सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] अष्टमं कोशस्थानम् ११७७
अन्यदाप्यसमाहिताः सन्तीत्यपरे । सामन्तकविमुक्तिमार्गा¹ अपि
विमोक्षाख्यां लभन्ते, नानन्तर्यमार्गाः; अधरालम्बनत्वात् । वैमुख्यार्थो हि
विमोक्षार्थ इति ॥ ३२ ॥
निरोधस्तु समापत्तिः,
संज्ञावेदितनिरोधस्तु अष्टमो विमोक्षो निरोधसमापत्तिः । सा च
पूर्वं निर्दिष्टा । संज्ञावेदितवैमुख्यात्, सर्वसंस्कृताद्वा ।
समापत्त्यावरणविमोक्षणाद्विमोक्ष इत्यपरे ।
तां तु समापद्यन्ते
सूक्ष्मसूक्ष्मादनन्तरम् ।
भवाग्रं हि संज्ञा सूक्ष्मं तत् पुनः सूक्ष्मतरं कृत्वा निरोधं समापद्यन्ते ।
समापन्नानां तु
स्वशुद्धकाधराद्वयेण व्युत्थानं चेतसा ततः ॥ ३३ ॥
भावाग्रिकेण वा शुद्धकेन चेतसा ततो व्युत्थानं भवत्याकिञ्चन्यायतन-
भूमिकेन वा सास्रवेण । तदेवं तस्याः सास्रवं समापत्तिचित्तं भवति,
सास्रवानान्तर्यं तु व्युत्थानचित्तमिति ॥ ३३ ॥
अन्यदाप्यसमाहिताः सन्तीति । आरूप्येषु विपाकजान् चित्तचैत्तान्
अभिसन्धायोच्यते । पूर्वस्मिंस्तु पक्षे मरणभवावस्थायामेवासमाहिता
आरूप्या इति दर्शयति । सामन्तकविमुक्तिमार्गा अपि विमोक्षाख्यां
लभन्त इति । किमङ्ग मौला इत्यपि-शब्दार्थः । नानन्तर्यमार्गे इति विस्तरः ।
यस्माद् अधरभूमिवैमुख्याद् विमोक्षा इत्युच्यन्ते, तस्माद् आनन्तर्यमार्गा न
विमोक्षाख्यां लभन्ते; अधरालम्बनत्वात् । विमुक्तिमार्गास्तु लभन्ते;
ऊर्ध्वालम्बनत्वात् ॥ ३२ ॥
“निरोधस्तु समापत्तिः” । अष्टम इति वाक्यशेषः । संज्ञावेदित-
वैमुख्यादिति । संज्ञावैमुख्यात्, वेदितवैमुख्याच्च विमोक्षः । सर्वसंस्कृताद्वा ।
वैमुख्याद् विमोक्षः ।
समापत्त्यावरणविमोक्षणाद् विमोक्ष इति । समापत्त्यावरणविमोक्ष-
वैमुख्यात् विमोक्ष इति । तत्र समापत्त्यावरणम्—यस्मिन्नावरणे चित्ताकर्मण्यता
त्रिधातुकवीतरागा अपि सन्तः प्रथममपि मौलं ध्यानं नोत्पादयन्ति ॥ ३३ ॥
१. ०विमुक्त०—जा० ।

११७८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
एषां च विमोक्षाणाम्—
कामाप्तदृश्यविषयाः प्रथमाः,
कामावचरमेषां रूपायतनमालम्बनममनोज्ञं मनोज्ञं च यथायोगम्।
ये त्वरूपिणः ।
तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः ॥ ३४ ॥
आरूप्यविमोक्षाणां स्वभूमिकोर्ध्वभूमिकं दुःखं तद्धेतुनिरोधौ चाल-
म्बनं सर्वश्चान्वयज्ञानपक्षो मार्गः। अप्रतिसंख्यानिरोधश्चेति वक्तव्यमाकाशं
चैकस्येति । कस्मान्न तृतीये ध्याने विमोक्षः । द्वितीयध्यानभूमिकवर्ण-
रागाभावात्, सुखमण्डेञ्जितत्वाच्च ।
यथायोगमिति । द्वयोर्विनीलकाद्यमनोज्ञं रूपमालम्बनम् । तृतीयस्य
मनोज्ञमालम्बनमिति ।
तद्धेतुनिरोधौ चेति । तस्य दुःखस्य समुदाय-निरोधौ । सर्वश्चान्वय-
ज्ञानपक्ष इति । ऊर्ध्वाधः स्वभूमिक इत्यर्थः । अप्रतिसंख्यानिरोधश्चेति ।
अप्रतिसंख्यानिरोधश्चारूप्यविमोक्षाणामालम्बनमिति वक्तव्यम् ।
“ये त्वरूपिणः ।
तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः” ।। इति अत्र वचनात् ।
आह—कतमः पुनरप्रतिसंख्यानिरोधस्तेषामालम्बनम् ? अत्रोच्यते—
अशैक्षस्यानिमित्तस्य समाधेरप्रतिसंख्यानिरोधमालम्बन्ते। एते हि आरूप्या
विमोक्षा अनिमित्तानिमित्तसमाधिस्वभावाः सम्भवन्ति । ते च सप्त
सामन्तकानि हित्वा अन्यास्वेकादशसु भूमिषु कामाधातावनागम्ये ध्यानान्त-
रेषु ध्यानायूप्येषु चाष्टास्विति । सोपसंख्यानं शास्त्रमिति शास्त्रलक्षणं
दर्शितं भवति । आकाशं चैकस्येति । वक्तव्यम्—आकाशानन्त्यायतनविमोक्ष-
स्यालम्बनम् । द्वितीयध्यानभूमिक-वर्णरागाभावादिति । द्वितीयध्यान-
भूमिकस्य वर्णरागप्रतिपक्षयितव्यस्याभावादित्यर्थः । तदभावः कायिक-
विज्ञानाभावात् । सुखमण्डेञ्जितत्वाच्च । सुखस्य मण्डः । सर्वसुखस्योपरिस्थ-
सुखमित्यर्थः । तेनेञ्जितत्वात् कम्पितत्वात् । न तृतीये ध्याने विमोक्षो
व्यवस्थाप्यते ।

निर्देशः ] अष्टमं कोशस्थानम् ११७६
कस्माच्छुभं१ विमोक्षमुत्पादयति ? अशुभया लीनां सन्ततिं प्रमोदयितुं
जिज्ञासनार्थं वा । कच्चिदशुभाविमोक्षौ निष्पन्नाविति ।
एवं च पुनस्तौ निष्पन्नौ भवतो यदि शुभतोऽपि मनसि कुर्वतः
क्लेशो नोत्पद्यत इति । द्वाभ्यां हि कारणाभ्यां योगिनो विमोक्षादीनुत्पाद-
यन्ति—क्लेशदूरीकरणार्थम्, समापत्तिवशित्वार्थं च । अरणादिगुणाभि-
निर्हाराय आर्यायाश्च ऋद्धेः । सा पुनर्यया वस्तुपरिणामाधिष्ठानायुरुत्सर्गा-
दीनि क्रियन्ते ।
कस्मात् तृतीयाष्टमयोरेव साक्षात्करणमुक्तम्, नान्येषाम् ? प्रधा-
नत्वाद्, धातुभूमिपर्यन्तावस्थितत्वाच्च ।। ३४ ।।
यदि तृतीयध्यानभूमिको वर्णरागो नास्ति, कस्मात् शुभं विमोक्ष-
मुत्पादयतीति । अत आह—अशुभया लीनां सन्ततिं प्रमोदयितुं जिज्ञासनार्थं
वेति । विमोक्षादीनामिति । आदि-शब्देनाभिभ्वायतनाद्युपग्रहः । क्लेश-
दूरीकरणार्थम् । विमोक्षादीनां दूरीभावप्रतिपक्षत्वात् । समापत्तिवशित्वार्थं
च । तच्च समापत्तिवशित्वमरणादिगुणाभिनिहाराय भवति । आर्यायाश्च
ऋद्धेः । किम् ? अभिनिर्हारायेति प्रकृतम् । सा पुनर्यया वस्तुपरिणामा-
धिष्ठान-आयुरुत्सगार्दीनीति । तत्र वस्तुपरिणामम्—य

११८० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
अभिभ्वायतनान्यष्टौ,
अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णानि
दुर्वर्णानि, तानि खलु रूपाण्यभिभूय जानात्यभिभूय पश्यतीत्येवंसंज्ञी भवति—
इदं प्रथममभिभ्वायतनम् । एवमधिमात्राणि । अध्यात्ममरूपसंज्ञ्येवमेव ।
इत्येतानि चत्वारि ।
अध्यात्ममरूपसंज्ञ्येव पुनर्नीलपीतलोहितावदातानि पश्यतीत्यष्टौ
भवन्ति ।
तेषाम्
एवमधिमात्राणीति । "अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति ।
अधिमात्राणि सुवर्णदुर्वर्णानि"—इति विस्तरः । यावत्, "इदं द्वितीय-
मभिभ्वायतनम्" । अध्यात्ममरूपसंज्ञी एवमेवेति । कथम् ? "अध्यास्म-
मरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि" इति पूर्ववत्,
यावत्, "इदं द्वितीयमभिभ्वायतनम्" । तथा "अध्यात्ममरूपसंज्ञी बहिर्धा
रूपाणि पश्यति अधिमात्राणि सुवर्णदुर्वर्णानि" इति पूर्ववत्, यावत्, "इदं
तृतीयमभिभ्वायतनम्" । तथा अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति
अधिमात्राणि सुवर्णदुर्वर्णानि" इति पूर्ववत्, यावत् "इदं चतुर्थमभिभ्वा-
यतनम्" । इत्येतानि चत्वारि । अरूपसंज्ञी एव पुनर्नील-पीत-लोहिता-
वदातानि पश्यतीति । कथम् ? "अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि
पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि । तद्यथा—
उमकापुष्पं सम्पन्नं वाराणसेयं वा वस्त्रं नीलं नीलवर्णं नीलनिदर्शनं
नीलनिर्भासं तानि खलु रूपाण्यभिभूय जानाति, अभिभूय पश्यति, एवं-
संज्ञी च भवति—इदं पञ्चममभिभ्वायतनम् । अध्यात्ममरूपसंज्ञी बहिर्धा
रूपाणि पश्यति पीतानि पीतवर्णानि, पीतनिदर्शनानि पीतनिर्भासानि ।
तद्यथा—कर्णिकार-पुष्पं सम्पन्नं वाराणसेयं वा वस्त्रं पीतमिति विस्तरः—
इदं षष्ठमभिभ्वायतनम् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति
लोहितानि लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि, तद्यथा
बन्धूक-पुष्पं सम्पन्नं वा वाराणसेयं वस्त्रं लोहितमिति विस्तरः—इदं
सप्तममभिभ्वायतनम् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति
अवदातानि अवदातवर्णानि अवदातनिदर्शनानि अवदातनिर्भासानि, तद्यथा—
उशनस्तारकासम्पन्नं वा वाराणसेयं वस्त्रमवदातमिति विस्तरः—इदम-
ष्टममभिभ्वायतनमिति । मूर्धकानि चत्वारि, इमानि चत्वारीत्यष्टौ भवन्ति ।

निर्देशः ] अष्टमं कोशस्थानम् ११८१
द्वयमाद्यविमोक्षवत् ।
यथा प्रथमो विमोक्षः, एवं द्वे अभिभ्वायतने प्रथमद्वितीये ।
द्वे द्वितीयवत्,
यथा द्वितीयो विमोक्ष एवं द्वे अभिभ्वायतने तृतीयचतुर्थे ।
अन्यानि पुनः शुभविमोक्षवत् ॥ ३५ ॥
यथा शुभो विमोक्ष एवमन्यानि चत्वारि ।
अयं तु विशेषः—तैर्विमोक्षमात्रम्¹, एभिस्त्वालम्बनाभिभवनम्;
“द्वयमाद्यविमोक्षवत्” इति । यथा रूपी रूपाणि पश्यतीति प्रथमो
विमोक्षः, आत्मगतं रूपं पश्यन् बहिर्गतं रूपं पश्यति—एवमाद्ये अभिभ्वा-
यतने । तयोर्ह्येकमात्मगतं रूपं पश्यन् बहिर्गतं पश्यति । तथा ह्येतत्
पठ्यते— “अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परित्तानि” इति
विस्तरः । द्वितीयमपि तथैव । अयं तु विशेषः—बहिर्धा रूपाणि पश्यति
अधिमात्राणि । किञ्च—यथा प्रथमो विमोक्षः प्रथमध्यानभूमिकः कामावचर-
वर्णरागप्रतिपक्षः कामावचररूपायतनालम्बनश्च, तथैमे प्रथमे अभिभ्वायतने
वेदितव्ये ।
“द्वे द्वितीयवत्” इति । यथा अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि
पश्यतीत्येवंलक्षणो द्वितीयो विमोक्षः । एवंलक्षणे तृतीयचतुर्थे²
अभिभ्वायतने । ते अपि ह्येवं पठ्येते— “अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि
पश्यति परित्तानि” इति तृतीयः पठ्यते । 'अध्यात्ममरूपसंज्ञी बहिर्धा
रूपाणि पश्यत्यधिमात्राणि” इति चतुर्थः पठ्यते । किञ्च—यथा द्वितीयो
विमोक्षो द्वितीयध्यानभूमिकः प्रथमध्यानभूमिकवर्णरागप्रतिपक्षः कामावचर-
रूपालम्बनश्च, तथा तृतीयं चतुर्थं चाभिभ्वायतनम् ।
“अन्यानि पुनः शुभविमोक्षवत्” इति । यथा शुभो विमोक्षः चतुर्थ-
ध्यानभूमिकः कामावचरमनोज्ञरूपायतनालम्बनश्च, तथा नीलपीत-
लोहितावदाताभिभ्वायतनानि । केवलं त्विह वर्णचतुष्टयं विभज्य गृह्यते ।
शुभस्य च विमोक्षस्यालोभः स्वभावः । एवमेषामपि । यथायं शुभो
विमोक्षः सपरिवारग्रहणात् पञ्चस्कन्धस्वभावः, तथैव तान्यपीति अव-
१. तैर्विमोक्ष्य०—का० । २. एवं तृतीय०—जा० ।

११८४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
यथेष्टमधिमोक्षात्¹, क्लेशानुत्पादाच्च ॥ ३५ ॥
दश कृत्स्नानि,
दश कृत्स्नायतनानि निरन्तरकृत्स्नस्फुरणात् । पृथिव्यप्तेजोवायु-
नीलपीतलोहितावदातकृत्स्नानि । आकाशविज्ञानानन्त्यायतनकृत्स्ने च ।
तेषाम्
अलोभोऽष्टौ²,
प्रथमान्यष्टावलोभस्वभावानि ।
ध्यानेऽन्त्ये,
चतुर्थ एव ध्याने ।
गोचरः पुनः ।
कामाः,
कामावचररूपायतनमेषामालम्बनम् ।
गन्तव्यम् । तैर्विमोक्षमात्रमिति । नालम्बनाभिभवनम् । कथं चाभि-
भ्वायतनैरालम्बनाभिभवायतनमिति ? अत आह—यथेष्टमधिमोक्षादिति ।
यथेष्टं तैर्नीलपीताद्यधिमोक्षात् क्षणेन नीलम्, क्षणेन पीतमित्यादि ।
अमनोज्ञस्य वा विनीलकादेर्मनोज्ञाधिमोक्षात् । क्लेशानुत्पादाच्चेति ।
शुभतोऽपि च सांक्लेशिकं वस्त्वाकारयतः क्लेशानुपत्तेस्तैरभिभ्वायतनैरा-
लम्बनाभिभवनं भवति ॥ ३५ ॥
निरन्तर कृत्स्नस्फुरणादिति । निरन्तरं कृत्स्नानां पृथिव्यादीनां
स्फुरणाद् व्यापनात् । तस्मात् कृत्स्नायतनानीत्युच्यन्ते कामावचरं
रूपायतनमिति ।
“पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया ।
आपस्तेजश्च वायुश्च धातुरेव तथापि च ॥” (अभि० को० १.१३)
इति वचनात् ।
१. यथेच्छ०—का० ।
२. अलोभाष्टौ—का० ।

निर्देशः ] अष्टमं कोशस्थानम् ११८३
वायौ^१ स्प्रष्टव्यायतनमित्येके ।
द्वे शुद्धकारूप्ये,
द्वे पश्चिमे कृत्स्ने शुद्धकारूप्यस्वभावे ।
स्वचतुःस्कन्धगोचरे ॥ ३६ ॥
स्वभूमिकाश्चत्वारः स्कन्धा अनयोरालम्बनम् । विमोक्षप्रावेशि-
कान्यभिभ्वायतनानि, अभिभ्वायतनप्रावेशिकानि कृत्स्नायतनानि; उत्त-
रोत्तरविशिष्टत्वात् । सर्वाणि चैतानि विमोक्षादीनि पृथग्जनार्यसान्तानिकानि,
स्थापयित्वा निरोधविमोक्षम् ॥ ३६ ॥
निरोध उक्तः,
निरोधविमोक्षः पूर्वमेवोक्तः सर्वैः प्रकारैः ।
वैराग्यप्रयोगाप्तं तु शेषितम् ।
निरोधादन्यानि विमोक्षादीनि वैराग्यलाभिकानि प्रायोगिकानि च;
उचितानुचितत्वात् ।
त्रिधात्वाश्रयसारूप्यसंज्ञं शेषं मनुष्यजम् ॥ ३७ ॥

वायौ स्प्रष्टव्यायतनमित्येक इति । ये वायौ रूपायतनं नेच्छन्ति, ते
आहुः—वायौ स्प्रष्टव्यायतनमालम्बनमिति ।
विमोक्षप्रावेशिकानीति । प्रवेशा एव प्रावेशिकानि—इति स्वार्थ-
वृद्धिविधानात् । प्रवेशे भवानि वा । उत्तरोत्तरविशिष्टत्वादिति । यस्माद्
विमोक्षेभ्य उत्तराणि अभिभ्वायतनानि विशिष्टानि, अभिभ्वायतनेभ्य
उत्तराणि कृत्स्नायतनानि विशिष्टानीति, तदुक्तं भवति—विमोक्षान्
उत्पाद्य अभिभ्वायतनानि उत्पादयति । अभिभ्वायतनान्युत्पाद्य कृत्स्नायत-
नान्य्ुत्पादयतीति । स्थापयित्वा निरोधविमोक्षमिति । तस्यैकान्तेनार्य-
सान्तानिकत्वात् ॥ ३६ ॥
उचितानुचितत्वादिति । उचितानि वैराग्यलाभिकानि । अनुचितानि
प्रायोगिकानि । शेषमिति विस्तरः । किं पुनः शेषम् ? प्रथमास्त्रयो
१. वायोः—का० ।

आरूप्यविमोक्षा आरूप्यकृत्स्ने च त्रैधातुकाश्रयाणि । शेषं मनुष्या-
श्रयमेव; उपदेशसामर्थ्येनोत्पादनात् ॥ ३७ ॥
कथं रूपारूप्यधात्वोरारूप्यध्यानविशेषोत्पादनम् ? त्रिभिः कारणैर्ध्या-
नारूप्यसमापत्तीनामुपपत्तिः, हेतुकर्मधर्मताबलेः । तत्र—
हेतुकर्मबलाद्धात्वोरारूप्योत्पादनं द्वयोः ।
द्वयोः रूपारूप्यधात्वोरारूप्यसमापत्त्युत्पादनम् । हेतुबलाच्च,
आसन्नाभीक्ष्णाभ्यासात्१, कर्मबलाच्च ऊर्ध्वभूमिकस्यापरपर्यायवेदनीयस्य
कर्मणः प्रत्युपस्थितविपाकत्वात् । नह्यधस्तादवीतरागेणोर्ध्वं शक्य-
मुपपत्तुमिति२ ।
विमोक्षा अभिभ्वायतनान्यष्टौ । कृत्स्नायतनान्यष्टौ । एतन्मनुष्याश्रयमेव ।
किं कारणम् ? उपदेशसामर्थ्येनोत्पादनात् । अन्यत्र देवादिषूपदेशा-
भावात् ॥ ३७ ॥
कथं रूपारूप्यधात्वोरारूप्यध्यानविशेषोत्पादनमिति । आरूप्यधातौ
रूपधातौ वा यस्यां भूमावुपपन्नः, तदूर्ध्वं यदारूप्यं ध्यानं च, तत् ततो
विशिष्येत इत्यारूप्यध्यानविशेषः । तस्यारूप्यध्यानविशेषस्य कथमुपदेश-
मन्तरेण भवतीति ? यतः शेषं मनुष्याश्रयमेव । उपदेशसामर्थ्येनोत्पादना-
दित्युक्तम्, अतोऽनेन सम्बन्धेन पृष्टम्—कथं रूपारूप्यधात्वोरिति विस्तरः ।
हेतुबलाच्च आसन्नाभीक्ष्णाभ्यासाच्च । आसन्नाभ्यासाद्, अभीक्ष्णाभ्या-
साच्च । कथं कृत्वा ? कश्चिद् आरूप्यसमापत्तिं समापद्य ततश्च परि-
हायनान्तरमेव रूपधातावुपपद्यते । आरूप्यसमापत्तिलक्षणस्य सभाग-
हेतोर्बलीयस्त्वात् तस्य रूपधातौ आरूप्यसमापत्तिरुत्पत्स्यते । अभीक्ष्णा-
भ्यासादपि । यदि कश्चिद् आरूप्यसमापत्तिमभीक्ष्णं समापद्य, ततश्च
परिहाय रूपधातौ उपपद्यते, तस्यारूप्यसमापत्तिलक्षणस्य सभागहेतोर्बली-
यस्त्वाद् रूपधातौ आरूप्यसम्पत्तिरुत्पद्यते । एवं विज्ञानानन्त्यायतनसमा-
पत्तेरपि परिहीणस्याकाशानन्त्यायतनोपपन्नस्य तथैव तत्समापत्तीनामुत्पा-
दनम् । एवं तदूर्ध्वोपपन्नस्य ।
कर्मबलाच्चेति । रूपधातावुपपन्नस्य अपरपर्यायवेदनीयस्य कर्मणः
प्रत्युपस्थितविपाकत्वात् । तद्वैराग्यानुकूला सन्ततिरवतिष्ठते । न ह्यधस्ताद्
अवीतरागेणोर्ध्वमारूप्यधातावशक्यमुपपत्तुमिति । एवमारूप्येषु आकाशा-
१. हेतुबलाद् — का० । २. ०मुत्पत्तु० — का० ।

निर्देशः ] अष्टमं कोशस्थानम् ११८५
ध्यानानां रूपधातौ तु ताभ्यां धर्मतयापि च ॥ ३८ ॥
रूपधातौ ध्यानोत्पादनमेताभ्यां च¹ हेतुकर्मबलाभ्यां धर्मतयापि² च
संवर्तनीकाले । तदानीं हि सर्वसत्त्वा एवाधरभूमिकास्तद्ध्यानमुत्पादयन्ति;
कुशलानां³ धर्माणा मुद्भूतवृत्तित्वात् ॥ ३८ ॥
कियच्चिरं पुनरयं सद्धर्मः स्थास्यति ? यत्रेमे ईदृशा⁴ धर्माणां
प्रकाराः प्रज्ञायन्ते ?
नन्त्यायतनॊपपन्नस्य कर्मबलात् । ऊर्ध्वभूमिकस्य विज्ञानानन्त्यायतनभूमि-
कस्यापरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात् । तद्वैराग्यानुकूला
सन्ततिरवतिष्ठते । न ह्यधस्तादवीतरागेणोर्ध्वं शक्यमुपपत्तुमिति । एताभ्यां
च हेतुकर्मबलाभ्याम् ।
कथं प्रथमादिषु ध्यानेषु द्वितीयादिध्यानोत्पादनम् ? हेतुबलाच्च
आसन्नाभीक्ष्णाभ्यासात् । कर्मबलाच्चोर्ध्वभूमिकस्येति विस्तरेण योज्यम् ।
"धर्मतयापि च" इति । कथं धर्मता नाम ? केचित् तावत्
सौत्रान्तिका आहुः—एषामेव धर्माणा मुद्भूतवृत्तीनां पूर्वध्यानवासनाधि-
पत्यात् तदुत्पत्तौ उपदेशमन्तरेण ध्यानोत्पत्तावानुगुण्यं धर्मता, प्रकृतिः ।
स्वभावतेत्यर्थः ।
वैभाषिका अपि केचिदाहुः—पूर्वजन्मनिकात् सभागहेतोः निष्यन्द-
फलं ध्यानोत्पादनम्, तदुपदेशमन्तरेण अन्यतो धर्मतेति ।
कुशलानां धर्माणा मुद्भूतवृत्तित्वादिति । तत्र संवर्तनीकाले कुशलानां
कर्मपथानामित्यर्थः । वृत्तिस्तेषामेव धर्माणां यत् कारित्रम् । उद्भूता
उत्कृष्टा वृत्तिरेषामित्युद्भूतवृत्तयः, तद्भावः, तस्मात् । एतदुक्तं भवति—
तेषां कुशलानां प्रकर्षेणात्मलाभात् तदुत्पत्त्यानुगुण्येन आत्मलाभात् तदु-
पदेशमन्तरेणान्यतः पूर्वध्यानवासनायां सत्यां ध्यानोत्पत्तिरिति ॥ ३८ ॥
इम ईदृशा धर्माणां प्रकारा इति । सास्रवानास्रवाणां धर्माणां
धातुभूम्यालम्बनाकारादिप्रकारा यथायोगमित्यर्थः ।
१. का० पुस्तके नास्ति । २. धर्मतया—का० ।
३. कृत्स्नानां—का० ।
४. ईदृशानां—का० ।

११८६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ समाप्ति-
सद्धर्मो द्विविधः शास्तुरागमाधिगमात्मकः।
तत्रागमः सूत्रविनयाभिधर्माः, अधिगमो बोधिपक्षाः—इत्येष द्विविधः
सद्धर्मः।
धातारस्तस्य वक्तारः प्रतिपत्तार एव च ॥ ३९ ॥
आगमस्य हि धारयितारो वक्तारः। अधिगमस्य प्रतिपत्तारः।
अतो यावदेते स्थास्यन्ति तावत् सद्धर्म इति वेदितव्यम्।
तेषां तु वर्षसहस्रमवस्थानमाहुः।
अधिगमस्यैवम्। आगमस्य तु भूयांसं कालमित्यपरे १॥ ३६ ॥
योऽयमिह शास्त्रेऽभिधर्म उक्तः किमेष एव शास्त्राऽभिधर्मो
देशितः ?
काश्मीरवैभाषिकनीतिसिद्धः,
प्रायो मयाऽयं कथितोऽभिधर्मः।
“धातारस्तस्य वक्तारः प्रतिपत्तार एव च” इति। तस्य आगमाधि-
गमात्मकस्य सद्धर्मस्य यथासंख्यं आगमस्य ये वक्तारः तेऽस्य धातारः,
अधिगमस्य च ये प्रतिपत्तारः तेऽस्य धातार इति।
अधिगमस्यैवमिति। वर्षसहस्रमवस्थानमिति। आगमस्य तु भूयांसं
कालमिति। वर्षसहस्रादूर्ध्वमपीत्यर्थः। एष एव पक्षो युक्त इति
पश्यामः ॥ ३९ ॥
योऽयमिति। योऽयमिह अभिधर्मकोशलक्षणे अभिधर्म उक्तः। किमेष
एव शास्त्राऽभि १धर्मो ज्ञानप्रस्थानादिलक्षणो देशितः। अत इदमुच्यते—
“काश्मीरवैभाषिकनीतिसिद्धः” इति विस्तरः। कश्मीरे भवाः
काश्मीराः। विभाषया दीव्यन्ति वैभाषिकाः इति व्याख्यातमेतत्। सन्ति
काश्मीरा न वैभाषिकाः, ये विनयविदादयः सौत्रान्तिकाः भदन्तादयः।
सन्ति वैभाषिका न काश्मीराः, ये बहिर्देशका वैभाषिकाः—इत्युभय-
विशेषणम्। तेषां नीत्या यः सिद्धोऽभिधर्मः, स प्रायेणेह मया देशितः।
अर्थादुक्तं भवति—अन्यनीतिसिद्धोऽपि देशित इति।
१. शास्त्रो०—जा०।

[Header]
निर्देश: ] अष्टमं कोशस्थानम् ११८७

यद् दुर्गुहीतं तदिहास्मदागः,
सद्धर्मनीतौ मुनयः प्रमाणम् ॥ ४० ॥
प्रायेण हि काश्मीरवैभाषिकाणां १नीत्या सिद्ध एषोऽस्माभिरभिधर्म
आख्यातः। यदत्रास्माभिर्दुर्गुहीतं सोऽस्माकमपराधः। सद्धर्मनीतौ तु
पुनर्बुद्धा एव प्रमाणम्, बुद्धपुत्राश्च ॥ ४० ॥
निमीलिते शास्तरि लोकचक्षुषि
क्षयं गते साक्षिउने च भूयसा।
अदृष्टतत्त्वैर्निरवग्रहैः कृतं
कुतार्किकैः शासनमेतदाकुलम् ॥ ४१ ॥
गते हि२ शान्तिं परमां स्वयम्भुवि
स्वयम्भुवः शासनधूर्धरेषु च।
यद् दुर्गु हीतमिति। काश्मीरवैभाषिकनयेन, अन्यनयेन वा। तदिह
वचने अस्मदागः अस्मदपराधः। किं कारणम् ? इत्याह-सद्धर्मनीतौ
[

११८८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्तिनिर्देशः ]
जगत्यनाथे गुणघातिभिर्मलैः,
निरङ्कुशं¹ स्वैरमिहाद्य चर्यते ॥ ४२ ॥
एवं² कण्ठगतप्राणं विदित्वा शासनं मुनेः ।
बलकालं मलानां च न प्रमाद्यं मुमुक्षुभिः ॥ ४३ ॥
इति अभिधर्मकोशभाष्ये
समापत्तिनिर्देशो नामाष्टमकोशस्थानम्
जगति शासनान्तर्धानहेतुभिः। दृष्ट्यादिभिर्मलैः दोषैर्निरंकुशं स्वैरं
यथेच्छमिह लोके अद्य सम्प्रति चर्यते । भावनाग्नमेतत् ॥ ४२ ॥
ततश्च एवं कण्ठगतं प्राणम् । कण्ठगतप्राणमिवेत्यर्थः । तद् विदित्वा ।
बलकालं च मलानां दोषाणां विदित्वा न प्रमाद्यं मुमुक्षुभिरिति । भाव-
साधनमिति ॥ ४३ ॥
स्फुटार्थायां नामाभिधर्मकोशव्याख्यायां
समापत्तिनिर्देशो नामाष्टमं

ॐ नमो बुद्धाय
पुद्गलविनिश्चयः
किं खल्वतोऽन्यत्र मोक्षो नास्ति ? नास्ति । किं कारणम् ?
वितथात्मदृष्टिनिविष्टत्वात् । नहि ते स्कन्धसन्तान एवात्मप्रज्ञप्तिं व्यवस्यन्ति ।
किं र्तहि ? द्रव्यान्तरमेवात्मानं परिकल्पयन्ति, आत्मग्राहप्रभवाश्च क्लेशा'
इति ।
कथं पुनरिदं गम्यते—स्कन्धसन्तान एवेदमात्माभिधानं वर्तते,
नान्यस्मिन्नभिधेये इति ?
पुद्गलविनिश्चयः
किं खल्वतोऽन्यत्र मोक्षो नास्तीति । ‘न प्रमाद्यं मुमुक्षुभिः’ (अभि०
८.४३) इति वचनाद् अयमेव मोक्षोपायः, नास्त्यतोऽन्यो मोक्षोपायः ।
तदत्र मोक्तुकामैः प्रमादो न कर्तव्य इत्यर्थादुक्तमाचार्येण । चोदकः
पृच्छति—किं खल्वत इति विस्तरः । अत्रोच्यते—नास्तीति । किं कारणम् ?
इत्याह—वितथात्मदृष्टिनिविष्टत्वादिति । वितथायामात्मदृष्टौ निविष्टाः
कुतीर्थ्याः वितथात्मदृष्टिनिविष्टाः, तद्भावः, तस्मात् । नास्त्यन्यत्र मोक्ष
इति ।
स्तोत्रकारेणाप्येषोऽर्थ उक्तः—
“साहङ्कारे मनसि न शमं याति जन्मप्रबन्धो
नाहङ्कारश्चलति हृदयादात्मदृष्टौ च सत्याम् ।
अन्यः शास्ता जगति च यतो नास्ति नैरात्म्यवादी
नान्यस्तस्मादुपशमविधेस्त्वन्मतादस्ति मार्गः” ।। इति ।
साधनं चात्र--“नास्ति कपिलोलूकादीनां मोक्षः, वितथात्मदृष्टि-
निविष्टत्वात्, अदृष्टतत्त्वपुरुषवत् ।” आत्मग्राहप्रभवाश्च क्लेशा इति
यथोक्तम् । यानि वा पुनरिहैकत्यानां श्रमणब्राह्मणानां पृथग्लोके दृष्टि-
गतानि सत्कायदृष्टिमूलकानि तानीति विस्तरः । आत्मदृष्टौ च सत्यामात्म-
स्नेहादयः क्लेशाः प्रवर्तन्ते । स्कन्धसन्तान एवेदमात्माभिधानमिति ।
आत्मेत्यभिधानम् । आत्मप्रज्ञप्तिरित्यर्थः । नान्यस्मिन्नभिधेय इति । स्कन्ध-

११६० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
प्रत्यक्षानुमानाभावात् ।
ये हि धर्माः सन्ति तेषां प्रत्यक्षमुपलब्धिर्भवत्यसत्यन्तराये । तद्यथा—
षण्णां विषयाणां मनसश्च ।
अनुमानं च । तद्यथा पञ्चानामिन्द्रियाणाम् । तत्रेदमनुमानम्—सति
कारणे कारणान्तरस्याभावे कार्यस्याभावो दृष्टो भावे च पुनर्भवः, तद्यथा—
अङ्कुरस्य । सत्येव वाभासप्राप्ते२ विषये मनस्कारे च कारणे विषय-
ग्रहणस्याभावो दृष्टः पुनश्च भावः, अन्धवधिरादीनामनन्धावधिरादीनां च ।
सन्तानव्यतिरिक्ते कल्पित इत्यर्थः । कस्मादेवम् ? इत्याह—प्रत्यक्षानु-
मानाभावादिति । प्रत्यक्षस्यानुमानस्य चाभावान्न तस्यास्तित्वमित्यभि-
प्रायः । आगमस्यानुमानान्तर्भावात् अपृथग्वचनम् ।
तेषां प्रत्यक्षमुपलब्धिरिति । प्रत्यक्षमित्युपलब्धिविशेषणम् । प्रत्यक्षं
तदुपलब्धिः, प्रत्यक्षत उपलब्धिरित्यर्थः । अथवा प्रत्यक्षं प्रमाणमुपलब्धिः,
उपलभ्यतेऽनयेत्युपलब्धिः । असत्यन्तराय इति । असत्युपलब्धिविघ्नेऽ-
तिसन्निकर्षातिविप्रकर्षादिके । तेषाम् । षण्णां विषयाणामिति । रूप-शब्द-
गन्ध-रस-स्प्रष्टव्यायतनानां धर्मायतनस्य च वेदनादिलक्षणस्य योगिविषयस्य
चागमविकल्पातीतस्येति । मनसश्च । किम् ? प्रत्यक्षम् उपलब्धिः । समनन्तर-
निरुद्धं हि मनोऽनन्तरोत्पन्नेन मनोविज्ञानेन विज्ञायते । रक्तं वा द्विष्टं
वा सुखसम्प्रयुक्तं वा दुःखसम्प्रयुक्तं वा—इत्येवमादि स्वसंवेद्यतेत्यपरे ।
तदेतद् द्विविधं प्रत्यक्षम्—१. ग्राह्यगतम्, २. ग्राहकगतं चेति ।
अनुमानं चेति विस्तरः । यत्र प्रत्यक्षस्याप्रवृत्तिः तत्रानु-
मानतस्तदुपलब्धिः । तद्यथा पञ्चानामिन्द्रियाणामिति । चक्षुरिन्द्रिया-
दीनाम् । सति कारणे क्षेत्रोदकादिके । कारणान्तरस्य बीजलक्षणा-
स्याभावे कार्यस्याङ्कुराख्यस्याभावो दृष्टः । भावे च तस्य बीजस्य
पुनर्भवोऽङ्कुरस्य दृष्टः । तद्यथाऽङ्कुरस्येति दृष्टान्तोपन्यासः । एवं
दृष्टान्तमुपन्यस्य दार्ष्टान्तिकमुपदर्शयन्नाह—सत्येव वाभासप्राप्त इति
विस्तरः । विद्यमान एव सम्मुखीप्राप्ते विषये रूपादिके मनस्कारे च
तज्जे कारणे । विषयग्रहणस्य चक्षुरादिविज्ञानस्याभावो दृष्टः, पुनश्च
भावः । केषामिति ? यथासङ्ख्यं दर्शयति—अन्धवधिरादीनामभावः ।
अनन्धावधिरादीनां च भाव इति । आदि-शब्देनोपहतानुपहत घ्राणेन्द्रिया-
१. सर्वक्लेशाः—का० ।
२. चा०—का० ।

विनिश्चयः ] अष्टमं कोशस्थानम् ११९१
अतस्तत्रापि कारणान्तरस्याभावो भावश्च निश्चीयते । यच्च तत्कारणान्तरं
तदिन्द्रियमित्‍येतदनुमानम् । न चैवमात्मतोऽस्तीति¹ नास्त्यात्मा ।
यत्तर्हि वात्सीपुत्रीयाः पुद्गलं सन्तमिच्छन्ति ।
विचार्यं तावदेतत्—किं ते द्रव्यत इच्छन्ति, आहोस्वित् प्रज्ञप्तितः ?
दीनां ग्रहणम् । अतस्तत्रापि कारणान्तरस्य कस्यापि अनिर्भिन्नरूपस्याभावो
भावश्च यथासङ्ख्यमेव निश्चीयते । किं पुनस्तद् ? इत्याह—यच्च
तत्कारणान्तरमपेक्ष्यते तदिन्द्रियम् । चक्षुरादिकमित्यभिप्रायः । साधनं
चात्र—"कारणान्तरसहितः स्वकार्यजनकः पञ्चविज्ञानकायजनकसम्मतो
विषयमनस्कारलक्षणो भावः; कदाचिदेव स्वकार्यनिर्वर्तकत्वात् । कदाचिदेव
स्वकार्यनिर्वर्तकं तत् कारणान्तरसहितस्वकार्यजनकम्, तद्यथा—अङ्कुरजनकं
क्षेत्रोदकम् । बीजलक्षणकारणान्तरसहितस्वकार्यान्तरजनकं हि क्षेत्रोदकं
कदाचिदेव स्वकार्यनिर्वर्तकम्, बीजसद्भावावस्थायामङ्कुरनिर्वर्तकत्वात् ।
बीजासद्भावावस्थायां च स्वस्वकार्याजनकत्वात् । तथा च स विषयम-
नस्कारलक्षणो भावः । स हि अनन्धाबधिराद्यवस्थायां तस्य पञ्चविज्ञान-
कायलक्षणस्य स्वकार्यस्य जनको भवति, अन्धवधिराद्यवस्थायां चाजनकः ।
तस्मादसौ कारणान्तरसहितः स्वकार्यजनकः" इति । तदिन्द्रियमिति । कथं
तदिन्द्रियमिति परिच्छिद्यते; कारणान्तरमस्तीत्येतावदेव हि परिच्छिद्यते,
न तु तदिन्द्रियमिति ? सिद्धमेवैतत् । महर्षिप्रणिधिज्ञानपरिच्छिन्नत्वा-
दस्त्येव चक्षुरिन्द्रियमिन्द्रियं चक्षुर्विज्ञानादिकारणमिति । सर्वेषामविवा-
दाच्च । न चैवमात्मतोऽस्तीति नास्त्यात्मेति निगमयति । उक्तं ह्येवमर्थतः
साधनम्—'नास्त्यात्मा, प्रमाणेनानुपलभ्यमानत्वात्, अत्यन्ताभाववद्' इति ।
अस्त्यनुमानम्, अतोऽसिद्धो हेतुरिति चेत् ? न; यदि हि तदस्ति, तदुच्य-
ताम् ! न वाङ्मात्रेण असिद्धो हेतुः—इति प्रत्यवस्थातव्यमिति ।
यत्तर्हि वात्सीपुत्रीया इति विस्तरः । वात्सीपुत्रीया आर्यसाम्मतीयाः ।
अनेन वितथात्मदृष्टिनिविष्टलक्षणो हेतुरनैकान्तिक इति दर्शयति । न हि
वात्सीपुत्रीयाणां मोक्षो नेष्यते, बौद्धत्वात् । अथ वा परपक्षविरोध-
सापक्षालोडयं पक्षो नास्त्यात्मेत्यनेन दर्शयति । स्वपक्षो वात्सीपुत्रीयो निकाय
इति ।
विचार्यं तावदेतदिति । तन्निकाये प्रज्ञप्तिसत्पुद्गल इत्यदोष एष
इत्यभिप्रायः ।
१. आत्मनो०—का० ।
अभि० को० ४ : ११

११६२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
किं वेदं¹ द्रव्यत इति ? किं वा प्रज्ञप्तितः ? रूपादिवात् भावन्तरं चेत्,
द्रव्यतः । क्षीरादिवत् समुदायश्चेत्, प्रज्ञप्तितः ।
किं चातः ? यदि तावद् द्रव्यतः ? भिन्नस्वभावत्वात्² स्कन्धेभ्योऽन्यो
वक्तव्यः, इतरेतरस्कन्धवत् । कारणं चास्य वक्तव्यम् । असंस्कृतो वा ।
अतस्तीर्थिकदृष्टिप्रसङ्गो निष्प्रयोजनत्वं च । अथ प्रज्ञप्तितः ? वयमप्येवं
ब्रूमः ।
नैव हि द्रव्यतोऽस्ति, नापि प्रज्ञप्तितः । किं तर्हि ? आध्यात्मिका-
नुपात्तान् वर्तमानान् स्कन्धानुपादाय पुद्गलः प्रज्ञप्यते । तदिदमन्धवचन-
मनुन्मीलितार्थं न बुध्यामहे ।
किं चेदं द्रव्यत इति किं वा प्रज्ञप्तित इति चोदित आचार्य आह—
रूपातिवद् भावान्तरं चेद् द्रव्यतः । यदि यथा रूपादिः शब्दादेर्भावान्तर-
मभिप्रायते, द्रव्यतः पुद्गल इत्युपगतो भवति । भिन्नलक्षणं रूपं शब्दात्
इत्यादि । क्षीरादिवत् समुदायश्चेत् प्रज्ञप्तितः । यथा क्षीर-गृह-सेनादिकम्
रूपरसगन्धस्प्रष्टव्येभ्यः, तृणकाष्ठेषिकादिभ्यः, हस्त्यश्वरथादिभ्यश्च
न भावान्तरमिष्यते, किं तर्हि ? तेषामेव समुदायमात्रमित्येवं
चेत्; प्रज्ञप्तितः पुद्गल इत्येवमुपगतो भवति । न हि रूपादिभ्यः,
तृणादिभ्यः, हस्त्यश्वादिभ्यो वा क्षीर-गृह-सेनेति वा कश्चिद् भावोऽस्ति ।
किं चातः । कश्चातो दोष इत्यभिप्रायः ।
यदि तावद् द्रव्यत इति पक्ष आश्रीयते, स पुद्गलो भिन्नस्वभावत्वात्
भिन्नस्वलक्षणत्वात् स्कन्धेभ्योऽन्यो वक्तव्यः । न स्कन्धसमुदायमात्रः ।
इतरेतरस्कन्धवत् । यथा रूपादिस्कन्धात् वेदनादिस्कन्धोऽन्यो भिन्न-
लक्षणत्वात्; एवं स्कन्धेभ्यः पुद्गल स्यात्; अरूपस्कन्धादिलक्षणत्वात्
पुद्गलस्य । कारणं चास्य वक्तव्यम् । यदि संस्कृत इत्यभिप्रायः । असंस्कृतो
वा । अतस्तीर्थिकदृष्टिप्रसङ्गः । अतोऽसंस्कृतत्वात् वात्सीपुत्रीयाणां तीर्थिक-
दृष्टिः प्रसज्यते । निष्प्रयोजनत्वं चेति ।
वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ।
चर्मोपमश्चेत् सोऽनित्यः, खतुल्यश्चेदसत् फलम् ।।
इत्यर्थः ।
इदमन्धवचनमनुन्मीलितार्थमिति । अन्धमिवाग्धम् । कस्मात् ?
१. चेदं—का० । २. संभिन्न०—का० ।

विनिश्चयः ] अष्टमं कोशस्थानम् ११९३
किमिदमुपादायेति ? यद्ययमर्थः—स्कन्धानालम्ब्येति १; तेष्वेव पुद्गल-
प्रज्ञप्तिः प्राप्नोति । यथा रूपादीनालम्ब्य तेष्वेव क्षीरप्रज्ञप्तिः । अथायमर्थः—
स्कन्धान् प्रतीत्येति; स्कन्धानां पुद्गलप्रज्ञप्तिकारणत्वात् ? स एव दोषः;
न स एवं प्रज्ञप्यते । कथं तर्हि ? यथेन्धनमुपादायाग्निः ।
कथं चेन्धनमुपादायाग्निः प्रज्ञप्यते ? न हि विनेन्धनेनाग्निः प्रज्ञप्यते,
न चान्य इन्धनादग्निः शक्यते प्रज्ञपयितुम्, नाप्यनन्यः । यदि ह्यन्यः
स्याद्, अनुष्णाग्नीन्धनं स्यात् । अथानन्यः स्यात्, दाह्यमेव दाहकं स्यात् ।
एवं न च विना स्कन्धैः पुद्गलः प्रज्ञप्यते । न चान्यः स्कन्धेभ्यः
शक्यते प्रतिज्ञातुम्; शाश्वतप्रसङ्गात् । नाप्यनन्यः; उच्छेदप्रसङ्गादिति ।
अङ्ग तावद् ब्रूहि—किमिन्धनम्, कोऽग्निरिति ? ततो ज्ञास्यामः--कथ-
मिन्धनमुपादायाग्निः प्रज्ञप्यत इति । किमत्र वक्तव्यम् ! दाह्यमिन्धनम्, दाह-
कोऽग्निः । एतदेवात्र वक्तव्यम्—कि दाह्यम् ? को दाहक इति ? लोके हि
तावदप्रदीप्तं काष्ठादिकमिन्धनमुच्यते, दाह्यं च । प्रदीप्तमग्निर्दाहकश्च ।
यच्च भास्वरं चोष्णं च, भृशं च, तेन हि तदिध्यते दह्यते च; सन्ततिविकारा-
यस्मादनुन्मीलितार्थम् । अव्यञ्जितार्थमित्यर्थः । स्कन्धानालम्ब्येति ।
गृहीत्वेत्यर्थः । यथा रूपादीन् गृहीत्वा अपेक्ष्य क्षीरप्रज्ञप्तिः । न रूपादि-
व्यतिरिक्तं क्षीरमस्तीति । यदि तथा । पुद्गल इति प्रज्ञप्तिः, असत्पुद्गल
प्राप्नोतीत्यर्थः । स्कन्धान् प्रतीत्येति । यदि स्कन्धान् प्रतीत्य प्राप्य इति ।
स एव दोषः । तेष्वेव स्कन्धादिषु पुद्गलप्रज्ञप्तिः प्राप्नोतीत्यर्थः । अथ वा—
पुद्गलप्रज्ञप्तेः स्कन्धाः प्रत्ययो न पुद्गलः । पुद्गलस्तु तथैव प्रज्ञप्तिसन्नीति
स एव दोषः ।
यथेन्धनमुपादायाग्निः । प्रज्ञप्यत इति । द्रव्यसन् पुद्गलः । नान्यो नानन्य
इति । स्वमुपादानमुपादाय प्रज्ञप्यमानत्वात् । यो हि भावो नान्यो नानन्य
इति स्वमुपादाय प्रज्ञप्यमानः, स द्रव्यसन्; तद्यथा—अग्निः । इति
वात्सीपुत्रीयाभिप्रायः । अत एव चाह—यदि ह्यन्यः स्यादिति विस्तरेण ।
लोकविरोधं स्वसिद्धान्तविरोधं वा दर्शयति ।
शाश्वतप्रसङ्गादिति । असंस्कृतत्वात् । उच्छेदप्रसङ्गादिति । स्कन्धवत् ।
अप्रदीप्तं काष्ठादिकमिन्धनमिति विस्तरः । अनेनासिद्धतां दृष्टान्तस्य
दर्शयति । अन्यत्वमेव हि अग्नीन्धनयोरिष्यते । तेन हि तदिध्यते दह्यते
चेति । तेन अग्निना । तदिन्धनम् । इष्यते दीप्यत इत्यर्थः । दह्यते
१. स्कन्धानां लक्ष्यते—का०।

११९४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
पादानात्। तच्चोभयमष्टद्रव्यकं तच्चेन्धनं प्रतीत्याग्निरुत्पद्यते। यथा
क्षीरं प्रतीत्य दधि, मधु प्रतीत्य शुक्तम्। तस्मादिन्धनमुपादायेत्युच्यते।
अन्यश्च सः; तस्माद्भिन्नकालत्वात्।
यदि चैवं पुद्गलः स्कन्धान् प्रतीत्योत्पद्यते, स तेभ्योऽन्यश्चानित्यश्च
प्राप्नोति। अथ पुनस्तत्रैव काष्ठादौ प्रदीप्ते यदौष्ण्यं तदग्निः, तत्सहजातानि
त्रीणि भूतानीन्धनमिष्यन्ते। तयोरपि सिद्धमन्यत्वम्; लक्षणभेदात्;
उपादायार्थस्तु वक्तव्यः—कथं तदिन्धनमुपादाय सोऽग्निः प्रज्ञप्तः
इति? न हि तत्तस्य कारणम्, नापि तत् प्रज्ञप्तेः। अग्निरेव हि तत्प्रज्ञप्तेः
कारणम्। यद्याश्रयार्थः; उपादायार्थः सहभावोऽर्थो१ वा। स्कन्धा
अप्येवं पुद्गलस्याश्रयसहभूताः प्राप्नुवन्तीति स्कन्धतः स्पष्टमन्यत्वं२ प्रति-
ज्ञायते। तदभावे च पुद्गलाभावः प्राप्नोति। इन्धनाभाव इवाग्न्यभावः।
भस्मीक्रियते। सन्ततिविकारापादानात्। भस्मतापादानादित्यर्थः। इध्यते
दह्यते चेति पर्यायावित्यपरे। तच्चोभयमष्टद्रव्यकमिति। इन्धनं चाग्नि-
श्चैतदुभयमप्यष्टद्रव्यकम्—चत्वारि महाभूतानि चत्वारि चोपादायरूपाणि
रूपम् यावत् स्प्रष्टव्यमिति; “कामेऽष्टद्रव्यकोऽशब्दः” (अभि० को० २.२३)
इति सिद्धान्तात्।
भिन्नकालत्वादिति। पूर्वमिन्धनम्, पश्चादग्निः। भिन्नकालयो-
श्चान्यत्वं दृष्टं बीजाङ्कुरयोः। अनित्यश्च प्राप्नोतीति। उत्पत्तिमतो
रूपादेरनित्यत्वदर्शनात्। तत्रैव काष्ठादौ प्रदीप्त इति। तदुभयलक्षणे
समुदाये। तयोरपि सिद्धमन्यत्वम्, लक्षणभेदादिति। तयोरपि अग्नीन्धन-
योरेवंलक्षणयोः सिद्धमन्यत्वम्; लक्षणभेदात्। पृथिवीधात्वादीनां
लक्षणान्यत्वात्। भिन्नलक्षणानां ह्यन्यत्वं दृष्टं रूप-वेदनादीनाम्।
उपादायार्थस्तु वक्तव्य इति। अनन्यत्वादित्यभिप्रायः। न हि तत्
तस्य कारणमिति। न हि तदिन्धनं भूतत्रयलक्षणं तस्योष्णलक्षणस्याग्नेः
कारणं युज्यते; सहजातत्वात्। सव्येतरगोविषाणवत्। नापि तत्प्रज्ञप्तेरिति।
अग्नि-तत्प्रज्ञप्तेः। यद्याश्रयार्थ इति। इन्धनमुपादाय = इन्धनमाश्रित्येत्यर्थः।
सहभावोऽर्थो वेति। सहोत्पादार्थः। इन्धनं सहभूत्वेनागृह्णात्यर्थः।
आश्रयसहभूताः प्राप्नुवन्तीति। आश्रयभूताः, सहभूताश्च प्राप्नुवन्तीत्यर्थः।
स्कन्धतः स्पष्टमन्यत्वं प्रतिज्ञायते वात्सीपुत्रीयैः। तदभाव इति।
स्कन्धाभावे।
१. सहभावार्थो—का०। २. विस्पष्टम०—का०।

विनिश्चयः ] अष्टमं कोशस्थानम् ११६५
यत्तदुक्तम्—यदिन्धनादन्योऽग्निः स्याद्, अनुष्णमिन्धनं स्यादिति !
किमिदमुष्णं नाम ? यदि तावदौष्ण्यम्, अनुष्णमेवेन्धनम्; अन्यभूतस्व-
भावत्वात् । अथ यदौष्ण्यवत्, अन्यदपि तदुष्णस्वभावादग्नेरुष्णं सिध्यति;
औष्ण्ययोगादिति । नास्त्यन्यत्वे दोषः । अथ पुनः सर्वमेव तत् प्रदीप्तं
काष्ठादिकमिन्धनं चाग्निश्चेष्यते ।
तदुपादायार्थश्च वक्तव्यः । स्कन्धा एव च पुद्गला इत्यनन्यत्व-
मनिवार्यं प्राप्नोति । तस्मान्न सिध्यत्येतत्—यथेन्धनमुपादायाग्निः प्रज्ञप्यते
एवं स्कन्धानुपादाय पुद्गल इति । यदि चायमन्यः स्कन्धेभ्यो न वक्तव्यः,
“पञ्चविधं ज्ञेयमतीतानागतं प्रत्युत्पन्नमसंस्कृतमवक्तव्यम्” ( ) इति
न वक्तव्यं प्राप्नोति । नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं वक्तव्यम् ।
यदा च पुद्गलः प्रज्ञप्यते, किं तावत् स्कन्धानुपलभ्य प्रज्ञप्यते ?
आहोस्वित् पुद्गलम् ? यदि तावत् स्कन्धान्, तेष्वेव पुद्गलप्रज्ञप्तिः
प्राप्नोति; पुद्गलस्यानुपलम्भात् । अथ पुद्गलम् ? कथमस्य स्कन्धानु-
पादाय प्रज्ञप्तिर्भवति । पुद्गल एव हि तस्या उपादानं प्राप्नोति ।
अथ मतम्—सत्सु स्कन्धेषु पुद्गल उपलभ्यते, ततः स्कन्धानुपादा-
यास्य प्रज्ञप्तिरुच्यत इति ? तदेवं रूपस्यापि चक्षुर्मनस्कारालोकेषु सत्सूप-
लम्भात् तान्युपादाय प्रज्ञप्तिर्वक्तव्या । रूपवच्च पुद्गलस्यान्यत्वं स्पष्टम् ।
इदं तावद् वक्तव्यम्—षष्णां विज्ञानानां कतमेन पुद्गलो विज्ञेयः ?
षड्भिरपीत्युच्यते । कथं कृत्वा ? चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्य पुद्गलं
अन्यभूतस्वभावत्वादिति । पृथिवीधात्वादिस्वभावत्वात् । अन्यदपीति ।
न केवलमौष्ण्यमुष्णम्, अन्यदपि तत्प्रदीप्ताग्निसम्बन्धं भूम्यादिकमुष्णं
सिद्ध्यति । अतो यथा तस्यान्यत्वे न दोषः, तथास्यापीति । ततश्चावक्तव्य
इति । तत्पक्षलोपः स्यात् । काष्ठादिकमिति । काष्ठतृणगोमयादिकम् ।
अवक्तव्यमिति । पुद्गलः । अनिर्भिन्नत्वान्नपुंसकलिङ्गता । ‘किं ते
'जातम्' इति यथा । न वक्तव्यं प्राप्नोतीति । पञ्चविधं ज्ञेयमिति । कथं
तर्हि वक्तव्यम् ? इत्याह—नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं
वक्तव्यमिति ।
रूपस्यापीति । विस्तरः । रूपस्यापि प्रज्ञप्तिर्वक्तव्या । चक्षुरादिषु
सत्सु तस्योपलम्भात् तानि चक्षुरादीन्युपादाय रूपं प्रज्ञप्यत इति ।
प्रतिविभावयतीति । उपलक्षयति । तदुपादानत्वात् । न तु वक्तव्यो.

प्रतिविभावयति¹, चक्षुर्विज्ञेयः पुद्गलो वक्तव्यः, नो तु वक्तव्यः—रूपाणि
वा नो वा । एवं यावत्, मनोविज्ञेयान् चेद्धर्मान् प्रतीत्य पुद्गलं प्रतिविभाव-
यति, मनोविज्ञेयः पुद्गलो वक्तव्यः, नो तु वक्तव्यः—धर्मा वा नो वा ।
एवं तर्हि क्षीरादिभिः समानः प्राप्नोति । चक्षुर्विज्ञेयानि चेद्रूपाणि
प्रतीत्य क्षीरं प्रतिविभावयत्युदकं² च³, चक्षुर्विज्ञेयं क्षीरमुदकं चेति वक्तव्यम्,
नो तु वक्तव्यम्—रूपाणि वा नो वा । एवं घ्राणजिह्वाकायविज्ञेयं वक्तव्यम्,
नो तु वक्तव्यम्—स्प्रष्टव्यानि वा नो वा । मा भूत् क्षीरोदकयोश्चतुष्ट्वप्रसङ्ग
इति ?
अतो यथा रूपादीन्येव क्षीरमुदकं वा प्रज्ञप्यते समस्तानि, एवं
स्कन्धाः पुद्गल इति सिद्धम् ।
यच्चोच्यते—चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य पुद्गलं प्रतिविभाव-
यतीति, कोऽस्य वाक्यस्यार्थः ? किं तावद्रूपाणि पुद्गलोपलब्धेः कारणं
भवतीति ? आहोस्विद् रूपाण्युपलभमानः पुद्गलमुपलभत इति ? यदि रूपाणि
रूपाणि वा नो वेति । अतल्लक्षणत्वात्, अवक्तव्यत्वाच्च । एवं यावद्
धर्मो वा नो वेति ।
क्षीरं प्रतिविभावत्युदकं चेति । उदाहरणद्वयम् । तदेवं वक्तव्यम्—
चक्षुर्विज्ञेयानि चेद् रूपाणि प्रतीत्य क्षीरं प्रतिभावयति, चक्षुर्विज्ञेयं क्षीरं
वक्तव्यम् । नो तु वक्तव्यम्—रूपाणि वा नो वेति सर्वम् । तथैतदपि
वक्तव्यम्—चक्षुर्विज्ञेयानि चेद् रूपाणि प्रतीत्योदकं प्रतिविभावयति,
चक्षुर्विज्ञेयमुदकं वक्तव्यम् । नो तु वक्तव्यम्—रूपाणि वा नो वेति सर्वम् ।
मा भूत् क्षीरोदकयोः चतुष्ट्वप्रसङ्ग इति । रूपाणीति यद्युच्येतं, चतुः-
प्रकारं क्षीरम्, उदकं वा प्राप्नोतीत्यर्थः । शब्द आगन्तुकत्वान्नात्राधिकृतः ।
अतो यथा रूपादीन्येव समस्तानि समुदितानि क्षीरमिति उदकमिति वा
प्रज्ञप्यते तथा स्कन्धा एव समस्ताः पुद्गल इति प्रज्ञप्यन्त इति सिद्धम् ।
रूपाणि पुद्गलोपलब्धेः कारणमिति । रूपाण्युपलभमानः पुद्गल-
मुपलभत इति । कोऽनयोः पक्षयोर्विशेषः ? पूर्वस्मिन् पक्षे रूपाणां कारणत्व-
मधिक्रियते; द्वितीये न तु कारणत्वम्, किं तर्हि ? रूपाण्युपादाय पुद्गलो-
पलब्धिरिति । तत्र रूपाणां यदि कारणत्वमिष्यते, स च पुद्गलः तेभ्यो
१. प्रतिभासयति—का० । २. विभावयस्यु०—का० । ३. वा—का० ।