अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1213, कुल 1258 में से
संदर्भ में पढ़ें११६० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
प्रत्यक्षानुमानाभावात् ।
ये हि धर्माः सन्ति तेषां प्रत्यक्षमुपलब्धिर्भवत्यसत्यन्तराये । तद्यथा—
षण्णां विषयाणां मनसश्च ।
अनुमानं च । तद्यथा पञ्चानामिन्द्रियाणाम् । तत्रेदमनुमानम्—सति
कारणे कारणान्तरस्याभावे कार्यस्याभावो दृष्टो भावे च पुनर्भवः, तद्यथा—
अङ्कुरस्य । सत्येव वाभासप्राप्ते२ विषये मनस्कारे च कारणे विषय-
ग्रहणस्याभावो दृष्टः पुनश्च भावः, अन्धवधिरादीनामनन्धावधिरादीनां च ।
सन्तानव्यतिरिक्ते कल्पित इत्यर्थः । कस्मादेवम् ? इत्याह—प्रत्यक्षानु-
मानाभावादिति । प्रत्यक्षस्यानुमानस्य चाभावान्न तस्यास्तित्वमित्यभि-
प्रायः । आगमस्यानुमानान्तर्भावात् अपृथग्वचनम् ।
तेषां प्रत्यक्षमुपलब्धिरिति । प्रत्यक्षमित्युपलब्धिविशेषणम् । प्रत्यक्षं
तदुपलब्धिः, प्रत्यक्षत उपलब्धिरित्यर्थः । अथवा प्रत्यक्षं प्रमाणमुपलब्धिः,
उपलभ्यतेऽनयेत्युपलब्धिः । असत्यन्तराय इति । असत्युपलब्धिविघ्नेऽ-
तिसन्निकर्षातिविप्रकर्षादिके । तेषाम् । षण्णां विषयाणामिति । रूप-शब्द-
गन्ध-रस-स्प्रष्टव्यायतनानां धर्मायतनस्य च वेदनादिलक्षणस्य योगिविषयस्य
चागमविकल्पातीतस्येति । मनसश्च । किम् ? प्रत्यक्षम् उपलब्धिः । समनन्तर-
निरुद्धं हि मनोऽनन्तरोत्पन्नेन मनोविज्ञानेन विज्ञायते । रक्तं वा द्विष्टं
वा सुखसम्प्रयुक्तं वा दुःखसम्प्रयुक्तं वा—इत्येवमादि स्वसंवेद्यतेत्यपरे ।
तदेतद् द्विविधं प्रत्यक्षम्—१. ग्राह्यगतम्, २. ग्राहकगतं चेति ।
अनुमानं चेति विस्तरः । यत्र प्रत्यक्षस्याप्रवृत्तिः तत्रानु-
मानतस्तदुपलब्धिः । तद्यथा पञ्चानामिन्द्रियाणामिति । चक्षुरिन्द्रिया-
दीनाम् । सति कारणे क्षेत्रोदकादिके । कारणान्तरस्य बीजलक्षणा-
स्याभावे कार्यस्याङ्कुराख्यस्याभावो दृष्टः । भावे च तस्य बीजस्य
पुनर्भवोऽङ्कुरस्य दृष्टः । तद्यथाऽङ्कुरस्येति दृष्टान्तोपन्यासः । एवं
दृष्टान्तमुपन्यस्य दार्ष्टान्तिकमुपदर्शयन्नाह—सत्येव वाभासप्राप्त इति
विस्तरः । विद्यमान एव सम्मुखीप्राप्ते विषये रूपादिके मनस्कारे च
तज्जे कारणे । विषयग्रहणस्य चक्षुरादिविज्ञानस्याभावो दृष्टः, पुनश्च
भावः । केषामिति ? यथासङ्ख्यं दर्शयति—अन्धवधिरादीनामभावः ।
अनन्धावधिरादीनां च भाव इति । आदि-शब्देनोपहतानुपहत घ्राणेन्द्रिया-
१. सर्वक्लेशाः—का० ।
२. चा०—का० ।