सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

२०८ युक्तिकल्पतरौ—
कुरुते धनवृद्धिं स दोषैर्मुक्तो यदा त्वयम् ॥ ४९ ॥
वर्णस्तु (१) सध्वजः पुच्छो रम्यश्च ध्वज उच्यते ।
भर्तुः कुलं धनं धान्यं विवर्द्धयति निश्चयम् ॥ ५० ॥
पूर्व्वार्द्धे चोन्नतो वस्तु परार्द्धे चैव नीचकः ।
निर्द्दोषो वाम इत्येष कुरुते रिपुसङ्क्षयम् ॥ ५१ ॥
चन्द्रकं दृश्यते यस्य ललाटे देवनिर्मितम् ।
क्षेमनामा वृषः कुर्यात् धनधान्यविवर्द्धनम् ॥ ५२ ॥
आवर्त्ताश्च शुभा यस्य शुक्तयश्चापि वा शुभाः ।
भद्रनामा वृषः कुर्यात् भर्तुः सर्व्वार्थ-साधनम् ॥ ५३ ॥
आवर्त्तं शुक्तिविज्ञानं हयेषु वृषभेष्वपि ।
पादाः सर्व्वे सिता यस्य पुच्छभालौ सितौ तथा ॥ ५४ ॥
महोक्षा चायते नेत्रे कर्णौ चाति लघू स्थिरौ ।
मुष्कयोः कृष्णता चैव शृङ्गे चातिशुभे दृढे ॥ ५५ ॥
तनुरोमा (२) महावेगः स्निग्धगम्भीर निस्वनः ।
शिव इत्येष कथितः शिवं प्रकुरुते ध्रुवम् ॥ ५६ ॥
चरणाः पञ्जराः स्थूलाः शिरः शुभ्रं भवेत्तनुः ।
आपुच्छादायता शुभ्रा रेखा मस्तकगामिनी ॥ ५७ ॥
रक्ताताल्वोष्ठजिह्वस्तु स्थिरः स्थैर्य्यकरः श्रियाः ।
नाल्पपुण्येन लभ्योऽयं वृषभः शुभलक्षणः ॥ ५८ ॥
गर्गस्तु,—
महत्त्वं तनुलोमत्वं पुष्टता भारवाहिता (३) ।
कुमारकत्वमित्येते वृषभाणां गुणा मताः ॥ ५९ ॥
(१) षण्डस्तु रम्यः सध्वज इति (क) पुस्तकपाठः ।
(२) तानुरोमाः इति (ख) पुस्तकपाठः ।
(३) बारवाहिता इति (ग) पुस्तकपाठः ।

वृषयुक्तिः । २०९
अथ वृषभदोषाः ।
व्यङ्गो विवर्णो विषमः श्वित्री धूम्रश्चल खरः ।
एते सप्त महादोषा वृषभाणामुदीरिताः ॥ ६० ॥
विषाणौ विषमौ यस्य खुराश्च विषमास्तथा ।
नेत्रप्रा(क्रा)न्तेऽथ वा गात्रे पञ्जरे वैकृतं भवेत् ॥ ६१ ॥
व्यङ्ग इत्येष कथितो धनधान्य-विनाशकः ।
पूर्व्वार्द्धमन्यवर्णन्तु परार्द्धञ्चान्यवर्णकम् ॥ ६२ ॥
पृष्ठं क्रोडो विवर्णो वा विवर्णः कुलनाशनः ।
परार्द्धमुन्नतं यस्य पूर्व्वार्द्धञ्चाति नीचकम् ॥ ६३ ॥
गच्छतश्चरणौ लग्नौ शब्दायते खरखरः (१) ।
विषमो नाम वृषभः सम्पत्तिचयकारकः ॥ ६४ ॥
हिमकुन्देन्दुसङ्गाशा गात्रेषु लोमविन्दवः ।
श्वित्री नाम महादोषो दूरतस्तं परित्यजेत् ॥ ६५ ॥
शृङ्गाग्रे दौपिकाकारं ज्वलते केकरे दृशौ ।
कपिलः पुच्छभागश्चेत् स धूम्रो मृत्युमावहेत् ॥ ६६ ॥
दन्त शृङ्गखुरादीनां यद्येकोऽपि चलेत् स्वयम् ।
मुष्को वा (२) चलते यस्य स चलः कुलनाशनः ॥ ६७ ॥
आवर्त्ताः शुक्तयो रेखा विषमाश्च विसंस्थिताः ।
न्यूनाधिकाः पञ्जरास्तु खुरास्तु विषमास्तथा ॥ ६८ ॥
गुदान्मेढ्रान्तरे यावद्रेखा व्यक्तेव दृश्यते ।
विस्तृते विषमे घोणे(रे) जिह्वा चैवा(व)सिता भवेत् ॥ ६९ ॥
स खरो दूरतस्त्याज्यो भर्तुः सर्व्वार्थ-नाशनः ।
स्वल्पता दीर्घरोगत्वं क्षोणताभारवाहिता ॥ ७० ॥
(१) खरः खरः इति (क) पुस्तक पाठः ।
(२) मुष्कोरा इति (ख) पुस्तक पाठः ।
२७

२१० युक्तिकल्पतरौ—
व्यङ्गत्वं मारकत्वञ्च वृषदोषा उदाहृताः ।
ब्रह्मादि-जातिभेदेन चत्वारो ये वृषा मताः ॥ ७१ ॥
चतुर्विधानां लोकानां त एव स्युः शुभावहाः ।
यो मोहादन्यजातीयं कुरुते वृषभं नरः ॥ ७२ ॥
तस्य नश्यन्ति वित्तानि धनमायुः कुलं वलम् ।
दुर्बलो वृषभोयत्र गो-जातिस्तत्रनश्यति ॥ ७३ ॥
वातपित्तकफोद्रेकाद् व्याधयो ये वृषे मताः ।
तेषामुपशमः कार्य्यो यथास्वं विधिना बुधैः ॥ ७४ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ वृषपरीक्षा ।
——————*——————
अथ महिष परीक्षा ।
विपत्ते ह्यसन्नासं कुरुते येन हेतुना ।
भारं वहति वा दूरं महिषोऽस्मान्निरूप्यते ।
ब्रह्मक्षत्रियविट्शूद्रान्त्यजभेदेन पञ्चधा ॥ ७५ ॥
तद्यथा ।
भृशं कृष्णाः पवित्राश्च वृहद्वृषण घोणकाः ।
वह्नाशिनो मारकाश्च महिषा ब्रह्मजातयः ॥ ७६ ॥
केकराः कामलाः (१) स्थूला भृशं क्रुद्धाश्च मारकाः ।
वह्नाशिनो बहुवला महिषाः क्षत्रजातयः ॥ ७७ ॥
श्लथाङ्गाः क्षीणशृङ्गाश्च सुक्रुद्धाभारवाहिनः ।
अमारका बहुवला महिषाः वैश्यजातयः ॥ ७८ ॥
क्षीणाः क्षीणवलाः क्षीणशृङ्गघोणारुषश्च (२) ये ।
अल्पाशिनो भारसहा महिषाः शूद्रजातयः ॥ ७९ ॥
(१) कपिलां इति (क) पुस्तक पाठः ।
(२) घोणारुणाश्चः इति (ख) पुस्तक पाठः ।

मृगयुक्तिः । २११
सर्व्वदा जलमिच्छन्ति येऽल्पसत्त्वा महौजसः ।
भारसहाः कुण्ठशृङ्गास्तेऽन्यजा महिषा मताः ॥ ८० ॥
एषां दोषा गुणा वापि वृषवल्लक्षयेद्बुधः ।
पोषणञ्चापि संस्थानं वृषतुल्यं तथा मतम् ॥ ८१ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ महिषपरीक्षा ।
अथ मृगपरीक्षा ।
मृगनाभिं समादातुं कौतुकार्थं तथापुनः ।
मृगाःपोष्या महीन्द्राणां तेषां वक्ष्यामि लक्षणम् ॥ ८२ ॥
पृथिव्यव् वायुगगनास्तेजोऽधिकास्तु पञ्चधा ।
भिद्यन्ते नैकभेदास्तु समस्ता मृगजातयः ॥ ८३ ॥
तद्यथा ।
ये गन्धिनः क्षीणशरीरकर्णास्ते पार्थिवा गन्धमृगाः प्रदिष्टाः ।
सर्व्वाङ्गमेषां सुरभि प्रकामं पुण्ये प्रदेशे प्रभवन्ति ते तु ॥ ८४ ॥
ये वै विशाला गुरुदीर्घशृङ्गा अमांसलास्तीव्रखुर प्रदेशाः ।
आप्यास्तु ते वै प्रसरन्तिभूरि सर्व्वत्र देशे प्रभवन्ति चैव ॥ ८५ ॥
धावन्ति ये वातमिवान्तरीक्षे दीर्घास्तु ते वातमृगाः प्रदिष्टाः ।
ते यत्र यत्रैव भवन्ति शक्तास्तत्रैव सर्व्वाणि शुभानि सन्ति ॥८६॥
लघुप्रमाणा लघु वीर्य्यसत्त्वा निर्गन्धदेहाश्छगल-प्रमाणाः ।
ते गगना वेगकरा नराणां स्पृश्या न ते नापि निरीक्षणीयाः ॥८७॥
ये कृष्णवर्णा गुरुदीर्घशृङ्गाः क्रुद्धा भृशं यान्ति च वायुवेगाः(त्) ।
ते कृष्णसाराः खलु तेजसास्तु पुण्यप्रदेशे प्रभवन्ति ते तु ॥ ८८ ॥

२१२ युक्तिकल्पतरौ—
भोजोऽप्याह ।
पार्थिवादिर्मृगः सर्व्वश्चतुर्जातिर्भवेत् पृथक् ।
सुशृङ्गास्तनुलोमानो ब्राह्मणा मृगजातयः ॥ ८९ ॥
क्रुद्धाः पञ्चरि (१) शृङ्गाश्च क्षत्रियाः खरलोमशाः ।
आवर्त्त शृङ्गास्तनवो हरिणा वैश्यजातयः ॥ ९० ॥
कुशृङ्गा वाप्यशृङ्गा वा शूद्राः खरतनूरुहाः ।
अश्वानां ये गुणा दोषास्ते ज्ञेया हरिणेष्वपि ॥ ९१ ॥
तथापि दोषाः पञ्चामी वच्यन्ते हरिणाश्रयाः ।
नेत्रयोरन्तरे यस्य लोमावर्त्तः स पापकृत् ॥ ९२ ॥
विषमौ विकतौ शृङ्गौ यस्य स क्षेमनाशनः ।
आवर्त्तः पृष्ठतो यस्य आनाभि-मभिविन्दति ॥ ९३ ॥
पश्चार्द्धे यस्य वावर्त्तस्तौ त्याज्यौ भयकारको ।
वर्णनेत्रपदादीनां वैकृताङ्गन-नाशनः ॥ ९४ ॥
गार्ग्यः ।
दोषवन् मृगजातीनां विजातीनामथापि वा ।
दर्शनात् स्पर्शनात् चैव गन्धादानाच्च पोषणात् ।
भवेयुर्विपदः सर्व्वास्तथा चैवाद्य पोषणात् ॥ ९५ ॥
शङ्खोऽपि ।
हरिणपोषणतो धरणीभुजांनहि भवेन्नरुद्भव-पीड़नम् ।
न परिवह्निरुजोरिपुजं भयं तदव तं हरिणं गुणिनं नृप ॥ ९६॥
इति श्रीभोजराजीये युक्तिकल्पतरौ मृगपरीक्षा ।

( १ ) पशुरि इति (क) पुस्तक पाठः ।

सारमेययुक्तिः । २१३
अथ सारमेय परीक्षा ।
मृगयार्थं शाकुनार्थं कौतुकार्थि-महोच्छिता (१) ।
श्वानः पोष्यास्ततस्तेषामथ वक्ष्यामि लक्षणम् ॥
गुणजाति प्रभेदेन शुनां भेदो ह्यनेकधा ॥ ९७ ॥
तद्यथा ।
सात्त्विका राजसाश्चैव तामसाश्च त्रिधा मताः ।
अश्रान्ता अपरिच्छीणाः पवित्राः स्वल्पभोजिनः ॥ ९८ ॥
श्वानस्ते सात्त्विकाः प्रोक्ता दृश्यन्ते च क्वचित् क्वचित् ।
क्रुद्धा बहुभुजो दीर्घा गुरु वक्षस्तनूदराः ॥ ९९ ॥
जाङ्गलस्था जाङ्घिकाश्च श्वानस्ते राजसा मताः ।
अल्पश्रमेण ये श्रान्ता ललज्जिह्वा गुरुदराः ॥ १०० ॥
श्वानस्ते तामसा ज्ञेयाः सम्प्लावनसमाश्रयाः ।
ब्रह्मादि जातिभेदेन चतुर्द्धा सर्व्व एव हि ॥ १ ॥
शुभ्रा दीर्घाः स्तब्धकर्णा लघुपुच्छास्तनूदराः ।
सुशुक्लनखदन्ताश्च श्वानस्ते ब्रह्मजातयः ॥ २ ॥
रक्ताङ्गास्तनुलोमानो ललत्कर्णास्तनूदराः ।
दीर्घा दीर्घा नखरदाः श्वानस्ते क्षत्रजातयः ॥ ३ ॥
ये पीतवर्णा मृदवस्तनुलोमान एव च ।
क्रुद्धाक्रुद्धा ललज्जिह्वास्ते श्वानो वैश्यजातयः ॥ ४ ॥
कृष्णवर्णास्तनुमुखा दीर्घरोमाण एव च ।
अक्रुद्धाः श्रमयुक्ताश्च ते श्वानः शूद्रजातयः ॥ ५ ॥
(१) मृगयत्वं भ्राईयर्थं कौतुकार्थं महोच्छिता इति (क) पुस्तक पाठः ।

२१४ युक्तिकल्पतरौ—
लघु प्रमाणास्तु गुरुदरा ये
येऽमेध्यभक्षा बहुपुत्रकाश्च ।
प्रवृद्धपुच्छा लघुसूक्ष्म दन्ता-
स्ते चान्त्यजाः कुक्कुरजातयः स्युः ॥ ६ ॥
द्विजाति चिह्नंसंसर्गात् द्विजातिः श्वा भयावहः ।
लक्षणत्रयसम्बन्धात् त्रिजातिर्धननाशनः ॥ ७ ॥
भोजोऽपि,—
द्विजातिर्वा त्रिजातिर्वा विजातिः श्वा महीभृताम् ।
भयं धनक्षयं शोकं विदधाति यथाक्रमम् ॥ ८ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ श्वपरीक्षा ।
भरद्वाजस्तु वलिप्रकरणे—
अजलक्षणमाह ।
तदनुसारिन भोजोऽपि,—
नक्षत्राणां विभेदेन नराणान्तु गणत्रयम् ।
तेषां शुभाय निर्दिष्टं पशुवस्तत्रयं (१) वलौ ॥ ९ ॥
तद्यथा,—
ये कृष्णाः शुचयश्चाङ्गाः पशवोऽन्ये तथैव च ।
देवजातिभिरुत्सृज्यास्ते सर्व्वार्थोपसिद्धये ॥ १० ॥
ये पीता हरिता वापि नरजातेरुदीरिताः ।
ये शुक्लाश्च महान्तो वा रक्षोजातेः शुभप्रदाः ॥ ११ ॥
( १ ) पशुवस्तुलयं इति (क) पुस्तक पाठः ।

यानयुक्तिः । २१५
यो मोहादथवाज्ञानाद्दलिमन्यं प्रयच्छति ।
वध एव फलं तस्य नान्यत् किञ्चित् फलं भवेत् ॥ १२ ॥
इति श्रीभोजराजोये युक्तिकल्पतरौ अजादि लक्षणम् ।
अथ चतुष्पद्यानोद्देशः ।
ये ब्रह्मजात्यादि विभेदतोऽमी,
मया निरुक्ता इह वाजिमुख्याः ।
दिशानया सर्व्वचतुष्पदानां ;
भेदो विधेयो विदुषादरेण ॥ १३ ॥
यथा यथाश्वादिकपोषणेन,
यानेन वा दोष गुणौ भवेताम् ।
तथा तथैवान्य चतुष्पटानां ;
प्रकीर्त्तितौ दोषगुणौ बुधेन ॥ १४ ॥
वरमयानमपोषणमेव वा वरमिवान्य शरीर मपोषणम् ।
नखलु दोषयुतं चतुष्पदं स्पृशति पश्यति शोभनचेतनः ॥ १५ ॥
सुराविन्दूर्

२१६ युक्तिकल्पतरौ—
अथ द्विपद्यानोद्देशः ।
मानुषैः पक्षिभिर्वापि तथान्यैर्द्विपदैरपि ।
यानं स्याद्द्विपदं नाम तस्य भेदो ह्यनेकधा ॥ १७ ॥
हंसैर्मयूरैः कङ्कालैरन्यैर्वापि विशेषतः ।
सामान्यञ्च विशेषश्च तस्य भेदो द्विधा भवेत् ॥ १८ ॥
तत्र सामान्यम् ।
यथा,—
यानं यद्द्विपदाभ्यां सत्तद्दोलादि कमुच्यते (१) ।
चतुर्भियुं क्ति संयुक्तैर्दण्डधातुगुणाम्बरैः ॥
दोलेति कथ्यते तेषां नियमोऽयं प्रदर्श्यते ॥ १९ ॥
तत्र समयः ।
उपेन्द्र मूलाद्भि शिवाग्निवर्जं,
शस्ते न्दुतारा (२) तिथि योगलग्ने ।
विष्टिक्षमापुत्र यमाह्ववर्जं ;
दोलादिकारोहणमाद्यमिष्टम् ॥ २० ॥
दण्डकाष्ठस्य नियमे नियमश्चात्र दण्डवत् ।
कनकं रजतं ताम्रं लौहं धातुचतुष्टयम् ॥ २१ ॥
चतुर्विधानां सुद्दिष्टं ब्रह्मादीनां यथाक्रमम्(मात्) ।
सुराणाम (३) सुराणाञ्च चातुर्वर्ण्यमुदाहृतम् ॥ २२ ॥
( १ ) यत्तद्द्यानादिकमुच्यते इति (क) पुस्तकपाठः ।
( २ ) भावा इति इति (ख) पुस्तक पाठः ।
( ३ ) गुह्यानाम् इति (ग) पुस्तक पाठः ।

यानयुक्तिः । २१७
त्रिहस्तसम्मितो मध्ये तदद्धं पार्श्वयोर्द्वयोः ।
विजयानाम दोलेयं विजयाय महोच्छिताम् ॥ २३ ॥
विजया मङ्गला क्रूरा शिवा लेशा शुभा क्रमात् ।
वितस्त्येकैकसंवृद्ध्या दोलाः षट् स्युः सुखान्नदाः (१) ॥ २४ ॥
कुम्भश्च पद्मकोषश्च शङ्खः पर्व्वत एव च ।
चतुर्विधानां दोलासुं कल्याणाय चतुष्टयम् ॥ २५ ॥
हंसः केकी शुको भृङ्गश्चतुष्टयमिदं क्रमात् ।
कुम्भाद्यग्रे निधातव्यं चतुर्विध महोच्छिताम् ॥
अत्रापि वक्रं(र्ग)विन्यासो विज्ञेयो नवदण्डवत् ॥ २६ ॥
भोजस्तु,—
गजः प्रस्थानदोलायां रणदोलासु(च) केशरी ।
मृगो भ्रमणदोलायां क्रीड़ादोलासु षट्पदः ॥ २७ ॥
भुजङ्गमः शत्रुराज्ये वृषभो दान-कर्मणि ।
दोलोपरि (पर्य्यु) परि न्यस्यो वहुभिर्मुनि°शासनम् ॥ २८ ॥
यद्वक्रदण्डं यानं स्यात् तत् पर्य्यङ्कमिति स्मृतम् ।
त्रिहस्तसम्मितो यानस्तदर्द्धपरिणाहवान् ॥ २६ ॥
पर्य्यङ्कः क्षेमनामायं भर्तुः सर्व्वार्थ-साधकः ।
क्षेमो(मे) मृत्युर्जयो दुःखश्चत्वारस्ते यथाक्रमम् ॥ ३० ॥
वितस्त्येकैक संवृद्ध्या यथा चाण्नं सङ्गिनः ।
मणिधातुगुणादीनां नियमः पूर्व्ववन्मतः ॥ ३१ ॥
विशेषमथ वक्ष्यामि पर्य्यङ्कस्य यथाक्रमम् ।
शुक्तिश्च गजदन्तश्च मृगशृङ्गं तथैव च ॥ ३२ ॥
( १ ) यथानन्दाः इति (क) पुस्तक पाठः ।
२८

२१८ युक्तिकल्पतरौ—
अनू(नृ)पादिकजातानां पर्यङ्केषु न्यसेत् क्रमात् ।
पद्मशङ्खगजाश्वालिशंसकोकशुकान् (१) क्रमात् ॥ ३३॥
आदित्यादि दशाजानां मणिरूपेण विन्यसेत् ।
महीन्द्राणां विशेषेण सिंहमानेव शस्यते ॥ ३४ ॥
निम्माणे शुक्तिदण्डाश्च राज्यभोगसुखप्रदाः ।
तदेवावक्रदण्डन्तु खट्वयानमिति स्मृतम् ॥ ३५ ॥
अस्यापि पूर्व्ववन्मानं मणिधात्त्वादि-निर्णयः ।
विशेषश्चरणोच्छ्रायः परिणाहार्द्ध-सम्मितः ।
तदेव चेन्निच्चरणं पोठयानमिति स्मृतम् ॥ ३६ ॥
तस्य भेदो द्विधा दण्डवक्रावक्र (२) प्रभेदतः ।
मानादिकं पूर्व्वतुल्यं विशेषाच्चतुरस्रता ॥ ३७ ॥
एवमन्यानि मिश्रानि यानानि विविधानि च ।
सामान्याख्यानि जानीयात् शिल्पिभिर्निर्मितानि वै ॥ ३८ ॥
मनोहरत्वं लघुता दृढतेति गुणत्रयम् ।
प्रोक्तं द्विपदयानानां सहजं भोजभूभुजा ॥ ३९ ॥
इति श्रीभोजराजोये युक्तिकल्पतरौ द्विपदयानपरीक्षा ।
—*—
अथ विशेष द्विपदयान कथनम् ।
राज्ञो यद्विपदं यानं विशेषाख्यमलं विदुः (३) ॥ ४० ॥
तद्यथा ।
चतुर्भिरुह्यते यत्तु चतुर्द्दोलं तदुच्यते ॥ ४१ ॥
(१) शुकाः इति (क) पुस्तक पाठः ।
(२) वक्रावक्र इति (ख) पुस्तकपाठः ।
(३) -मतद्विहः इति (ग) पुस्तक पाठः।

यानयुक्तिः । २१८
भोजस्तु,―
चतुर्भिर्वाहकैर्द्दण्डैः षड्भिः कुम्भैः सुसंस्थितैः ।
स्तम्भैरष्टाभिरुदितं चतुर्दोलमनुत्तमम् ॥ ४२ ॥
तद्भेदा जयकल्याण वीर-सिंहा यथाक्रमम् ।
चतुर्विधानां भूपानां चतुर्दोलाः प्रकाशिताः ॥ ४३ ॥
त्रिहस्त-सम्मितायामो द्विहस्त परिणाहवान् ।
हस्तद्वयोन्नतः प्रोक्तश्चतुर्दौलो(लो) जयाख्यया ॥ ४४ ॥
चतुर्हस्तायतो यस्तु सार्द्धदन्दस्तदन्यथा ।
चतुर्दोलः समाख्यातः कल्याणस्तावदुन्नतः (१) ॥ ४५ ॥
पञ्चहस्तायतो व(य)स्तु त्रिहस्तपरिणाहवान् ।
तावदेवोन्नतो वीर(२)श्चतुर्दोल उदाहृतः ॥ ४६ ॥
आयामपरिणाहाभ्यां चतुर्हस्तमितो हि यः ।
चतुर्दोलो ह्ययं सिंहस्तदर्द्धेनोन्नतः शुभः ॥ ४७ ॥
सर्व्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि निष्छदिः ।
आद्यः समरवर्षासु परः (श्च) केलिघनात्यये ॥ ४८ ॥
सर्व्वेषामेव काष्ठानां दण्डः स्यादङ्गवारणः ।
चन्दनेनैव घटना सर्व्वेषामुपयुज्यते ॥ ४६ ॥
लोमजं सर्व्ववस्त्रेषु (३) कनकं सर्व्वधातुषु ।
कुम्भश्च पद्मकोषश्च गिरिश्चेति यथाक्रमम् ॥ ५० ॥
त्रैदेशानां महीन्द्राणां चतुर्दोलेषु विन्यसेत् ।
दर्पणश्चार्द्धचन्द्रश्च हंसः केकी शुको गजः ॥
( १ ) स्तावदुल्लभः इति (क) पुस्तक पाठः ।
( २ ) धौरैः इति (ख) पुस्तक पाठः ।
( ३ ) शस्त्रेषु इति (ग) पुस्तक पाठः ।

२२० युक्तिकल्पतरौ-
अश्वः सिंहश्च तस्याग्रे आदित्यादि दशोत्तरान् ॥ ५१ ॥
मणि-नियमस्तु दण्डवत् ।
रक्तः शुक्लश्च पीतश्च कृष्णश्चैवस्तथारुणः ।
नीलः कपिल इत्युक्तः पताकानान्तु संग्रहः ।
चतुर्द्दोलः सपताकः शुभयानमिति स्मृतः ॥ ५२ ॥
मुक्तास्तबकैर्द्दशभिर्युक्तः स्याद्राजकेशानाम् ।
चामरदण्डैर्द्दशभिर्दिग्जयिनां चतुर्द्दोलः ॥ ५३ ॥
चासपक्षस्य पुच्छश्चेत् (१) सर्व्वोपरि परिन्यसेत् ।
यात्रासिद्धिरयं नाम्ना चतुर्द्दौलो महीभुजाम् ॥ ५४ ॥
अथ निष्कुदिः ।
स्तम्भाच्छादरहितो निष्कुदिरुक्तश्चतुर्द्दोलः ॥ ५५ ॥
मानं पूर्व्ववत् ।
स पुनर्द्विविधः प्रोक्तः सध्वजश्चाथ निर्ध्वजः ।
ध्वजान् षड़त न्यस्यन्ति षड्‌वर्ग(न्ध) विजयैषिणः ॥ ५६ ॥
तेषां मानन्तु चत्वारः स्वामिहस्तैकसम्मिताः ।
कोणेषु पश्चादग्रे च हस्तद्वयमितौ ध्वजौ ॥ ५७ ॥
सुवर्णं रजतं युग्मं त्रिविधानां महीभुजाम् ।
मणिचामरकुम्भानां खङ्गादीनां विनिश्चयः ॥ ५८ ॥
चतुर्द्दोलध्वजे राज्ञां विज्ञेयो नवदण्डवत् ।
निर्ध्वजे च चतुर्द्दोले मानमन्यतमं शृणु ॥ ५६ ॥
आयामपरिणाहाभ्यां चतुर्हस्तमितो हि यः ।
विजयो नाम विज्ञातश्चतुर्द्दोलो महीभुजाम् ॥ ६० ॥
( १ ) वासपक्षस्य पुच्छञ्चेत् इति (क) पुस्तक पाठः ।

यानयुक्तिः । २२१
विजयो मङ्गलो भव्यो वितस्त्येकैकवृद्धितः ।
त्रिविधानां महीन्द्राणां यानत्रयमुदाहृतम् ॥ ६१ ॥
अष्टाभिरुह्यते यस्तु अष्टदोलमुशन्ति(तं) च ।
सोपानद्वितयञ्चात्र विज्ञेयं शिल्प-निर्मितम् ॥ ६२ ॥
भोजस्तु,—
अष्टाभिर्वाहकैट्टण्डैः षड्भिस्तु दशभिर्घटैः ।
स्तम्भैस्तु दशभिर्ज्ञेयमष्टदोलं महीभुजाम् ॥ ६३ ॥
तद्भेदा जयकल्याणवीरसिंहा यथाक्रमम् ।
चतुर्विधानां भूपानां अष्टदोलाः प्रकाशिताः ॥ ६४ ॥
षड्भिर्हस्तैर्मितायामः परिणाहश्चतुर्भुजः ।
चतुर्हस्तोन्नतो राज्ञामष्टदोलं जयं विदुः (१) ॥ ६५ ॥
आयामपरिणाहाभ्यां पञ्चहस्तमितो हि यः ।
कल्याणाख्योऽष्टदोलोऽयं (२) चतुर्हस्तमितोन्नतिः ॥ ६६ ॥
सप्तहस्तायतः कार्य्ये प्रवरे पञ्चहस्तकः ।
पञ्चहस्तोन्नतो वीरश्चाष्टदोलो महीभुजाम् ॥ ६७ ॥
आयामपरिणाहाभ्यामष्टहस्तमितो हि यः ।
सिंहनामाष्टदोलोऽयं विज्ञेयः षड्भुजोन्नतः ॥ ६८ ॥
सर्व्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि निष्छदिः ।
काष्ठवस्त्रघटादीनां मणीनां चामरस्य च ॥ ६६ ॥
चतुर्द्दोलवदुन्नेयो नियमोऽन्योपि सूरिभिः ।
पूर्व्ववन्निष्छदेर्मानं (३) ध्वज-मानमिहोच्यते ॥ ७० ॥


( १ ) -च यां विदुः इति (क) पुस्तक पाठः ।
( २ ) सिंहनामाष्टदोलोऽयं इति (ख) पुस्तक पाठः ।
( ३ ) पूर्व्ववन्निष्छदिर्यानां इति (ग) पुस्तकपाठः ।

bahu-guṇam). Writing बहुप्रयोज्यं or वहुप्रयोज्यं? Usually in Sanskrit Devanagari transcription, it is written as बहुप्रयोज्यं or वहुप्रयोज्यं. Let's look closely at line 10: यानं वहुप्रयोज्यं वहुगुणमितज्जगाद वै व्यासः or यानं बहुप्रयोज्यं बहुगुणमितज्जगाद वै व्यासः? Let's write बहुप्रयोज्यं बहुगुणमितज्जगाद (or वहुप्रयोज्यं वहुगुणमितज्जगाद if keeping exact glyph, but Devanagari text uses ब). Wait, looking at दम्भादथवा in L16, there is no ब. Looking at भोजमते in L9, that's भ.

Let's check line 19:
नाप्रधाने निर्णयोऽस्ति तल्लिङ्गन्तु मनोज्ञता ॥ ७८ ॥
Wait, is it तल्लिङ्गन्तु or तल्लिङ्गं तु?
तल्लिङ्गन्तु - printed as one word with ङ्ग and न्तो / न्तु. Yes, तल्लिङ्गन्तु.

Let's check the prompt instructions:

  • Output line markers like , .
  • Output pure, clean Markdown in Unicode De

यानयुक्तिः । २२३
अथ निष्पद्यानोद्देशः । †
नौकाद्यं निष्पदं यानं तस्य लक्षणमुच्यते ॥ ७९ ॥
अश्वादिकन्तु यद्यानं स्थले सर्व्वं प्रतिष्ठितम् ।
जले नौकैव यानं स्यात्त स्तां यत्नतो वहेत् । ८० ॥
अथ कालः ।
सुवारवेला तिथि चन्द्र योगे,
चरे विलग्ने मकरादि षट्के ।
ऋट्वेऽन्य (१) सप्तव्यतिरेकतोऽन्ये ;
वदन्ति नौका घटना(का)दिकर्म्म ॥ ८१ ॥
अस्त्रिखरांश्रु सुधानिधि-पूर्व्वा,
मित्र धनाच्युतभे(ते) शुभलग्ने ।
तारक योगतिथौन्दुविशुद्धौ
नौगमनं शुभदं शुभवारि ॥ ८२ ॥
( १ ) ऋचेति सप्तव्यतिरेक इति (क) पुस्तक पाठः ।
† “दुर्गाणि विश्वा नावेव सिन्धुम्” ( वेदः ) ।
“समुद्र संयानम्”—नावाद

२२४ युक्तिकल्पतरौ—
वृक्षायुर्वेदगदिता वृक्षजातिश्चतुर्व्विधा ।
समासेनैव गदितं तेषां काष्ठं चतुर्व्विधम् ॥ ८३ ॥
तद्यथा ।
लघु यत् कोमलं काष्ठं सुघटं ब्रह्मजाति तत् ।
दृढाङ्गं लघु यत् काष्ठमघटं क्षत्रजाति तत् ॥ ८४ ॥
कोमलं गुरु यत् काष्ठं वैश्यजाति तदुच्यते ।
दृढाङ्गं गुरु यत् काष्ठं शूद्रजाति तदुच्यते ।
लक्षणद्वययोगेन द्विजातिः काष्ठसंग्रहः ॥ ८५ ॥
क्षत्रियकाष्ठैर्घटिता भोजमते सुखसम्पदं नौका ।
अन्ये लघुभिः सुदृढैः विदधति जलदुष्यदे(१)नौकाम् ॥ ८६ ॥
विभिन्नजातिद्वयकाष्ठजाता न श्रेयसे नापि सुखाय नौका ।
नैषा चिरं तिष्ठति पच्यते च विभिद्यते वारिणि मज्जते च ॥८७॥
न सिन्धुगायार्हति (२) लौहबन्धं,
तल्लोह-कान्तैः छ्रियते हि लौहम् ।
विपद्यते तेन जलेषु नौका ;
गुणेन बन्धं निजगाद भोजः ॥ ८८ ॥
अथ लक्षणानि ।
सामान्यञ्च विशेषञ्च नौकाया लक्षणद्वयम् ॥ ८६ ॥
तत्र सामान्यम् ।
राजहस्तमितायामा तत्पादपरिणाहिनौ ।
तावदेवोन्नता नौका क्षुद्रेति गदिता बुधैः ॥ ९० ॥
( १ ) जलदुष्यदैः इति (क) पुस्तकपाठः ।
( २ ) न सिन्धुगाच्छर्हति लौहबन्धं इति (ख) पुस्तक पाठः ।

अतः सार्द्धमितायामा तदर्द्ध-परिणाहिनी ।
त्रिभागेणोत्थिता नौका मध्यमेति प्रचक्षते ॥ ६१ ॥
क्षुद्राथ मध्यमा भीमा चपला पटलाऽभया (१)।
दीर्घा पत्रपुटा चैव गर्भरा मन्थरा तथा ॥ ६२ ॥
नौकादशकमित्युक्तं राजहस्तैरनुक्रमम् ।
एकैकवृद्धैः(वृद्धेः) सार्द्धैश्च विजानीयाद् द्वयं द्वयम् ॥ ६३ ॥
उन्नतिश्च प्रवीणा च हस्तादर्द्धांश-सम्मिता ।
अत्र भीमाऽभया चैव गर्भरा (२) चाशुभप्रदा ॥ ६४ ॥
मन्थरा परतो यास्तु तासामेवाम्बुधौ गतिः ।
तासां गुणस्तु संक्षेपात् दृढता च प्रकीर्त्तिता ॥ ६५ ॥
अथ विशेषः ।
लौहताम्रादिपत्रेण कान्तलोहेन वा तथा ।
दीर्घा चैवोन्नता चेति विशेषे द्विविधा भिदा ॥ ६६ ॥
तत्र दीर्घा यथा,—
राजहस्तद्व

२२६ युक्तिकल्पतरौ—
लोलायाः फलमाधत्ते एवं सर्व्वासु निर्णयः ।
वेगिन्याः परतो या तु सा शिवाद्योत्तरा यथा ॥ १ ॥
भोजोऽपि,—
नौकादैर्घ्यं यथेच्छं स्यात् तत्रैतानि विवर्ज्जयेत् ।
हस्तसंख्या परित्याज्या वसुवेद (१) ग्रहोत्तरे ॥ २ ॥
षष्ठुत्तरमिता नौका कुलं हन्ति वलं धनम् ।
नवतेरुत्तरे यापि या चत्वारिंशतः परा ॥ ३ ॥
एतेन चत्वारिंशत्-षष्टि नवति (२) संख्या तत्परतोऽपि ।
यावदपरदशकं तावदेव तत्फलमिति ॥ ४ ॥
इति दीर्घा ।
अथोन्नता ।
राजहस्तद्वयमिता तावत्प्रसरणोन्नता ।
इयमूर्द्धाभिधा (३) नौका क्षेमाय पृथिवी-भुजाम् ॥ ५ ॥
ऊर्द्ध्वानूर्द्धा स्वर्णमुखी गर्भिणी मन्थरा तथा ।
राजहस्तैकैक वृद्ध्या नाम पञ्चतयं भवेत् ॥ ६ ॥
अत्रानूर्द्धा गर्भिणी च निन्दितं नामयुग्मकम् ।
मन्थरायाः (४) परा यास्तु ताः शुभाय यथोद्भवम् ॥ ७ ॥
भोजोऽपि,—
वाणाग्न्युत्तरतो मानं नौकानां शुभं वहेत् ।
पञ्चाशदूर्द्धादुत्त्रासं धननाशं त्रयोऽर्द्धतः ॥ ८ ॥
इत्युन्नता ।
(१) वसुदेव इति (क) पुस्तकपाठः ।
(२) न भवति इति (ख) पुस्तकपाठः ।
(३) इयमूर्द्धाविधा इति (ग) पुस्तकपाठः ।
(४) मन्थरीयाः इति (घ) पुस्तकपाठः ।

धातु-नौयानयुक्तिः । २२७
धात्वा‌दीनामतो वक्ष्ये निर्णयं तरि-संश्रयम् ।
कनकं रजतं ताम्रं त्रितयं वा यथाक्रमम् ॥ ९ ॥
ब्रह्मादिभिः परिन्यस्य नौका चित्रण-कर्मणि ।
चतुःशृङ्गा त्रिशृङ्गाभा (१) द्विशृङ्गा चैकशृङ्गिणी ॥ १० ॥
सितरक्तापीतनीलवर्णान् दद्याद् यथाक्रमम् ।
केशरी महिषो नागो द्विरदो व्याघ्र एव च ॥ ११ ॥
पक्षी भेको मनुष्यश्च एतेषां वदनाष्टकम् ।
नावां (२) मुखे परिन्यस्य आदित्यादि-दशाभुवाम् ॥ १२ ॥
कलसो दर्पणश्चन्द्रस्त्रैदशानां महीभुजाम् ।
हंसः केकी शुकः सिंहो गजोऽहिव्याघ्र षट्पदौ ॥ १३ ॥
आदित्यादिदशा जात(ता) नौकोपरि परिन्यसेत् ।
चतुस्त्रित्वेक विमिता चतुर्व्वर्णा यथाक्रमम् ॥ १४ ॥
आच्छादनं चतुष्पाते कमला