सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 259, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 259

यानयुक्तिः । २१८
भोजस्तु,―
चतुर्भिर्वाहकैर्द्दण्डैः षड्भिः कुम्भैः सुसंस्थितैः ।
स्तम्भैरष्टाभिरुदितं चतुर्दोलमनुत्तमम् ॥ ४२ ॥
तद्भेदा जयकल्याण वीर-सिंहा यथाक्रमम् ।
चतुर्विधानां भूपानां चतुर्दोलाः प्रकाशिताः ॥ ४३ ॥
त्रिहस्त-सम्मितायामो द्विहस्त परिणाहवान् ।
हस्तद्वयोन्नतः प्रोक्तश्चतुर्दौलो(लो) जयाख्यया ॥ ४४ ॥
चतुर्हस्तायतो यस्तु सार्द्धदन्दस्तदन्यथा ।
चतुर्दोलः समाख्यातः कल्याणस्तावदुन्नतः (१) ॥ ४५ ॥
पञ्चहस्तायतो व(य)स्तु त्रिहस्तपरिणाहवान् ।
तावदेवोन्नतो वीर(२)श्चतुर्दोल उदाहृतः ॥ ४६ ॥
आयामपरिणाहाभ्यां चतुर्हस्तमितो हि यः ।
चतुर्दोलो ह्ययं सिंहस्तदर्द्धेनोन्नतः शुभः ॥ ४७ ॥
सर्व्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि निष्छदिः ।
आद्यः समरवर्षासु परः (श्च) केलिघनात्यये ॥ ४८ ॥
सर्व्वेषामेव काष्ठानां दण्डः स्यादङ्गवारणः ।
चन्दनेनैव घटना सर्व्वेषामुपयुज्यते ॥ ४६ ॥
लोमजं सर्व्ववस्त्रेषु (३) कनकं सर्व्वधातुषु ।
कुम्भश्च पद्मकोषश्च गिरिश्चेति यथाक्रमम् ॥ ५० ॥
त्रैदेशानां महीन्द्राणां चतुर्दोलेषु विन्यसेत् ।
दर्पणश्चार्द्धचन्द्रश्च हंसः केकी शुको गजः ॥
( १ ) स्तावदुल्लभः इति (क) पुस्तक पाठः ।
( २ ) धौरैः इति (ख) पुस्तक पाठः ।
( ३ ) शस्त्रेषु इति (ग) पुस्तक पाठः ।