सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] षष्ठं कोशस्थानम् १०२५
लाभो मार्गाभिसमये बुद्धतत्सङ्घयोरपि ।
दुःखसमुदयनिरोधसत्यान्यभिसमयन् धर्मे चावेत्यप्रसादमार्थकान्तानि च
शीलानि प्रतिलभते ॥ ७३ ॥
मार्गसत्यमभिसमयन् बुद्धे तस्य च श्रावकसङ्घेऽवेत्यप्रसादं प्रतिलभते । यो
हि तयोः प्रसादः सोऽशैक्ष्येषु बुद्धकरकेषु धर्मेषु शैक्षाशैक्ष्येषु च सङ्घकरकेषु
प्रसादः । अपिशब्दाच्छीलधर्मवित्यप्रसादौ च प्रतिलभते ।
कोऽयमिह धर्मोऽभिप्रेतः ?
धर्मः सत्यत्रयं बोधिसत्त्वप्रत्येकबुद्धयोः ॥ ७४ ॥
मार्गश्च,
अतश्चत्वार्यपि सत्यान्यभिसमयतो धर्मेऽवेत्यप्रसादलाभः¹। सैव श्रद्धा
अधिष्ठानभेदान्नामतश्चत्वारोऽवेत्यप्रसादा उच्यन्ते² ॥ ७४ ॥
चत्वारोऽवेत्यप्रसादाः—बुद्धेऽवेत्यप्रसादः, धर्मे, सङ्घे च, आर्यकान्तानि च
शीलानीति । तत्र दुःखसत्यादीनां धर्मत्वाद्, अबुद्धसङ्घस्वभावत्वाच्च । यथाक्रमं
सत्यत्रयमभिसमयन् पश्यन् धर्मे चावेत्यप्रसादमार्थकान्तानि च शीलानि
अनास्रवाणि प्रतिलभते । न बुद्धे न सङ्घे वा अवेत्यप्रसादम् ॥ ७३ ॥
मार्गसत्यमभिसमयतो बुद्धे तस्य च श्रावकसङ्घेऽवेत्यप्रसादं प्रतिलभते ।
मार्गसत्यस्य बुद्धसङ्घस्वभावत्वात् ।
कोऽयमिह धर्मोऽभिप्रेत इति । बहवो धर्माः कुशला धर्मा इत्येवमादयः,
तत् कोऽयमिह धर्मोऽभिप्रेतः, यदुक्तं धर्मे चावेत्यप्रसादं प्रतिलभत इति अथ
वा बुद्धरत्नं, सङ्घरत्नं चेत्युच्यते, - तस्मादिदमपि धर्मरत्नमिहाभिप्रेतं भवेत्,
रत्नत्रयस्य ह्ययं स्वभाव उक्तः—
'बुद्धसङ्घकरान् धर्मानशैक्षानुभयाँश्च सः
निर्वाणं चेति शरणं यो याति शरणत्रयम् ॥' (अभि०को० ४.३२)
इति । तत्र किमय निर्वाणधर्मोऽभिप्रेतः? पृच्छति—कोऽयमिह धर्मोऽभिप्रेत
इति ।
"धर्मः सत्यत्रयम्" । इति विस्तरः। दुःखसमुदयनिरोधसत्यानि । बोधि-
सत्त्वस्य च शैक्षावस्थायामनास्रवो मार्गः । प्रत्येकबुद्धस्य च शैक्षाशैक्षलक्षणो

१०२६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
द्रव्यतस्तु द्वे श्रद्धा शीलं च,
बुद्धधर्मसङ्घावेत्यप्रसादाः श्रद्धास्वभावाः, आर्यक्रान्तानि च शीलानि शीलमिति
द्वे द्रव्ये भवतः ।
किं पुनरेते सास्रवानास्रवा एकान्तेनावैत्यप्रसादाः ?
निर्मलाः ।
अवैत्यप्रसादा इति कोऽर्थः ? यथाभूतसत्यान्यवबुध्य सम्प्रत्ययोऽवेत्य-
प्रसादः । यथा तु¹ व्युत्थितः सम्मुखीकरोति तथैषामानुपूर्व्यम्² ।
कथं व्युत्थितः सम्मुखीकरोति ? सम्यक्सम्बुद्धो बत भगवान् , स्वाख्यातोऽस्य
धर्मविनयः, सुप्रतिपन्नोऽस्य श्रावक सङ्घ इति; वैद्यभैषज्योपस्थायकभूतत्वात् ।
चित्तप्रसादकृतः³ शीलप्रसाद इत्युच्यते चतुर्थ उक्तः । एवं प्रसन्नस्यैषा प्रतिपत्ति-
रिति; आरोग्यभूतत्वाद्वा, दैशिकमार्गसार्थिकयानवद्वा⁴ ।
मार्गो धर्म इहाभिप्रेत इति । अतश्चत्वार्यपीति विस्तरः । मार्गसत्यमप्यभि-
समयन् धर्ममपि बोधिसत्त्वप्रत्येकबुद्धमार्गलक्षणमभिसमयति । तस्माच्चत्वार्यपि
सत्यान्यभिसमयतो धर्मेऽवैत्यप्रसादलाभ इत्युक्तमिति । बुद्धसङ्घयोर्मार्गो धर्म
इति नोच्यते । यस्मात् तदभिसमयतो बुद्धे सङ्घे चावेत्यप्रसादलाभ इति ।
कथं पुनर्मार्गसत्याभिसमयतः श्रद्धालक्षणानां त्रयाणां बुद्ध-धर्म-सङ्घावेत्य-
प्रसादानां युगपत् सम्मुखीभावः ? सैव श्रद्धा अधिष्ठानभेदापेक्षया नामत्रयं लभत
इत्यदोषः । अथ वा धर्मेऽवैत्यप्रसादो वर्तमानः । अनागतास्तु त्रयो भाव्यन्ते ।
तेनोच्यते—
“लाभो मार्गाभिसमये बुद्धतत्सङ्घयोरपि” इति (अभि० को० ६.७४) ॥७४॥
यद्यधिष्ठानापेक्षयावेत्यप्रसादव्यवस्थानम्, धर्मावेत्यप्रसादः पूर्वं पठितव्यः
स्यादित्यत आह—यथा तु व्युत्थितः सम्मुखीकरोति । तथैषामानुपूर्व्यमिति ।
वैद्यभैषज्योपस्थायकभूतत्वादिति । वैद्यभूतो भगवाननुत्तरो भिषक्⁵ शल्यहर्तेति
सूत्रात् । धर्मभैषज्यदैशिकत्वाच्च । भैषज्यभूतो धर्मः क्लेशव्याधिभैषज्यत्वात्
निर्वाणारोग्यसम्प्रापकत्वाच्च । उपस्थायकभूतः सङ्घो निर्वाणारोग्यप्राप्तये
परस्परोपस्थानात् । चित्तप्रसादकृतः शीलप्रसाद इति । त्रिविधश्चित्तप्रसादः—
१. च—का० । २. ०मानुपूर्वीम्—का० । ३. ०कृतश्च—का० ।
४. देशिक०—का० । ५. विषक्—जा० ।

क्तिः सम्यग्ज्ञानं च नोक्तम् ?
Wait, "कस्माच्छैक्षस्य" - कस्मात् + शैक्षस्य = कस्माच्छैक्षस्य. Yes, chha (च्छ).
"सम्यग्विमुक्तिः सम्यग्ज्ञानं च नोक्तम् ?" - correct.

:
नोक्ता विमुक्तिः शेक्षाङ्गं बद्धत्वात्,
Wait, earlier I checked whether it's "शेक्षाङ्गं" or "शैक्षाङ्गं".
Look at the top of श in :
There is definitely one mātrā stroke clearly visible. Let's look at whether there is a second one.
Wait, look at "नोक्ता" (one stroke), "विमुक्तिः", "शेक्षाङ्गं" (one stroke).
Wait, look at "शैक्षः" in : TWO clear strokes above 'श'.
Look at "शैक्षा" in : TWO clear strokes above 'श'.
Look at "अशैक्ष्या" in : TWO clear strokes above 'श'.
In , "शेक्षाङ्गं" only has ONE stroke! So the typesetter placed an 'e' mātrā instead of 'ai', resulting in "शेक्षाङ्गं".

:
बद्धो हि शैक्षः क्लेशबन्धनैरद्यापीति ।
Everything is clear and correct.

:
कथं बद्ध

तत्र—
असंस्कृता क्लेशहानमधिमुक्तिस्तु संस्कृता ।
क्लेशप्रहाणमसंस्कृता विमुक्तिः । अधिमोक्षः¹ संस्कृता विमुक्तिः ।
साङ्गः,
सैवासंस्कृता विमुक्तिरशैक्षाङ्गयुक्ता; अङ्गानां संस्कृतत्वात् ।
सैव विमुक्ती द्वे,
सैव संस्कृता विमुक्तिर्द्वे विमुक्ती सूत्र उक्ते—चेतोविमुक्तिः, प्रज्ञाविमु-
क्तिश्च । विमुक्तिस्कन्धोऽपि स एव द्रष्टव्यः ।
यत्तर्हि सूत्र उक्तम्—"कतमच्च व्याघ्रबोध्यायना विमुक्तिपरिशुद्धिप्रधानम् ?
इह भिक्षवो रागाच्चित्तं विरक्तं भवति विमुक्तम्, द्वेषात्, मोहाच्चित्तं विरक्तं भवति
प्रकर्षित इत्यर्थः । तस्यैवाशैक्ष्यस्य तद्वचनं विमुक्तिवचनं विमुक्तिज्ञानवचनं च ।
न्याय्यम् । न शैक्षस्येति ॥ ७५ ॥
अधिमोक्षः संस्कृता विमुक्तिरिति । धात्वर्थैकत्वात् ।
अङ्गानां संस्कृतत्वादिति । यथा सम्यग्दृष्ट्यादीनि संस्कृतानि, तथा
विमुक्तिरपि संस्कृतैव गृह्यते, नासंस्कृता; विसभागत्वाद्विसदृशत्वात् ।
द्वे विमुक्ती सूत्र उक्ते इति । रागविरागाच्चेतोविमुक्तिः, अविद्याविरागात्
प्रज्ञाविमुक्तिरिति । चेतोविमुक्तिः, प्रज्ञाविमुक्तिश्चेत्यर्थः । विमुक्तिस्कन्धोऽपि स
एवेति । शीलस्कन्धः, समाधिस्कन्धः, प्रज्ञास्कन्धः, विमुक्तिस्कन्धः । विमुक्तिज्ञान-
दर्शनश्चेत्यत्र द्रष्टव्यः ।
यत्तर्हि सूत्र उक्तमिति । "चत्वारीमानि व्याघ्रबोध्यायना परिशुद्धिप्रधानानि ।
कतमानि चत्वारि ? शीलपरिशुद्धिप्रधानम्, समाधिपरिशुद्धिप्रधानम्, दृष्टि-
परिशुद्धिप्रधानम्, विमुक्तिपरिशुद्धिप्रधानं च” ( ) इति विस्तरेणोक्त्वाह—
कतमच्च व्याघ्रबोध्यायना विमुक्तिपरिशुद्धिप्रधानम् । यावद् यश्छन्दो वीर्यमिति
विस्तरः । व्याघ्रबोध्यायना इति बहुवचनम्; तेषां बहुत्वात् । विमुक्तिपरिशुद्धि-
प्रधानमिति । विमुक्तेः परिशुद्धिः विमुक्तिपरिशुद्धिः, तस्यै प्रधानं विमुक्ति-
परिशुद्धिप्रधानम् । तदेवमत्र विमुक्तिपरिशुद्धिप्रधान इति प्रश्नत्रयम् । तत्र


१. अशैक्षाधिमोक्षः—का० ।

विमुक्तमित्यपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये परिपूर्णस्य वानुग्रहाय¹
यश्छन्दो² वीर्यम्" इति विस्तरः । तस्मान्नाधिमोक्ष एव विमुक्तिः । किं तर्हि ?
तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यं विमुक्तिरित्यपरे ।
उक्ता विमुक्तिः ॥
सम्यग्ज्ञानं तु सम्यग्दृष्टिः । व्यतिरिक्तं कतमत् ?
ज्ञान बोधिर्यथोदिता ॥ ७६ ॥
यैव हि पूर्वं बोधिरुक्ता सैवेह सम्यग्ज्ञानं वेदितव्यम् । यदुत क्षयज्ञानम्,
अनुत्पादज्ञानं च ॥ ७६ ॥
कतमत् पुनश्चित्तं विमुच्यते—किमतीतम्, अनागतम्, प्रत्युत्पन्नम् ?
विमुच्यते जायमानमशैक्षं³ चित्तमावृतेः ।
“अनागतं चित्तमुत्पद्यमानं विमुच्यते अशैक्षमावरणेभ्यः” इति शास्त्रपाठः ।
किं पुनस्तस्यावरणम् ? क्लेशप्राप्तिः, तदुत्पत्तिनिबन्धत्वात् । वज्रोपमे हि समाधौ
सा च प्रहीयते । तच्चोत्पद्यमानमशैक्षं चित्तं विमुच्यते । सा च प्रहीणा भवति ।
तच्चाशैक्षं चित्तमुत्पन्नं विमुक्तं च । यत्तर्हि नोत्पद्यमानं लौकिकं वा⁴, तदपि
विमुच्यते । यत्तु नियतमुत्पत्तौ तदेवोक्तम् ।


इह भिक्षो रागञ्चित्तं विरक्तं भवति विमुक्तम् । द्वेषात् मोहाद्विरक्तं भवति
विमुक्तम् । विमुक्तिरुक्ता । इत्यपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये । परि-
पूर्णस्य वानुग्रहायेति⁵ । विमुक्तिपरिशुद्धिः परिपूर्यनुग्रहलक्षणोक्ता । यश्छन्दो
वीर्यमिति विस्तरेण प्रधानमुक्तम् । यत एवं रागादिभ्यो विमुक्तिः प्रहाणमित्येवं-
लक्षणा विमुक्तिरुक्ता । सूत्रे नाधिमुक्तिः; तस्मान्नाधिमोक्ष एव विमुक्तिः ।
किं तर्हि ? तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यमनास्त्रवत्वमनर्थान्तरभूतं
घृतमण्डस्वच्छतावदिति । अपरे इति । आचार्यः ॥ ७६ ॥
तदुत्पत्तिनिबन्धत्वादिति । तस्याशैक्षस्य चित्तस्योत्पत्तौ विबन्धत्वात् ।
क्लेशप्राप्तिर्हि विबन्धः । यत्तर्हि नोत्पद्यमानमिति । यदनागतं वज्रोपमात्
समाधेरनन्तरं भवत्यशैक्षमेव । लौकिकं वेत्यशैक्षसन्तान एव यल्लौकिकम् ।


१. चानु०—फा० । २. च्छन्दो—का० । ३. ॰मानसशैक्षं—का० ।
४. व—का० । ५. ॰नुग्रहायायेति—जा० ।
अभि० को० ३ : १८

१०३० भाष्यस्फुटार्थामहितेऽभिधर्मकोशे [मार्गपुद्गल-
लौकिकं कुतो विमुच्यते ? तत एवोत्पत्त्यावरणात् ।
ननु चामुक्तस्यापि शैक्षस्य लौकिकमुत्पद्यते ? न तत्तादृशम् । कीदृशं
तत् ? क्लेशप्राप्तिसहितम् ।
किमवस्थो मार्गस्तदुत्पत्त्यावरणं प्रजहाति ?
निरुध्यमानो मार्गस्तु प्रजहाति¹ तदावृतिम् ॥ ७७ ॥
वर्तमान इत्यर्थः ॥ ७७ ॥
या चासंस्कृता विमुक्तिरुक्ता, ये च त्रयो धातव उच्यन्ते—प्रहाणधातुः,
विरागधातुः, निरोधधातुरिति, क एषां विशेषः ?
असंस्कृतेव धात्वाख्या,
सैवासंस्कृता विमुक्तिस्त्रयो धातवः । तत्र पुनः—
विरागो रागसंक्षयः ।
रागस्य प्रहाणं विरागधातुः ।
यत्तु नियतमुत्पत्तौ तदेवोक्तमिति । यदुत्पादाभिमुक्तमनागतम् तदेवोक्तं शास्त्रे
विमुच्यत इति । तद्विमुच्यमानतया सूपलक्ष्यत्वादित्यभिप्रायः ।
तत एवोत्पत्त्यावरणादिति । तत एव क्लेशप्राप्तिः । तदुत्पत्तिविबन्धादिति
तदेवात्र कारणं वक्तव्यम् । यद्यशैक्षसन्तानलौकिकमपि विमुच्यत इत्यभ्युपग-
म्यते, शैक्षस्यापि लौकिकमुत्पद्यते । कस्मान्न विमुच्यत इत्यभ्युपगम्यते ? अत
आह—न तत्तादृशमित्यादि । क्लेशप्राप्तिसहितं तच्छैक्षस्य लौकिकम्, न
त्वशैक्षस्य लौकिकमेवं भवतीत्यसाम्यम् ।
“निरुध्यमानः” इति । निरोधाभिमुखः ।
“तदावृतिम्” इति । अशैक्षचित्तावरणम् ॥ ७७ ॥
या चासंस्कृता विमुक्तिरुक्ता शास्त्रे, इहैव वा “असंस्कृता क्लेशहानम्”
(अभि० को० ६.७६) इति । ये च त्रयो धातव उच्यन्ते । क्वोच्यन्ते ? सूत्रे,
शास्त्रेऽपि वा ।
“विरागो रागसंक्षयः” इति । भेदविवक्षायामेवमुच्यते । अभेदविवक्षायां
तु यो विरागः तत्प्रहाणमप्युच्यते, निरोधोऽपीत्यादि ।
१. प्रहजहाति—का० ।

Here is the line-by-line transcription of the Sanskrit text from the image:

निर्देशः] षष्ठ कोशस्थानम् १०३१
प्रहाणधातुरन्येषां,
'संक्षयः' इति वर्तते । रागादन्येषां क्लेशानां प्रहाणं प्रहाणधातुः ।
निरोधाख्यस्तु वस्तुनः ॥ ७८ ॥
'संक्षयः' इत्येवानुवर्तते । क्लेशविर्मुक्तस्य वस्तुनः प्रहाणं निरोधधातुः ।
येन वस्तु निर्विद्यते, विरज्यते ऽपि तेन वस्तुना। चतुष्कोटिकः२ ॥ ७८ ॥
कथं कृत्वा ?
निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः,
दुःखे समुदयक्षान्तिज्ञानैरेव निर्विद्यते, नान्यैः ।
विरज्यते ।
सर्वैर्जहाति यैः,
सर्वैरपि दुःखसमुदयनिरोधमार्गक्षान्तिज्ञानैर्विंरज्यते, यैः क्लेशान् प्रजहाति ।
एवं चतुष्कोटिकसम्भवः ॥ ७९ ॥
एवं चतुष्कोटिकं सिध्यति—१. निर्विद्यत एव, दुःखसमुदयक्षान्तिज्ञानैः
क्लेशान् प्रजहत्; निर्वेदवस्त्वालम्बनत्वात् । २. विरज्यत एव, निरोधमार्गक्षान्ति-
"वस्तुनः" इति । सास्स्रवस्य रूपादेः । चतुष्कोटिक इति । स्या-
न्निर्विद्यते न वज्र्यते, स्याद्विरज्यते न निर्विद्यते, स्यादुभयम्, स्यान्नो-
भयमिति ॥ ७८ ॥
“निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः” इति । अनेन वस्तुहेतुकं निर्वेदं
दर्शयति ।
“विरज्यते, सर्वैर्जहाति यैः” इति । प्रहाणक्रियाहेतुकं विरागं दर्शयति ।
एवं चतुष्कोटिकं सिध्यतीति । एवं निर्वेदविरागकारणं परिच्छिद्य योज्यम् ।
तेन चतुष्कोटिकं सिध्यतीत्याभिप्रायः । कथम् ? इत्याह- निर्विद्यत एवेति
विस्तरः । निर्विद्यत एव, दुःखसमुदयक्षान्तिभिर्दुःखसमुदयज्ञानैश्च निर्वेदवस्त्वा-
लम्बनत्वात् । दुःखसमुदयौ हि निर्वेदस्य वस्तुनी आलम्बनमिति । न विरज्यते;
क्लेशान्प्रजहदिति वचनेन प्रहाणांक्रयाया असम्भवात् । विरज्यत एव
निरोधमार्गक्षान्तिभिर्दर्शनमार्गे । निरोधमार्गज्ञानैर्भावनामार्गे । क्लेशान्प्रजहदिति ।
२. चतुष्कोटिकम्—का० ।

१०३२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [मार्गपुद्गलनिर्देशः]
ज्ञानैः क्लेशान् प्रजहत्; प्रामोद्यवस्त्वालम्बनत्वात् । ३. उभयम्, पूर्वैः क्लेशान्
प्रजहत् । ४. नोभयम्, उत्तरैः क्लेशानप्रजहदिति ।
तत्र वीतरागः सत्यानि पश्यन् धर्मज्ञानक्षान्तिभिः क्लेशान्न प्रजहाति ।
ज्ञानैस्तु प्रयोगविमुक्तिविशेषमार्गैर्न^१ प्रजहातीति ॥ ७९ ॥
अभिधर्मकोशभाष्ये मार्गपुद्गलनिर्देशो नाम
षष्ठं कोशस्थानं समाप्तमिति^२

प्रहाणक्रियासम्भवात् । न निर्विद्यते; प्रामोद्यवस्त्वालम्बनत्वात् । निर्वाणमार्गो
हि प्रामोद्यवस्तूनी आलम्बनमिति । उभयम्पूर्वैः क्लेशान्प्रजहदिति निर्विद्यते
च विरज्यते च पूर्वैर्दुःखसमुदयक्षान्तिज्ञानैः । कथम् ? निर्विद्यते, निर्वेदवस्त्वा-
लम्बनत्वात् । विरज्यते, क्लेशान्प्रजहदिति वचनेन प्रहाणक्रियासम्भवात् ।
नोभयमुत्तरैः क्लेशानप्रजहदिति । न च निर्विद्यते । उत्तरैर्निरोधमार्गक्षान्ति-
ज्ञानैः प्रामोद्यवस्त्वालम्बनत्वात् न निर्विद्यते । क्लेशानप्रजहदिति वचनेन
प्रहाणक्रियाया अभावात् न विरज्यते ।
आह—अपदिष्टं प्रथमायां कोट्यां चतुर्थ्यां च क्लेशान्प्रजहदिति । कः
कान् क्लेशान् प्रजहाति ? तत्र वीतराग इति विस्तरः । तत्रार्थोपक्षेपार्थम् ।
वीतरागः कामधातोर्यावदाकिञ्चन्यायतनादपि । सत्यानि पश्यन्नभिसमयन् ।
धर्मज्ञानक्षान्तिभिर्धर्मज्ञानैर्धर्मज्ञानक्षान्तिभिश्च क्लेशान्न प्रजहाति । लौकिकेन
भावनामार्गेण पूर्वं प्रहीणत्वात् । अनास्रवा तु केवलं विसंयोगप्राप्तिरुत्पद्यते ।
अन्वयज्ञानक्षान्तिभिस्त्ववश्यं क्लेशान्प्रजहाति । न हि लौकिकेन मार्गेण
भवाग्रवैराग्यमस्ति । ज्ञानैस्तु भावनामार्गे । प्रयोगविमुक्तिविशेषमार्गैरानन्तर्य-
मार्गैरपि च कैश्चिदिन्द्रियसञ्चाराद्यवस्थासु न क्लेशान् प्रजहाति ।
केऽवशिष्यन्ते ? तदन्ये आनन्तर्यमार्गास्तैः क्लेशान् प्रजहातीति सिद्धम् ॥७९॥
आचार्ययशोमित्रकृतायां स्फुटार्थायाम्
अभिधर्मकोशव्याख्यायां षष्ठं
कोशस्थानं समाप्तम्

१. ॰मार्गसंगृहीतैः—का० । २. ॰श्रीलामावाक्यस्य यदत्र पुण्यम्—का० ।

ॐ नमो बुद्धाय ॐ
सप्तमं कोशस्थानम्
( ज्ञाननिर्देशः )
क्षान्तयश्चोच्यन्ते,१ ज्ञानानि च, सम्यग्दृष्टिः, सम्यग्ज्ञानं च ।
किं पुनः क्षान्तयो न ज्ञानम्, सम्यग्ज्ञानं च न दृष्टिः ?
नामला क्षान्तयो ज्ञानम्,
तत्प्रहेयस्य विचिकित्सानुशयस्याप्रहीणत्वात् । दृष्टयस्तु ताः;
सन्तीरणात्मकत्वात् ।
स्फुटार्थाव्याख्यायां
सप्तमं कोशस्थानम्
षष्ठात् कोशस्थानादनन्तरं सप्तमस्योपन्यासे सम्बन्धं दर्शय-
न्नाह—क्षान्तयश्चोच्यन्ते, ज्ञानानि चेति विस्तरः ।
“लौकिकेभ्योऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवा” (अभि० को० ६.२५)
इत्यत्राष्टौ क्षान्तय उक्ताः, “कामदुःखे ततोऽत्रैव धर्मज्ञानं तथा पुनः”
(अभि० को० ६.२६) इत्यत्र ज्ञानानि, “न२ चेत् क्षयज्ञानमशैक्षी वा दृष्टिः”
(अभि० को० ६.५०) इत्यत्र सम्यग्दृष्टिः, “सैव विमुक्ती द्वे ज्ञानं वोधिर्य-
थोदिता” (अभि० को० ६-७६) इत्यत्र सम्यग्ज्ञानम्, इहैव वा षष्ठकोश-
स्थानावसाने एतत् सर्वमुक्तम् ।
“निर्विद्यते दुःखेहेतुक्षान्तिज्ञानैर्विरज्यते । सर्वैर्जहाति यैः” (अभि०
को० ६.७६) इति शास्त्रसम्बन्धेन वायमुपन्यस्यते । शास्त्रे हि क्षान्तय-
श्चोच्यन्ते ज्ञानानि च, सम्यग्दृष्टिः सम्यग्ज्ञानं च । तत्प्रत्यायनाथ चाय-
मारभ्यते इत्यतः पृच्छति—किं पुनः क्षान्तयो न ज्ञानमिति विस्तरः ।
नामला क्षान्तयो ज्ञानमिति । ‘अमला एव क्षान्तयो न ज्ञानम्’ इत्यवधा-
रणात् ‘सास्रवाः क्षान्तयो ज्ञानम्’ इत्युक्तं भवति । संवृतिज्ञानं हि तदिष्यते ।
तत्प्रहेयस्येति । क्षान्तिप्रहेयस्य । विचिकित्सानुशयस्याप्रहीणत्वात् । प्रहीयते
१. श्रीक्षान्तय०--का० । २. ज० पुस्तके नास्ति ।

१०३४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
यथा च क्षान्तयो दृष्टिर्न ज्ञानम्, एवं पुनः
क्षयानुत्पादधीर्न दृक् ।
क्षयज्ञानमनुत्पादज्ञानं च न दृष्टिः; असन्तीरणापरिमार्गणाशयत्वात् ।
तदन्योभयथार्या धीः,
क्षान्तिक्षयानुत्पादज्ञानेभ्योऽन्यानास्रवा प्रज्ञा, दृष्टिः ज्ञानं च ।
अन्या ज्ञानम्,
लौकिकी प्रज्ञा सर्वैव ज्ञानम् ।
हि तास्ववस्थास्वनुशयः, न प्रहीणः; विप्रकृतावस्थत्वात् । निश्चितं च
ज्ञानमिष्यते नानिश्चितम्, इति न क्षान्तयो ज्ञानम् । क्षमारूपेण च क्षान्तय
उत्पद्यन्ते, न निश्चयरूपेणेति न ज्ञानमिति वर्णयन्ति ।
'विचिकित्सानुशयस्याप्रहीणत्वात्' इत्येतावति वक्तव्ये 'तत्प्रहेयस्य'
इति विशेषणं किमर्थम् ? द्वितीये हि क्षणे प्रथमक्षान्तिप्रहेयो विचिकित्सानु-
शयो प्रहीणो भवतीति प्रथमैव क्षान्तिर्न ज्ञानमिति गम्यते, न त्वन्याः
क्षान्तय इत्यतः 'तत्प्रहेयस्य' इति विशेषणम् । यद्वा—दुःख-धर्म-ज्ञानादीनां
ज्ञानत्वप्रतिपादनार्थम् । यदि विचिकित्सानुशयाप्रहीणत्वादित्येतावदुच्यते ।
एवम् सन्तीरणात्मकत्वादिति । उपनिध्यानस्वभावत्वादित्यर्थः । असन्ती-
रणापरिमार्गणाशयत्वादिति । नास्ति सन्तीरणमस्येति असन्तीरणम् । परि-
मार्गणे आशयः=अभिप्रायः परिमार्गणाशयः, नास्य परिमार्गणाशय इत्य-
परिमार्गणाशयम्; असन्तीरणं च तदपरिमार्गणाशयं च असन्तीरणापरि-
मार्गणाशयम्, तद्भावस्तस्मात् । क्षयज्ञानमनुत्पादज्ञानं च न दृष्टिः इत्यर्थः ।
यावदयमकृतकृत्यः, तावद् दुःखादीनि सत्यान्युपनिध्यायति, परिमार्गयति
चाशयतो यथोक्तैरनित्यादिभिराकारैः । कृतकृत्यस्य पुनर्यथा दृष्टिश्चेव
दुःखादिष्वार्यसत्येषु प्रत्यवेक्षणमात्रं ताभ्यां भवतीति 'दुःखं मया परिज्ञातं न
पुनः परिज्ञेयम्' इत्यादि । तस्मान्न ते दृष्टिस्वभावे ।
“तदन्योभयथार्या धीः” इति । दुःखे धर्मज्ञानं यावन्मार्गेऽन्वयज्ञानम् ।
सा प्रज्ञोपनिध्यानप्रवृत्ता तद्विषयविचिकित्सा च । अन्येति । लौकिकी ।
सा सर्वैव ज्ञानमित्यवधारणम् । न सा प्रज्ञास्ति । यन्न ज्ञानमित्यर्थः । का
पुनरसौ प्रज्ञा ? पञ्चविज्ञानकायिका कुशलाकुशलाव्याकृता मानसी या
दृष्टिस्वभावक्लेशसम्प्रयुक्ता, अनिवृताव्याकृता च ।

निर्देशः ] सप्तमं कोशस्थानम् १०३५
दृशश्च षट् ॥ १ ॥
पञ्च दृष्टयः, लौकिकी च सम्यग्दृष्टिः। एषा षड्विधा लौकिकी
प्रज्ञादृष्टिः, अन्या न दृष्टिः। ज्ञानं त्वेषा चान्या च ॥ १ ॥
कियता सर्वज्ञानसंग्रहः ? दशभिर्ज्ञानैः । समासेन तु
सास्रवानास्रवं ज्ञानम्,
तयोः पुनः
आद्यं संवृतिसंज्ञकम् ।
यत् सास्रवं तत् संवृतिज्ञानम्, प्रायेण घटपटस्त्रीपुरुषादिसंवृतिग्रहात् ।
अज्ञानसंवृतत्वात् इत्यपरे ।
अनास्रवं द्विधा धर्मज्ञानमन्वयमेव च ॥ २ ॥
अनास्रवं ज्ञानं द्विधा भिद्यते—धर्मज्ञानम्, अन्वयज्ञानं च ॥ २ ॥
या पुनर्द्दृष्टिस्वभावा या च मानसी कुशला, सा किं भवति ?
इत्याह—"दृशश्च षट्" इति ।
एषा षड्विधा लौकिकी प्रज्ञा दृष्टिः, अन्या

१०३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
एवमते द्वे ज्ञाने त्रीणि भवन्ति—संवृतिज्ञानम्, धर्मज्ञानम्, अन्वयज्ञानं
च। तत्र
सांवृतं सर्वविषयम्,
संवृतिज्ञानस्य सर्वधर्माः संस्कृतासंस्कृता आलम्बनम्, सम्भवतः।
कामदुःखादिगोचरम्।
धर्माख्यम्,
धर्मज्ञानस्य कामावचरं दुःखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम्।
अन्वयज्ञानं तूर्ध्वदुःखादिगोचरम् ॥ ३ ॥
अन्वयज्ञानस्य रूपारूप्यावचरं दुःखं तत्समुदयनिरोधप्रतिपक्षाश्चा-
लम्बनम्।
ते एव सत्यभेदेन चत्वारि,
ते एव धर्मज्ञानान्वयज्ञाने सत्यभेदेन पुनश्चत्वारि ज्ञानानि भवन्ति—
दुःख-समुदय-निरोध-मार्गज्ञानानि; तदालम्बनत्वात्।
एते चतुर्विधे।
अनुत्पादक्षयज्ञाने,
एते एव धर्मान्वयज्ञाने१ चतुर्विधे अदृष्टिस्वभावे क्षयज्ञानमनुत्पादज्ञानं
चोच्येते२।
ते पुनः प्रथमोदिते ॥ ४ ॥
दुःखहेत्वन्वयज्ञाने,
आलम्बनं सम्भवत इति। यस्य यदालम्बनं तस्य तद् भवति। न हि
चक्षुर्विज्ञानस्य षडालम्बनम् ।। ३ ।।
तदालम्बनत्वादिति। दुःखाद्यालम्बनत्वादित्यर्थः।
“एते चतुर्विधे” इति। एते एव धर्मान्वयज्ञाने द्वे दुःखाद्यालम्बनभेदा-
च्चतुर्विधे अदृष्टिस्वभावे सती क्षयज्ञानम्, अनुत्पादज्ञानं चोच्येते।
“ते पुनः प्रथमोदिते”। ते पुनः क्षयानुत्पादज्ञाने प्रथमोत्पन्ने सती
दुःखहेत्वन्वयज्ञाने भवतः। दुःखसमुदयालम्बने अवश्यं भवत इत्यर्थः।
१. धर्मज्ञानान्वयज्ञाने—का०। २. चोच्यते—का०।

निर्देशः ] सप्तमं कोशस्थानम् १०३७
प्रथमोत्पन्ने तु क्षयज्ञानानुत्पादज्ञाने दुःखसमुदयान्वयज्ञाने; दुःखसमु-
दयाकारैर्भावाग्रिकस्कन्धालम्बनत्वात् ॥ ४ ॥
किं१. वज्रोपमोऽपि ताभ्यामेकालम्बनो भवति२ ? यदि दुःखसमुदया-
लम्बनो भवति । अथ निरोधमार्गालम्बनः, नैकालम्बनः ।
चतुर्भ्यः परचित्तवित् ।
वेत्तीति वित् = ज्ञानम् । परचित्तज्ञानं चतुर्भ्यो ज्ञानेभ्यो द्रष्टव्यम् ।
धर्मान्वयज्ञानमार्गः संवृतिज्ञानेभ्यः ।
कस्माद् ? इत्याह — दुःखसमुदयाकारैः भावाग्रिकस्कन्धालम्बनत्वा-
दिति । तस्य हि सर्वपश्चात् भवाग्रमेव प्रहीयते, तस्माद् येन च पीड्यते येन
च बद्धम्, तत एव मोक्षं बहु मन्यमानोऽनन्तरं क्षीणं भवाग्रमालम्बते । तच्च
दुःखसमुदयाकारैर्भावाग्रमालम्बते । यस्माद् अवश्यं ते प्रथमोत्पन्नक्षयानुत्पाद-
ज्ञाने दुःखाकारैरनित्यादिभिः समुदयाकारैर्वा हेत्वादिभिर्भावाग्रिकान्
स्कन्धानालम्बते । अप्रथमोत्पन्ने त्वन्यसत्यालम्बने अपि ते भवत इत्यर्थादुक्तं
भवति ॥ ४ ॥
वज्रोपमानन्तरं क्षयज्ञानं भवति, तदनन्तरं चानुत्पादज्ञानमित्यतः
पृच्छति—किं वज्रोपमोऽपि ताभ्यामेकालम्बनो भवतीति । ताभ्यामिति
प्रथमोत्पन्नाभ्या मित्यर्थः । 'यथा क्षयानुत्पादज्ञाने एकालम्बने, किं वज्रोप-
मोऽपि ताभ्यामेकालम्बनः' इति अपि-शब्दस्यार्थः । यदि दुःखसमुदयालम्बनो
भवतीति । किम् ? ताभ्यामेकालम्बनो भवतीति सम्भवः । अथ निरोध-
मार्गालम्बनो भवति नैकालम्बनः; तयोर्नियमेन भावाग्रिकस्कन्धालम्बनत्वात् ।
यथा हि विषकाण्डविद्धस्य मृतस्य विषं सर्वमङ्गमभिव्याप्य व्रणदेश एव
मरणकालेऽवतिष्ठते, नान्यत्र; तद्वदस्य योगिनः प्रहेय एव भावाग्रिकस्कन्ध-
लक्षणे ज्ञानमवतिष्ठते ।
"चतुर्भ्यः परचित्तविद्" इति । चतुर्भ्य एव धर्मज्ञानादिभ्यः;
तत्संगृहीतत्वात् । न दुःखज्ञानादिभ्यः; अन्याकारत्वात् । अनास्रवं हि पर-
चित्तज्ञानं मार्गाकारमेव; मार्गज्ञानत्वात् । यत्तु सास्रवम्, तल्लौकिकाकारं
सरागं विगतरागमित्यादि ।
१. किं खलु—का० ।
२. अस्ति—का० ।

१०३८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
तस्य पुनरयं नियमः—
भूम्यक्षपुद्गलोत्क्रान्तं नष्टाजातं न वेत्ति तत् ॥ ५ ॥
भूम्यतिक्रान्तं न जानातीति। अधरध्यानभूमिकेनोत्तरध्यानभूमिक-
मिन्द्रियातिक्रान्तं न जानाति। श्रद्धाधिमुक्तसमयविमुक्तमार्गेण दृष्टिप्राप्ता-
समयविमुक्तमार्गं पुद्गलोत्क्रान्तं न जानाति। अनागाम्यर्हत्-प्रत्येकबुद्ध-
बुद्धमार्गाणामधरेणोत्तरं¹ नष्टाजातं न जानाति। अतीतानागतं
वर्तमानपरचित्तचैत्तविषयत्वात् ॥ ५ ॥
किं च भूयः—
न धर्मान्वयधीपक्षमन्योऽन्यम्,
धर्मज्ञानपक्ष्यं परचित्तज्ञानमन्वयज्ञानपक्ष्यं चित्तं न जानाति, अन्वय-
ज्ञानपक्ष्यं च धर्मज्ञानपक्ष्यं न जानाति; कामधातुर्ध्वधातुप्रतिपक्षालम्बनत्वात्
तयोः। दर्शनमार्गे परचित्तज्ञानं नास्ति। तदालम्बनं त्वस्ति।
तत्र परचित्तज्ञानेन दर्शनमार्गं ज्ञातुकामः प्रयोगं कृत्वा प्रथमौ
दर्शनक्षणौ ।
श्रावको वेत्ति खड्गस्त्रीन् सर्वान् बुद्धोऽप्रयोगतः ॥ ६ ॥
श्रावको दर्शनमार्गात् परचित्तज्ञानेन द्वौ क्षणौ जानाति। दुःखे धर्मज्ञान-
क्षान्तिम्, धर्मज्ञानं च; अन्वयज्ञानपक्षालम्बनस्यान्यप्रयोगसाध्यत्वात् ।
श्रद्धाधिमुक्त-समयविमुक्तमार्गेणेति । यथासंख्यं श्रद्धाधिमुक्तमार्गेण
दृष्टिप्राप्तमार्गं न जानाति, समयविमुक्तमार्गेणासमयविमुक्तमार्गं न जानाति ।
अधरेणोत्तरमिति । अनागामिमार्गेणार्हन्मार्गं न जानाति । अर्हन्मार्गेण
प्रत्येकबुद्धमार्गमियादि ॥ ५ ॥
कामधातुर्ध्वधातुप्रतिपक्षालम्बनत्वात् तयोरिति । तयोः धर्मज्ञान-
पक्षान्वयज्ञानपक्षयोः ।.धर्मज्ञानपक्षस्य कामधातुप्रतिपक्ष आलम्बनम्, अन्वय-
ज्ञानपक्षस्य ऊर्ध्वधातुप्रतिपक्ष आलम्बनमिति नियमः । दर्शनमार्गे परचित्त-
ज्ञानं नास्तीति । अव्यापारत्वाद् दर्शनमार्गस्य ।
दुःखे धर्मज्ञानक्षान्ति धर्मज्ञानं चेति । सम्भवं प्रत्येवमुच्यते । कदाचिद्धि
प्रयोगवशाद् दुःखेऽन्वयज्ञानक्षान्ति दुःखेऽन्वयज्ञानं च ज्ञातुं सम्भवति ।
१. ॰म्यर्हच्छ्रावक प्रत्येक०-का० ।

निर्देशः ] सप्तमं कोशस्थानम् १०३६
यावच्च स तत्र प्रयोगमारभते, तावदयं षोडशचित्तमनुप्राप्तो भवतीत्यन्तरा
न जानाति।
प्रत्येकबुद्धस्त्रीन् क्षणान्। प्रथमौ च द्वावष्टमं च समुदायान्वयज्ञानम्;
मृदुप्रयोगत्वात्। प्रथमद्वितीयपञ्चदशानित्यपरे।
बुद्धस्तु सर्वानिव दर्शनमार्गक्षणानप्रयोगेण जानाति ॥ ६ ॥
अथ क्षयज्ञानानुत्पादज्ञानयोः को विशेषः ?
क्षयज्ञानं हि सत्येषु परिज्ञातादिनिश्चयः।
न परिज्ञेयमित्यादिरनुत्पादमतिर्मता ॥ ७ ॥
“क्षयज्ञानं कतमत् ? 'दुःखं मे परिज्ञातम्' इति जानाति। 'समुदयः
प्रहीणो निरोधः साक्षात्कृतो मार्गो भावितः' इति जानाति। तदुपादाय यत्
ज्ञानं दर्शनं विद्या बुद्धिर्बोधिः प्रज्ञा आलोकोऽभिसमयमिदमुच्यते क्षयज्ञानम्।
अनुत्पादज्ञानं कतमत् ? 'दुःखं मे परिज्ञातं न पुनः परिज्ञेयम्' इति जानाति,
यावत् 'मार्गो भावितो न पुनर्भावयितव्यः' इति। तदुपादाय” ( )
इति विस्तरेणोक्तं शास्त्रे।
कथमनास्रवेण ज्ञानेनैवं जानाति ? तत्पृष्ठलब्धेन व्युत्थित एवं
जानाति। अतस्तद्विशेषेण तयोर्विशेषः। शास्त्रे ज्ञापित इति काश्मीराः।
अष्टमं च समुदायान्वयज्ञानमिति। धर्मज्ञानपक्षौ द्वौ क्षणौ ज्ञात्वा
अन्वयज्ञानपक्षं परेण 'चित्तं ज्ञास्यामि' इति प्रयोगं कृत्वा समुदायान्वयज्ञान-
मष्टमं सम्भावयति। मृदुप्रयोगत्वादिति। अल्पप्रयोगत्वादित्यर्थः। श्रावकस्य
हि महाप्रयोगसाध्यं तदन्वयज्ञानपक्षाालम्बनं परचित्तम्; अतो यावत् स तत्र
प्रयोगमारभते तावद् अयं षोडशं चित्तमनुप्राप्तो भवतीति अन्तरा न जानाति।
प्रथम-द्वितीय-पञ्चदशानिति। एतानेव त्रीन् जानाति। कथम् ? दुःखे धर्म-
ज्ञानक्षान्ति धर्मज्ञानं च ज्ञात्वा प्रयोगान्तरं च कृत्वा पञ्चदशक्षणं मार्गान्वय-
ज्ञानक्षान्ति जानातीति ॥ ६ ॥
कथमनास्रवेण ज्ञानेनैवं जानातीति। अनास्रवाणां दुःखाद्याकारत्वात्।
इदं च संवृत्याकारं दुःखं मे परिज्ञातमित्येवमाद्याकारत्वादतः पृच्छति।
तद्विशेषेण तयोर्विशेष इति। तस्य संवृतिज्ञानद्वयस्य तत्पृष्ठलब्धस्य विशेषेण
'दुःखं मे परिज्ञातम्' यावत् 'मे मार्गो भावितः' इति जानाति, 'दुःखं मे परि-
ज्ञातं न पुनः परिज्ञेयम्' यावत् 'मार्गो मे भावितो न पुनर्भावयितव्यः' इति च
जानाति—इत्येवंरूपेण तयोरनास्रवयोः क्षयानुत्पादज्ञानयोर्विशेषः शास्त्रे

१०४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
अनास्रवेणाप्येवं जानातीत्यपरे ।
दर्शनवचनं तु भाष्याक्षेपात् । प्रत्यक्षवृत्तित्वाद्वा । अत एवोक्तम्—
“यत्१ तावत्१ ज्ञानं दर्शनमपि तत्” ( ) इति ।
इत्येतानि दश ज्ञानानि भवन्ति यदुत धर्मज्ञानम्, अन्वयज्ञानम्,
संवृतिज्ञानम्, दुःखज्ञानम्, समुदयज्ञानम्, निरोधज्ञानम्, मार्गज्ञानम्, परचित्त-
ज्ञानम्, क्षयज्ञानम्, अनुत्पादज्ञानं च ।
तत्र संवृतिज्ञानमेकं ज्ञानमेकस्य च भागः ।
ज्ञापितो दर्शितः । अत एव तदुपादायेत्युक्तम् । तदुपादायेति पूर्वीकृत्य । तत्पु-
रस्कृत्येत्यर्थः । निष्पन्दने तयोर्निर्विकल्पयोर्विशेषोऽनुमीयत इत्यभिप्रायः ।
अनास्रवेणाप्येवं जानातीति । षोडशाकारव्यतिरिक्तोऽस्त्यनास्रव
आकारः, तेनैवं जानातीत्यपरे ।
यदि 'तदुपादाय यज्ज्ञानं दर्शनम्' इति शास्त्रवचनेन दुःखपरिज्ञानादि-
संवृतिज्ञानफलमनास्रवं क्षयानुत्पादज्ञानमुच्यते, यदिदमुच्यते—'क्षयानुत्पादधोर्न
दृक्' (अभि० को० ७.१) इति न दृष्टिः" इति, तद्विरुध्यते ? तेनाह—
दर्शनवचनं तु भाष्याक्षेपादिति । यदेतच्छास्त्रे वचनम् 'यज्ज्ञानं दर्शनम्'
इति, तद् भाष्याक्षेपाद् भवति । दुःखज्ञानादिषु हि ज्ञानम् 'दर्शनम्',
'विद्या', 'बुद्धिः', 'बोधिः' इति पठ्यते, तत्पाठाक्षेपायोपतिष्ठते तत्पाठिनां
पाठः । न तु ते क्षयानुत्पादज्ञाने दर्शनस्वभावे । न दृष्टिभावे इत्यर्थः ।
प्रत्यक्षवृत्तित्वाद्वेति । प्रत्यक्षा वृत्तिरस्य ज्ञानद्वयस्य तदियं प्रत्यक्षवृत्तिः,
तद्भावात् । अनयोर्दर्शनवचनम् । न ह्येतज्ज्ञानद्वये आनुमानिकवद्
आगमिकवद् वा परोक्षवृत्तिः । प्रत्यक्षवृत्तिश्च दर्शनमिष्यते । तद्यथा—
चक्षुर्विज्ञानम् । तत्साधर्म्यादितदपि ज्ञानद्वयं दर्शनमित्युक्तम् । अत
एवोक्तमिति । अत एव प्रत्यक्षवृत्तित्वादुक्तं शास्त्रे—यत् तावद् ज्ञानं
दर्शनमपि तत् । स्यात् ॰ दर्शनं न ज्ञानम्, अष्टावाभिसमयान्तिकाः क्षान्तयः ।
तदिदमुक्तं भवति—दर्शनत्वमनयोरिष्यते, न दृष्टित्वमिति ।
तत्रेति । तेषु दशसु ज्ञानेषु । संवृतिज्ञानम् । संवृतिज्ञानमेव । स्वभाव-
संग्रहतः । एकस्य च परचित्तज्ञानस्य भाग एकदेशः । तस्य हि सास्रवानास्रवस्य
सास्रवो भागः संवृतिज्ञानम्, नानास्रवो भाग इति । धर्मज्ञानं दशसु ज्ञानेष्वेकं
१-१. यावत्—का० ।

निर्देशः ] सप्तमं कोशस्थानम् १०४१
धर्मज्ञानमेकं ज्ञानं सप्तानां च भागो¹ दुःखसमुदयनिरोधमार्गक्षयानु-
त्पादपरचित्तज्ञानानाम् ।
एवमन्वयज्ञानम् ।
दुःखज्ञानमेकं ज्ञानं चतुर्णां च भागो धर्मान्वयक्षयानुत्पादज्ञानानाम् ।
एवं समुदयनिरोधज्ञाने चतुर्णां भागः ।
मार्गज्ञानमेकं ज्ञानं पञ्चानां च भागो चतुर्णामनन्तरोक्तानाम् पर-
चित्तस्य च ।
परचित्तज्ञानमेकं ज्ञानं चतुर्णां च भागो धर्मान्वयमार्गसंवृतिज्ञानानाम् ।
ज्ञानं धर्मज्ञानमेव । सप्तानां च भागो दुःख-समुदय-निरोध-मार्ग-परचित्त-
क्षयानुत्पादज्ञानानाम् । कथम् ? दुःखज्ञानं धर्मान्वयज्ञानस्वभावम्, तस्य यो
धर्मज्ञानभागः तद् धर्मज्ञानम् । एवं समुदयज्ञानस्य, यावद् अनुत्पादज्ञानस्य
धर्मान्वयज्ञानस्वभावस्य यो धर्मज्ञानभागः तद् धर्मज्ञानम्; न त्वन्वयज्ञानभाग
इति । परचित्तज्ञानस्य तु धर्मान्वयमार्गसंवृतिज्ञानस्वभावस्य धर्मज्ञानभागो
धर्मज्ञानमिति ।
एवमन्वयज्ञानम् । एकमन्वयज्ञानमेव । सप्तानां च भागः । तेषामेव
दुःखज्ञानादीनां योऽन्वयज्ञानभागः, तदन्वयज्ञानमिति योज्यम् ।
दुःखज्ञानं दशसु ज्ञानेष्वेकं ज्ञानम् । तदेव दुःखज्ञानम् । चतुर्णां च
भागो धर्मान्वयक्षयानुत्पादज्ञानानाम् । एतानि हि धर्मज्ञानादीनि चत्वारि
चतुःसत्यालम्बनानि भवन्ति । य एषां दुःखसत्यालम्बनो भागः तद्
दुःखज्ञानम्, नान्यो भाग इति ।
एवं समुदय-निरोधज्ञाने योज्ये । प्रत्येकम् । एकं ज्ञानं समुदयज्ञानम्
निरोधज्ञानं वा । चतुर्णां च भागः । धर्मान्वयक्षयानुत्पादज्ञानानां यः
समुदयालम्बनभागः, निरोधालम्बनभागो वा । तत् समुदयज्ञानम्, निरोध-
ज्ञानं च ।
मार्गज्ञानं दशसु ज्ञानेष्वेकं ज्ञानम् । तदेव मार्गज्ञानम् । पञ्चानां च
भागः । धर्मान्वय-क्षयानुत्पाद-परचित्तज्ञानानाम् । एतानि पञ्च मार्ग-
ज्ञानानि मार्गज्ञानस्वभावानि भवन्ति । य एषां मार्गज्ञानभागः तत् मार्ग-
ज्ञानम्, नेतर इति ।
परचित्तज्ञानं दशसु ज्ञानेष्वेकं ज्ञानं तदेव परचित्तज्ञानम् । चतुर्णां च
१. भागः ।—का० । एवमुपर्यपि सर्वत्र ।

१०४२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ ज्ञान-
क्षयज्ञानमेकं ज्ञानं षण्णां च भागो धर्मान्वयदुःखसमुदयनिरोधमार्ग-
ज्ञानानाम्।
एवमनुत्पादज्ञानम् ॥ ७ ॥
कस्मात् पुनरेतानि त्रीणि सन्ति दश व्यवस्थाप्यन्ते ?
स्वभावप्रतिपक्षाभ्यामाकाराकारगोचरात् ।
प्रयोगकृतकृत्यत्वहेतूपचयतो दश ॥ ८ ॥
सप्तभिः किल कारणैर्दश ज्ञानानि व्यवस्थाप्यन्ते—
१. स्वभावतः संवृतिज्ञानम्; अपरमार्थज्ञानत्वात् ।
भागो धर्मान्वयमार्गसंवृतिज्ञानानाम्। एतानि हि चत्वारि ज्ञानानि
परचित्तापचित्तज्ञानस्वभावानि¹ भवन्ति। य एषां परचित्तज्ञान-
भागः तत् परचित्तज्ञानम्, नेतर इति। क्षयज्ञानं दशसु ज्ञानेष्वेकं
ज्ञानम्, तदेव क्षयज्ञानम्। स्वभावसंगृहीत। षण्णां च भागो धर्मान्वय-दुःख-
समुदय-निरोध-मार्गज्ञानानाम्। 'दुःखं मे परिज्ञातम्' इत्येवमाद्याकार-
ज्ञाननिष्यन्दम्। तत्र यत् कामावचरदुःखाद्यालम्बनं तद् धर्मज्ञाने
ऽन्तर्भवति। यद् रूपावचरदुःखाद्यालम्बनं तद् अन्वयज्ञानेऽन्तर्भवति। यत्
प्रत्येकं दुःखाद्यालम्बनं तद् दुःखज्ञानम्, यावत् मार्गज्ञानं वा भवति।
तत्र य एषां एवंलक्षणो भागः तत् क्षयज्ञानम्, नेतर इति 'षण्णां भागः'
इत्युच्यते।
एवमनुत्पादज्ञानम्। दशसु ज्ञानेष्वेकं ज्ञानम् तदेवानुत्पादज्ञानम्।
षण्णां च भागो धर्मान्वय-दुःख-समुदय-निरोध-मार्गज्ञानानां यो भागः।
'दुःखं मे परिज्ञातं न पुनः परिज्ञेयम्' इत्येवमाद्याकारनिष्यन्दम्,
तदनुत्पादज्ञानम्। रूपारूप्यावचरदुःखाद्यालम्बनम्। तद् अन्वयज्ञानम्,
नेतरो भाग इति षण्णां भाग इत्युच्यते ॥ ७ ॥
“आकाराकारगोचरात्” इति। आकारश्च गोचरश्च आकारगोचरम्,
तस्मात्।
स्वभावतः संवृतिज्ञानमिति। स्वभावेन स्वभावतः संवृतिज्ञानम्।
संवृतौ वा ज्ञानं संवृतिज्ञानम्। कस्माद् ? इत्याह—अपरमार्थज्ञानत्वादिति।
१. ० ज्ञानं स्वभावानि—जा० ।

निर्देशः ] सप्तमं कोशस्थानम् १०४३
२. प्रतिपक्षतो धर्मान्वयज्ञाने; कामधातूर्ध्वधातुप्रतिपक्षत्वात् ।
३. आकारतो दुःखसमुदयज्ञाने; आलम्बनाभेदात् ।
४. आकारालम्बनतो निरोधमार्गज्ञाने; आकारालम्बनभेदात् ।
५. प्रयोगतः परचित्तज्ञानम् । न हि तेन चैत्ता न ज्ञायते, चित्त-
ज्ञानार्थं तु प्रयुक्तस्याभिनिष्पत्तेः परचित्तज्ञानमुक्तम् ।
६. कृतकृत्यतः क्षयज्ञानं कृतकृत्यसन्तानोत्पत्तेः ।
७. प्रथमतः हेतूपचयतोऽनुत्पादज्ञानं सर्वानास्रवहेतुकत्वादिति ॥ ८ ॥
कामधातुप्रतिपक्षो धर्मज्ञानम्, ऊर्ध्वधातुप्रतिपक्षोऽन्वयज्ञानम् । तथा
हि शास्त्रे उक्तम्- "धर्मज्ञानं कतमत् ? कामप्रतिसंयुक्तेषु संस्कारेषु
यदनास्रवं ज्ञानम्, कामप्रतिसंयुक्तानां संस्काराणां हेतौ यदनास्रवं ज्ञानम्,
कामप्रतिसंयुक्तानां संस्काराणां निरोधे यद् अनास्रवं ज्ञानम्, कामप्रति-
संयुक्तानां संस्काराणां प्रहाणाय मार्गे यदनास्रवं ज्ञानम्-इदमुच्यते धर्म-
ज्ञानम् । अपि खलु धर्मज्ञाने धर्मज्ञानभूमौ च यदनास्रवं ज्ञानम्-इदमुच्यते
धर्मज्ञानम् । अन्वयज्ञानं कतमत् ? रूपारूप्यप्रतिसंयुक्तेषु संस्कारेषु
यदनास्रवं ज्ञानम्, रूपारूप्यप्रतिसंयुक्तानां संस्काराणां हेतौ यदनास्रवं ज्ञानम्,
रूपारूप्यप्रतिसंयुक्तानां संस्काराणां निरोधे यदनास्रवं ज्ञानम्, रूपारूप्यप्रति-
संयुक्तानां संस्काराणां प्रहाणाय मार्गे यदनास्रवं ज्ञानम्-इदमुच्यते अन्वय-
ज्ञानम् । अपि खलु अन्वयज्ञाने अन्वयज्ञानभूमौ च यदनास्रवं ज्ञानम्-
इदमुच्यतेऽन्वयज्ञानम्" ( ) इति ।
आकारतो दुःखसमुदयज्ञाने इति । आकारत एव, नालम्बनतः ।
पञ्चोपादानस्कन्धलक्षणत्वेन तयोरभेदात् । तथा हि शास्त्रे उक्तम्-
“दुःखज्ञानं कतमत् ? पञ्चोपादानस्कन्धान् अनित्यतो दुःखतः शून्यतो-
ऽनात्मतश्च मनसिकुर्वतो यद् अनास्रवं ज्ञानम्-इदमुच्यते दुःखज्ञानम् ।
समुदयज्ञानं कतमद् ? सास्रवं हेतुकं हेतुतः समुदयतः प्रभवतः प्रत्ययतश्च
मनसिकुर्वतो यदनास्रवं ज्ञानम्-इदमुच्यते समुदयज्ञानम्” ( ) ।
आकारालम्बनतो निरोध-मार्गज्ञाने इति । आकारतश्च आलम्बनतश्च
निरोधमार्गज्ञाने व्यवस्थाप्येते । तथा हि शास्त्रे उक्तम्--"निरोधज्ञानं
कतमत् ? निरोधं निरोधतः शान्ततः प्रणीततो निःसरणतश्च मनसिकुर्वतो
यदनास्रवं ज्ञानम्-इदमुच्यते निरोधज्ञानमिति । मार्गज्ञानं कतमत् ?
मार्गं मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश्च मनसिकुर्वतो यदनास्रवं
ज्ञानम्-इदमुच्यते मार्गज्ञानम्" ( ) इति ।
प्रथमत इति ग्रहणम् अनुत्पादज्ञानविशेषणार्थम् । तदपि हि कृतकृत्य-

१०४४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
सकलस्य सकलप्रतिपक्षत्वात् कामधातुप्रतिपक्षो धर्मज्ञानमित्युक्तम् ।
अपि तु
धर्मज्ञानं निरोधे यन्मार्गे वा भावनापथे ।
त्रिधातुप्रतिपक्षस्तत्,
निरोधमार्गज्ञाने भावनामार्गसंगृहीते त्रिधातुप्रतिपक्षः ।
कामधातोस्तु नान्वयम् ॥ ९ ॥
सन्तान उत्पद्यते । सर्वनास्रवहेतुकत्वादिति । प्रथमोत्पन्नानि दश
ज्ञानान्यधिकृत्य सभागहेतुना सर्वनास्रवहेतुकमनुत्पादज्ञानम् । क्षयज्ञानं तु
न सर्वनास्रवहेतुकमनुत्पादज्ञानम् । न हि अनुत्पादज्ञानमस्य हेतुर्भवति;
विशिष्टत्वात् ॥ ८ ॥
सकलस्य सकलप्रतिपक्षत्वादिति । सकलस्य कामधातोः दर्शन-
भावना-प्रहातव्यसंगृहीतस्य पञ्चप्रकारस्य सकलं धर्मज्ञानं दर्शन-भावना-
मार्गसंगृहीतं चतुरार्यसत्यालम्बनं प्रतिपक्ष इति कृत्वा कामधातोरेव प्रतिपक्षो
धर्मज्ञानमित्युक्तम् । अपि त्वस्ति सम्भवो यद् रूपारूप्यधातोरपि धर्मज्ञानं
प्रतिपक्षः । कतमत् तद् धर्मज्ञानम् ? यत् निरोधे मार्गे च धर्मज्ञानम् ।
निरोध-मार्गौ हि अधातुपतितौ । तावाधारावपि न हीनौ व्यवस्थाप्येते ।
दुःखसमुदयसत्ये त्वाधारभूमिके निहीने । न तदालम्बनं धर्मज्ञानं रूपारूप्य-
धातुप्रतिपक्ष इत्यवगन्तव्यम् ।
भावनापथग्रहणं तु रूपारूप्यावचराणां दर्शनहेयानामन्वयज्ञानक्षान्ति-
बाध्यत्वात् । अन्वयज्ञानं तर्हि निरोधमार्गालम्बनभावनामार्गसंगृहीतं कस्मात्
त्रिधातुप्रतिपक्षो न भवति ? कामधातोजितत्वात् । धर्मज्ञानेनैव कामधातुः
पूर्वतरजितो भवति, ततः पश्चादन्वयमुत्पाद्यते, ततः कामधातोजितत्वान्न
तत् कामधातुप्रतिपक्ष इति । धर्मज्ञानं तु रूपारूप्यधातोरजितत्वात् प्रतिपक्षो
युज्यते । कस्मात्¹ निरोधमार्गधर्मज्ञानाभ्यामेव त्रैधातुकभावनाप्रहात-
व्यक्लेशप्रहाणम्, न पूर्वाभ्याम् ? शान्तनैर्याणिकतासभागात्² । न
हि कामावचरसंस्काराणां निरोधात् प्रतिपक्षाद् वा रूपारूप्यावचरसंस्काराणां
निरोधस्य प्रतिपक्षस्य वाऽस्ति कश्चिद् विशेषः । सर्वो हि निरोधः
कुशलः, असंस्कृतः; मार्गश्च नैर्याणिकः ।
१. कस्मान्-जा० । २. ०साभागात्-जा० । साभाव्यात्-इत्यन्यपुस्तके ।