सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1205, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1205

११८४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
यथेष्टमधिमोक्षात्¹, क्लेशानुत्पादाच्च ॥ ३५ ॥
दश कृत्स्नानि,
दश कृत्स्नायतनानि निरन्तरकृत्स्नस्फुरणात् । पृथिव्यप्तेजोवायु-
नीलपीतलोहितावदातकृत्स्नानि । आकाशविज्ञानानन्त्यायतनकृत्स्ने च ।
तेषाम्
अलोभोऽष्टौ²,
प्रथमान्यष्टावलोभस्वभावानि ।
ध्यानेऽन्त्ये,
चतुर्थ एव ध्याने ।
गोचरः पुनः ।
कामाः,
कामावचररूपायतनमेषामालम्बनम् ।
गन्तव्यम् । तैर्विमोक्षमात्रमिति । नालम्बनाभिभवनम् । कथं चाभि-
भ्वायतनैरालम्बनाभिभवायतनमिति ? अत आह—यथेष्टमधिमोक्षादिति ।
यथेष्टं तैर्नीलपीताद्यधिमोक्षात् क्षणेन नीलम्, क्षणेन पीतमित्यादि ।
अमनोज्ञस्य वा विनीलकादेर्मनोज्ञाधिमोक्षात् । क्लेशानुत्पादाच्चेति ।
शुभतोऽपि च सांक्लेशिकं वस्त्वाकारयतः क्लेशानुपत्तेस्तैरभिभ्वायतनैरा-
लम्बनाभिभवनं भवति ॥ ३५ ॥
निरन्तर कृत्स्नस्फुरणादिति । निरन्तरं कृत्स्नानां पृथिव्यादीनां
स्फुरणाद् व्यापनात् । तस्मात् कृत्स्नायतनानीत्युच्यन्ते कामावचरं
रूपायतनमिति ।
“पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया ।
आपस्तेजश्च वायुश्च धातुरेव तथापि च ॥” (अभि० को० १.१३)
इति वचनात् ।
१. यथेच्छ०—का० ।
२. अलोभाष्टौ—का० ।