अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1062, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] सप्तमं कोशस्थानम् १०३६
यावच्च स तत्र प्रयोगमारभते, तावदयं षोडशचित्तमनुप्राप्तो भवतीत्यन्तरा
न जानाति।
प्रत्येकबुद्धस्त्रीन् क्षणान्। प्रथमौ च द्वावष्टमं च समुदायान्वयज्ञानम्;
मृदुप्रयोगत्वात्। प्रथमद्वितीयपञ्चदशानित्यपरे।
बुद्धस्तु सर्वानिव दर्शनमार्गक्षणानप्रयोगेण जानाति ॥ ६ ॥
अथ क्षयज्ञानानुत्पादज्ञानयोः को विशेषः ?
क्षयज्ञानं हि सत्येषु परिज्ञातादिनिश्चयः।
न परिज्ञेयमित्यादिरनुत्पादमतिर्मता ॥ ७ ॥
“क्षयज्ञानं कतमत् ? 'दुःखं मे परिज्ञातम्' इति जानाति। 'समुदयः
प्रहीणो निरोधः साक्षात्कृतो मार्गो भावितः' इति जानाति। तदुपादाय यत्
ज्ञानं दर्शनं विद्या बुद्धिर्बोधिः प्रज्ञा आलोकोऽभिसमयमिदमुच्यते क्षयज्ञानम्।
अनुत्पादज्ञानं कतमत् ? 'दुःखं मे परिज्ञातं न पुनः परिज्ञेयम्' इति जानाति,
यावत् 'मार्गो भावितो न पुनर्भावयितव्यः' इति। तदुपादाय” ( )
इति विस्तरेणोक्तं शास्त्रे।
कथमनास्रवेण ज्ञानेनैवं जानाति ? तत्पृष्ठलब्धेन व्युत्थित एवं
जानाति। अतस्तद्विशेषेण तयोर्विशेषः। शास्त्रे ज्ञापित इति काश्मीराः।
अष्टमं च समुदायान्वयज्ञानमिति। धर्मज्ञानपक्षौ द्वौ क्षणौ ज्ञात्वा
अन्वयज्ञानपक्षं परेण 'चित्तं ज्ञास्यामि' इति प्रयोगं कृत्वा समुदायान्वयज्ञान-
मष्टमं सम्भावयति। मृदुप्रयोगत्वादिति। अल्पप्रयोगत्वादित्यर्थः। श्रावकस्य
हि महाप्रयोगसाध्यं तदन्वयज्ञानपक्षाालम्बनं परचित्तम्; अतो यावत् स तत्र
प्रयोगमारभते तावद् अयं षोडशं चित्तमनुप्राप्तो भवतीति अन्तरा न जानाति।
प्रथम-द्वितीय-पञ्चदशानिति। एतानेव त्रीन् जानाति। कथम् ? दुःखे धर्म-
ज्ञानक्षान्ति धर्मज्ञानं च ज्ञात्वा प्रयोगान्तरं च कृत्वा पञ्चदशक्षणं मार्गान्वय-
ज्ञानक्षान्ति जानातीति ॥ ६ ॥
कथमनास्रवेण ज्ञानेनैवं जानातीति। अनास्रवाणां दुःखाद्याकारत्वात्।
इदं च संवृत्याकारं दुःखं मे परिज्ञातमित्येवमाद्याकारत्वादतः पृच्छति।
तद्विशेषेण तयोर्विशेष इति। तस्य संवृतिज्ञानद्वयस्य तत्पृष्ठलब्धस्य विशेषेण
'दुःखं मे परिज्ञातम्' यावत् 'मे मार्गो भावितः' इति जानाति, 'दुःखं मे परि-
ज्ञातं न पुनः परिज्ञेयम्' यावत् 'मार्गो मे भावितो न पुनर्भावयितव्यः' इति च
जानाति—इत्येवंरूपेण तयोरनास्रवयोः क्षयानुत्पादज्ञानयोर्विशेषः शास्त्रे