सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1207, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1207

आरूप्यविमोक्षा आरूप्यकृत्स्ने च त्रैधातुकाश्रयाणि । शेषं मनुष्या-
श्रयमेव; उपदेशसामर्थ्येनोत्पादनात् ॥ ३७ ॥
कथं रूपारूप्यधात्वोरारूप्यध्यानविशेषोत्पादनम् ? त्रिभिः कारणैर्ध्या-
नारूप्यसमापत्तीनामुपपत्तिः, हेतुकर्मधर्मताबलेः । तत्र—
हेतुकर्मबलाद्धात्वोरारूप्योत्पादनं द्वयोः ।
द्वयोः रूपारूप्यधात्वोरारूप्यसमापत्त्युत्पादनम् । हेतुबलाच्च,
आसन्नाभीक्ष्णाभ्यासात्१, कर्मबलाच्च ऊर्ध्वभूमिकस्यापरपर्यायवेदनीयस्य
कर्मणः प्रत्युपस्थितविपाकत्वात् । नह्यधस्तादवीतरागेणोर्ध्वं शक्य-
मुपपत्तुमिति२ ।
विमोक्षा अभिभ्वायतनान्यष्टौ । कृत्स्नायतनान्यष्टौ । एतन्मनुष्याश्रयमेव ।
किं कारणम् ? उपदेशसामर्थ्येनोत्पादनात् । अन्यत्र देवादिषूपदेशा-
भावात् ॥ ३७ ॥
कथं रूपारूप्यधात्वोरारूप्यध्यानविशेषोत्पादनमिति । आरूप्यधातौ
रूपधातौ वा यस्यां भूमावुपपन्नः, तदूर्ध्वं यदारूप्यं ध्यानं च, तत् ततो
विशिष्येत इत्यारूप्यध्यानविशेषः । तस्यारूप्यध्यानविशेषस्य कथमुपदेश-
मन्तरेण भवतीति ? यतः शेषं मनुष्याश्रयमेव । उपदेशसामर्थ्येनोत्पादना-
दित्युक्तम्, अतोऽनेन सम्बन्धेन पृष्टम्—कथं रूपारूप्यधात्वोरिति विस्तरः ।
हेतुबलाच्च आसन्नाभीक्ष्णाभ्यासाच्च । आसन्नाभ्यासाद्, अभीक्ष्णाभ्या-
साच्च । कथं कृत्वा ? कश्चिद् आरूप्यसमापत्तिं समापद्य ततश्च परि-
हायनान्तरमेव रूपधातावुपपद्यते । आरूप्यसमापत्तिलक्षणस्य सभाग-
हेतोर्बलीयस्त्वात् तस्य रूपधातौ आरूप्यसमापत्तिरुत्पत्स्यते । अभीक्ष्णा-
भ्यासादपि । यदि कश्चिद् आरूप्यसमापत्तिमभीक्ष्णं समापद्य, ततश्च
परिहाय रूपधातौ उपपद्यते, तस्यारूप्यसमापत्तिलक्षणस्य सभागहेतोर्बली-
यस्त्वाद् रूपधातौ आरूप्यसम्पत्तिरुत्पद्यते । एवं विज्ञानानन्त्यायतनसमा-
पत्तेरपि परिहीणस्याकाशानन्त्यायतनोपपन्नस्य तथैव तत्समापत्तीनामुत्पा-
दनम् । एवं तदूर्ध्वोपपन्नस्य ।
कर्मबलाच्चेति । रूपधातावुपपन्नस्य अपरपर्यायवेदनीयस्य कर्मणः
प्रत्युपस्थितविपाकत्वात् । तद्वैराग्यानुकूला सन्ततिरवतिष्ठते । न ह्यधस्ताद्
अवीतरागेणोर्ध्वमारूप्यधातावशक्यमुपपत्तुमिति । एवमारूप्येषु आकाशा-
१. हेतुबलाद् — का० । २. ०मुत्पत्तु० — का० ।