अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1212, कुल 1258 में से
संदर्भ में पढ़ेंॐ नमो बुद्धाय
पुद्गलविनिश्चयः
किं खल्वतोऽन्यत्र मोक्षो नास्ति ? नास्ति । किं कारणम् ?
वितथात्मदृष्टिनिविष्टत्वात् । नहि ते स्कन्धसन्तान एवात्मप्रज्ञप्तिं व्यवस्यन्ति ।
किं र्तहि ? द्रव्यान्तरमेवात्मानं परिकल्पयन्ति, आत्मग्राहप्रभवाश्च क्लेशा'
इति ।
कथं पुनरिदं गम्यते—स्कन्धसन्तान एवेदमात्माभिधानं वर्तते,
नान्यस्मिन्नभिधेये इति ?
पुद्गलविनिश्चयः
किं खल्वतोऽन्यत्र मोक्षो नास्तीति । ‘न प्रमाद्यं मुमुक्षुभिः’ (अभि०
८.४३) इति वचनाद् अयमेव मोक्षोपायः, नास्त्यतोऽन्यो मोक्षोपायः ।
तदत्र मोक्तुकामैः प्रमादो न कर्तव्य इत्यर्थादुक्तमाचार्येण । चोदकः
पृच्छति—किं खल्वत इति विस्तरः । अत्रोच्यते—नास्तीति । किं कारणम् ?
इत्याह—वितथात्मदृष्टिनिविष्टत्वादिति । वितथायामात्मदृष्टौ निविष्टाः
कुतीर्थ्याः वितथात्मदृष्टिनिविष्टाः, तद्भावः, तस्मात् । नास्त्यन्यत्र मोक्ष
इति ।
स्तोत्रकारेणाप्येषोऽर्थ उक्तः—
“साहङ्कारे मनसि न शमं याति जन्मप्रबन्धो
नाहङ्कारश्चलति हृदयादात्मदृष्टौ च सत्याम् ।
अन्यः शास्ता जगति च यतो नास्ति नैरात्म्यवादी
नान्यस्तस्मादुपशमविधेस्त्वन्मतादस्ति मार्गः” ।। इति ।
साधनं चात्र--“नास्ति कपिलोलूकादीनां मोक्षः, वितथात्मदृष्टि-
निविष्टत्वात्, अदृष्टतत्त्वपुरुषवत् ।” आत्मग्राहप्रभवाश्च क्लेशा इति
यथोक्तम् । यानि वा पुनरिहैकत्यानां श्रमणब्राह्मणानां पृथग्लोके दृष्टि-
गतानि सत्कायदृष्टिमूलकानि तानीति विस्तरः । आत्मदृष्टौ च सत्यामात्म-
स्नेहादयः क्लेशाः प्रवर्तन्ते । स्कन्धसन्तान एवेदमात्माभिधानमिति ।
आत्मेत्यभिधानम् । आत्मप्रज्ञप्तिरित्यर्थः । नान्यस्मिन्नभिधेय इति । स्कन्ध-