युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 261, कुल 278 में से
संदर्भ में पढ़ेंयानयुक्तिः । २२१
विजयो मङ्गलो भव्यो वितस्त्येकैकवृद्धितः ।
त्रिविधानां महीन्द्राणां यानत्रयमुदाहृतम् ॥ ६१ ॥
अष्टाभिरुह्यते यस्तु अष्टदोलमुशन्ति(तं) च ।
सोपानद्वितयञ्चात्र विज्ञेयं शिल्प-निर्मितम् ॥ ६२ ॥
भोजस्तु,—
अष्टाभिर्वाहकैट्टण्डैः षड्भिस्तु दशभिर्घटैः ।
स्तम्भैस्तु दशभिर्ज्ञेयमष्टदोलं महीभुजाम् ॥ ६३ ॥
तद्भेदा जयकल्याणवीरसिंहा यथाक्रमम् ।
चतुर्विधानां भूपानां अष्टदोलाः प्रकाशिताः ॥ ६४ ॥
षड्भिर्हस्तैर्मितायामः परिणाहश्चतुर्भुजः ।
चतुर्हस्तोन्नतो राज्ञामष्टदोलं जयं विदुः (१) ॥ ६५ ॥
आयामपरिणाहाभ्यां पञ्चहस्तमितो हि यः ।
कल्याणाख्योऽष्टदोलोऽयं (२) चतुर्हस्तमितोन्नतिः ॥ ६६ ॥
सप्तहस्तायतः कार्य्ये प्रवरे पञ्चहस्तकः ।
पञ्चहस्तोन्नतो वीरश्चाष्टदोलो महीभुजाम् ॥ ६७ ॥
आयामपरिणाहाभ्यामष्टहस्तमितो हि यः ।
सिंहनामाष्टदोलोऽयं विज्ञेयः षड्भुजोन्नतः ॥ ६८ ॥
सर्व्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि निष्छदिः ।
काष्ठवस्त्रघटादीनां मणीनां चामरस्य च ॥ ६६ ॥
चतुर्द्दोलवदुन्नेयो नियमोऽन्योपि सूरिभिः ।
पूर्व्ववन्निष्छदेर्मानं (३) ध्वज-मानमिहोच्यते ॥ ७० ॥
( १ ) -च यां विदुः इति (क) पुस्तक पाठः ।
( २ ) सिंहनामाष्टदोलोऽयं इति (ख) पुस्तक पाठः ।
( ३ ) पूर्व्ववन्निष्छदिर्यानां इति (ग) पुस्तकपाठः ।