो ज्ञानप्रस्थानादिलक्षणो देशितः। अत इदमुच्यते—
“काश्मीरवैभाषिकनीतिसिद्धः” इति विस्तरः। कश्मीरे भवाः
काश्मीराः। विभाषया दीव्यन्ति वैभाषिकाः इति व्याख्यातमेतत्। सन्ति
काश्मीरा न वैभाषिकाः, ये विनयविदादयः सौत्रान्तिकाः भदन्तादयः।
सन्ति वैभाषिका न काश्मीराः, ये बहिर्देशका वैभाषिकाः—इत्युभय-
विशेषणम्। तेषां नीत्या यः सिद्धोऽभिधर्मः, स प्रायेणेह मया देशितः।
अर्थादुक्तं भवति—अन्यनीतिसिद्धोऽपि देशित इति।
१. शास्त्रो०—जा०।