सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1206, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1206

निर्देशः ] अष्टमं कोशस्थानम् ११८३
वायौ^१ स्प्रष्टव्यायतनमित्येके ।
द्वे शुद्धकारूप्ये,
द्वे पश्चिमे कृत्स्ने शुद्धकारूप्यस्वभावे ।
स्वचतुःस्कन्धगोचरे ॥ ३६ ॥
स्वभूमिकाश्चत्वारः स्कन्धा अनयोरालम्बनम् । विमोक्षप्रावेशि-
कान्यभिभ्वायतनानि, अभिभ्वायतनप्रावेशिकानि कृत्स्नायतनानि; उत्त-
रोत्तरविशिष्टत्वात् । सर्वाणि चैतानि विमोक्षादीनि पृथग्जनार्यसान्तानिकानि,
स्थापयित्वा निरोधविमोक्षम् ॥ ३६ ॥
निरोध उक्तः,
निरोधविमोक्षः पूर्वमेवोक्तः सर्वैः प्रकारैः ।
वैराग्यप्रयोगाप्तं तु शेषितम् ।
निरोधादन्यानि विमोक्षादीनि वैराग्यलाभिकानि प्रायोगिकानि च;
उचितानुचितत्वात् ।
त्रिधात्वाश्रयसारूप्यसंज्ञं शेषं मनुष्यजम् ॥ ३७ ॥

वायौ स्प्रष्टव्यायतनमित्येक इति । ये वायौ रूपायतनं नेच्छन्ति, ते
आहुः—वायौ स्प्रष्टव्यायतनमालम्बनमिति ।
विमोक्षप्रावेशिकानीति । प्रवेशा एव प्रावेशिकानि—इति स्वार्थ-
वृद्धिविधानात् । प्रवेशे भवानि वा । उत्तरोत्तरविशिष्टत्वादिति । यस्माद्
विमोक्षेभ्य उत्तराणि अभिभ्वायतनानि विशिष्टानि, अभिभ्वायतनेभ्य
उत्तराणि कृत्स्नायतनानि विशिष्टानीति, तदुक्तं भवति—विमोक्षान्
उत्पाद्य अभिभ्वायतनानि उत्पादयति । अभिभ्वायतनान्युत्पाद्य कृत्स्नायत-
नान्य्ुत्पादयतीति । स्थापयित्वा निरोधविमोक्षमिति । तस्यैकान्तेनार्य-
सान्तानिकत्वात् ॥ ३६ ॥
उचितानुचितत्वादिति । उचितानि वैराग्यलाभिकानि । अनुचितानि
प्रायोगिकानि । शेषमिति विस्तरः । किं पुनः शेषम् ? प्रथमास्त्रयो
१. वायोः—का० ।