सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1214, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1214

विनिश्चयः ] अष्टमं कोशस्थानम् ११९१
अतस्तत्रापि कारणान्तरस्याभावो भावश्च निश्चीयते । यच्च तत्कारणान्तरं
तदिन्द्रियमित्‍येतदनुमानम् । न चैवमात्मतोऽस्तीति¹ नास्त्यात्मा ।
यत्तर्हि वात्सीपुत्रीयाः पुद्गलं सन्तमिच्छन्ति ।
विचार्यं तावदेतत्—किं ते द्रव्यत इच्छन्ति, आहोस्वित् प्रज्ञप्तितः ?
दीनां ग्रहणम् । अतस्तत्रापि कारणान्तरस्य कस्यापि अनिर्भिन्नरूपस्याभावो
भावश्च यथासङ्ख्यमेव निश्चीयते । किं पुनस्तद् ? इत्याह—यच्च
तत्कारणान्तरमपेक्ष्यते तदिन्द्रियम् । चक्षुरादिकमित्यभिप्रायः । साधनं
चात्र—"कारणान्तरसहितः स्वकार्यजनकः पञ्चविज्ञानकायजनकसम्मतो
विषयमनस्कारलक्षणो भावः; कदाचिदेव स्वकार्यनिर्वर्तकत्वात् । कदाचिदेव
स्वकार्यनिर्वर्तकं तत् कारणान्तरसहितस्वकार्यजनकम्, तद्यथा—अङ्कुरजनकं
क्षेत्रोदकम् । बीजलक्षणकारणान्तरसहितस्वकार्यान्तरजनकं हि क्षेत्रोदकं
कदाचिदेव स्वकार्यनिर्वर्तकम्, बीजसद्भावावस्थायामङ्कुरनिर्वर्तकत्वात् ।
बीजासद्भावावस्थायां च स्वस्वकार्याजनकत्वात् । तथा च स विषयम-
नस्कारलक्षणो भावः । स हि अनन्धाबधिराद्यवस्थायां तस्य पञ्चविज्ञान-
कायलक्षणस्य स्वकार्यस्य जनको भवति, अन्धवधिराद्यवस्थायां चाजनकः ।
तस्मादसौ कारणान्तरसहितः स्वकार्यजनकः" इति । तदिन्द्रियमिति । कथं
तदिन्द्रियमिति परिच्छिद्यते; कारणान्तरमस्तीत्येतावदेव हि परिच्छिद्यते,
न तु तदिन्द्रियमिति ? सिद्धमेवैतत् । महर्षिप्रणिधिज्ञानपरिच्छिन्नत्वा-
दस्त्येव चक्षुरिन्द्रियमिन्द्रियं चक्षुर्विज्ञानादिकारणमिति । सर्वेषामविवा-
दाच्च । न चैवमात्मतोऽस्तीति नास्त्यात्मेति निगमयति । उक्तं ह्येवमर्थतः
साधनम्—'नास्त्यात्मा, प्रमाणेनानुपलभ्यमानत्वात्, अत्यन्ताभाववद्' इति ।
अस्त्यनुमानम्, अतोऽसिद्धो हेतुरिति चेत् ? न; यदि हि तदस्ति, तदुच्य-
ताम् ! न वाङ्मात्रेण असिद्धो हेतुः—इति प्रत्यवस्थातव्यमिति ।
यत्तर्हि वात्सीपुत्रीया इति विस्तरः । वात्सीपुत्रीया आर्यसाम्मतीयाः ।
अनेन वितथात्मदृष्टिनिविष्टलक्षणो हेतुरनैकान्तिक इति दर्शयति । न हि
वात्सीपुत्रीयाणां मोक्षो नेष्यते, बौद्धत्वात् । अथ वा परपक्षविरोध-
सापक्षालोडयं पक्षो नास्त्यात्मेत्यनेन दर्शयति । स्वपक्षो वात्सीपुत्रीयो निकाय
इति ।
विचार्यं तावदेतदिति । तन्निकाये प्रज्ञप्तिसत्पुद्गल इत्यदोष एष
इत्यभिप्रायः ।
१. आत्मनो०—का० ।
अभि० को० ४ : ११