सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

१८८ युक्तिकल्पतरो—
तत्राद्यौ विदितार्थौ तु शेषाणां लक्षणं शृणु ।
त्रयः पादाः सिता यस्य कृष्णश्चैकोऽभिजायते ॥ ८२ ॥
त्रयो वाप्यसिता यस्य एकः शुक्लोऽभिजायते (१) ।
मुषलो नाम पापोऽयं दूरे त्याज्यो हयाधमः ॥ ८३ ॥
विकटो विषमो यस्य दशनः स करालकः ।
करालो कुरुते नाशं भर्तुरत्र न संशयः ॥ ८४ ॥
कृष्णतालुर्हयो नाशं कुरुते नात्र संशयः ।
विषदन्तो भवेद्यस्तु कृष्णतालु र्न दुष्यते ॥ ८५ ॥
कर्णान्ते चूलिकान्ते च शृङ्गवल्लक्ष्यते यदि ।
स शृङ्गी कुरुते नाशं राष्ट्रस्य च कुलस्य च ॥ ८६ ॥
एकाण्डोऽजातकाण्डश्च हीनाण्डोऽभ्यधिकाण्डकः ।
घण्डी (२) च कम्बली चैव षड़ेते पापकृत्तमाः ॥ ८७ ॥
इत्यश्वस्य दोषाः ।
अथाश्वस्यारिष्टम् ।
सुस्थस्यापि च नेत्रान्ते स्यातां नीले च वाजिनः ।
तथैव तस्य जानीयात् भवेन्मृत्युर्द्विवार्षिकी ॥ ८८ ॥
नीलपोते च नेत्रान्ते त्रिभिर्मासैर्वपुःक्षयः ।
यस्य नेत्रान्तरे रेखा वहुवर्णा प्रजायते ॥ ८६ ॥
विशेषाद्वाजिनो ज्ञेयं तस्यायुः पञ्चमासिकम् ।
जिह्वायां जायते विन्दुरकस्माद्यदिवाजिनः ॥ ६० ॥
मासैकं जीवितं तत्र पोते मासद्वयं तथा ।
रक्ते मृत्युस्त्रिभिर्मासैश्चतुर्भिञ्च विचितके ॥ ६१ ॥
(१) विजायते इति (क) पुस्तक पाठः ।
(२) वष्टी इति (ख) पुस्तक पाठः ।

अश्वयुक्तिः । १८८
पञ्चभिर्नीलवर्णे च षड्भिर्वभ्र् (१) समाकृतौ ।
सप्तभिः पाटलाकारे चणकाभे तथाष्टभिः ॥ ९२ ॥
नवभिश्च हरिद्राभे दशभिर्जतुकोपमे ।
एकादशे सुवर्णाभे वत्सरेण हिमद्युतौ ॥ ९३ ॥
यस्य श्वासो भवेदुष्णः शरीरं पुलकान्वितम् (२) ।
जिह्वा हि मलिनाकारा मासषट्कं स जीवति ॥ ९४ ॥
जिह्वाग्रे पिड़का यस्य पादान्ते च तथोदरे ।
मूत्रं करोति रक्तं वा मासषट्कं स जीवति ॥ ९५ ॥
कर्णयोः क्षतजं यस्य नेत्राभ्यां वा प्रवर्त्तते ।
वाजिनः पित्तग्रस्तस्य दश मासान् स जीवति ॥ ९६ ॥
यस्य नेत्रे हरिद्राभे यस्य वातार्द्दितस्य च ।
तस्यायुः सप्तमासोयं बहुवर्णे तथा दिनैः ॥ ९७ ॥
यस्यैकं लोचनं हीनं द्वितीयं रक्तसन्निभम् ।
पुटान्ते च स विज्ञेयः पीताभे (३) मासजीवकः ॥ ९८ ॥
(एतानि अरिष्टानि वक्त्रदोषजानि ।)
स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतोऽश्वस्य वह्निजाः ।
निर्गच्छन्तः प्रभोर्नाशं ते वदन्ति निशागमे ॥ ९९ ॥
अश्वशालां समासाद्य यदा च मधुमक्षिकाः ।
मधुजालं प्रबध्नन्ति तदाश्वान् (४) घ्नन्ति कृत्स्नशः ॥ १०० ॥
इत्यरिष्टानि ।
(१) वक्र इति (क) पुस्तक पाठः ।
(२) पुलकाङ्कितम् इति (ख) पुस्तक पाठः ।
(३) पीताभो इति (ग) पुस्तक पाठः ।
(४) तदश्वान् इति (घ) पुस्तकपाठः ।

१८० युत्तिकल्पतरो—
अथ हय क्रियाकालः ।
खवरुण गुरुपार्श्वास्थ्येषु भौमार्कवारे,
खतिथि करणताराचन्द्रयोगोदयेषु ।
शुभमिह हयः काष्ठं (१) कार्य्यमार्य्येण बुद्ध्वा ;
न शनिरविकुजानां वासरे नोयतारे ॥ १ ॥
इति हयक्रियाकालः ।
अथ हयारोहण ज्ञानम् ।
चलकिशलयपादः कर्णमध्यैक दृष्टि-,
र्नचलति कटिदेशः स्वासने संस्थितो यः ।
हयहृदयगतिज्ञः स्थानदण्डावतापः (२) ;
स खलु तुरगयाता पूज्यते पार्थिवेन्द्रैः ॥ २ ॥
मेरुः स्थिरो यस्य चलौ च पादौ,
त्रिकोन्नतं संहतमासनञ्च ।
स वाजिवाहः प्रथितः पृथिव्यां ;
शेषा नरा भारकरा हयानाम् ॥ ३ ॥
इति हयारोहणं ज्ञानम् ।
अथ हयताड़नविधिः ।
रक्तकोष्ठे (३) मुखे चौष्ठे गले पुच्छे च ताड़येत् ।
भीते वक्षःस्थलं हन्यादृक्तं चोन्मार्गामिनः ॥ ४ ॥

( १ ) काष्ठं इति (क) पुस्तक पाठः ।
( २ ) स्थानदण्डावपाती इति (ख) पुस्तक पाठः ।
( ३ ) कण्ठे इति (ग) पुस्तक पाठः ।

अश्वयुक्तिः । १८१
कुपिते पुच्छसंस्थानं भ्रान्ते जानुद्वयं तथा ।
सर्व्वस्या(स्य)प्राप्तदण्डस्य दण्डमेकं निपातयेत् ॥ ५ ॥
यद्यत्प्रस्खलते गात्रं तत्र दण्डं निपातयेत् ।
अस्थानदण्डपाताच्च बहुदोषः प्रजायते ।
तस्मान्निरोच्य कर्त्तव्यं हये दण्डनिपातनम् ॥ ६ ॥
इति हय ताड़नविधिः ।
अथ हयधावनविधिः ।
हस्तैश्चतुर्विंशतिभिर्धनुर्दण्ड उदाहृतः ।
अक्ष्णो र्निमेषणान्यष्टौ मात्रा प्रोक्ता विचक्षणैः ॥ ७ ॥
मात्रा षोड़शकेनाश्वो यो धावति धनुःशतम् ।
तमुत्तमोत्तमं विद्याद्वायुवेगं महाजवम् (१) ॥ ८ ॥
विंशत्या मध्यमो ज्ञेयो ह्यतोऽन्ये चाधमा मताः ।
नभस्याश्वयुजे मासि नैवाश्वान् वाहयेन्नृपः ॥ ९ ॥
वज्राग्निसदृशं पित्तं श्रमात् कुप्यति वाजिनाम् ।
कार्य्येण महता वापि योज्यो मासि तु कार्त्तिके ॥ १० ॥
हेमन्ते शिशिरे योगो वसन्ते च यदृच्छया ।
बालं वृद्धं कृशं रुग्णं दत्तस्नेहं वृहद्गलिम् (२) ।
पूर्णातिरिक्त कोष्ठञ्च गुर्ब्बिणीञ्च न वाहयेत् ॥ ११ ॥
इति हयधावनविधिः ।
( १ ) महाजरम् इति (क) पुस्तक पाठः ।
( २ ) बालो वृद्धः कृशो रोगी दग्धस्नेहो बृहद्गलिः इति (ख) पुस्तक
पाठः ।

१८२ युक्तिकल्पतरौ-
अथ हयरक्तमोक्षणविधिः ।
द्वासप्ततिसहस्राणि नाड़ीनां सम्भवन्ति हि ।
वाजिनामिह सर्वेषामाशु रक्तं व्यवस्थितम् ॥ १२ ॥
तासां निर्मोक्षणार्थाय दाराख्यष्टौ वदाम्यहम् ।
यैर्याति कुत्सितं रक्तं सर्व्वदेहसमुद्भवम् ॥ १३ ॥
कण्ठे कक्षे लोचनयो रंसयोश्च मुखे तथा ।
अण्डयोरथ पादेषु पार्श्वयोरुभयोरपि ॥ १४ ॥
एतद्धर्म (१) सुविज्ञेयं वाजिनां भिषगुत्तमैः ।
अन्ये सप्तदशान्याहुः शिराद्वाराणि वाजिनः ॥ १५ ॥
येषु रक्तं हृतं सद्यः प्रकरोति ततः सुखम् ।
गुल्फे गले तथा मेढ़े कक्षान्ते चैव पत्रके ॥ १६ ॥
गुदे पुच्छेऽथ वस्तौ च जङ्घयोः सर्व्वसन्धिषु ।
जिह्वायाञ्चाधरे चौष्ठे नेत्रयोरुभयोरपि ॥ १७ ॥
कर्णमूले मणौ गण्डे (२) रुधिरं स्रावयेद्भिषक् ।
सौश्रुतमानप(पा)लेन त्याज्यं रक्तं तुरङ्गमाणम् ॥ १८ ॥
तद्यथा ।
पलं शतं मुखे त्याज्यं (३) कक्षयोश्चैकमेव च ।
शताद्र्धं नेत्रदेशाच्च मेढ्रदेशात् तथैव च ॥ १९ ॥
गण्डयोरण्डयोश्चैव स्रावयेत् पञ्चविंशतिम् ।
द्वादशैव गुदे प्राङ्गुरश्व(४) शास्त्रविचक्षणाः ॥ २० ॥
(१) एतद्धर्म्मं सुविज्ञेयो वाजिनां भिषगुत्तमम् इति (क) पुस्तक पाठः ।
(२) कर्णमूले मने प्रान्ते इति (ख) पुस्तक पाठः ।
(३) न्याय्यं इति (ग) पुस्तक पाठः ।
(४) प्राङ्गुरश्व इति (घ) पुस्तक पाठः ।

अश्वयुक्तिः । १८३
पैत्तिकं कालिकं विद्याद्वाते विद्यात् कफेऽनिलम् ।
पिच्छिलं श्लेष्मलं पाण्डु कषायोदकवच्च यत् ॥ २१ ॥
इति हय रक्त-मोक्षणविधिः ।
अथ हय-ऋतुचर्या ।
न प्राज्ञो वाहयेदश्वान् प्रावृट्काले कथञ्चन ।
यदौच्छेदस्मृतं (१) तस्य वाहनं दशमासिकम् ॥ २२ ॥
कूपोदकं कटुकतैल-निवात(ह्र)गेहं,
शस्तं पलार्द्धलवणं दिवसान्तरेण ।
तत्रान्यथा सति सुखामयवौर्य्यहानि-
र्मुख्यैर्बलैर्विरहितस्तु वयो (२) विनश्येत् ॥ २३ ॥
शरदि गुड़घृतं (३) पयः प्रशस्तं,
शरदि सिताष्टपल प्रमाणमच्छम् ।
मधुरमथ जलं सरोवरात्थं ;
घृतयुतनील सुकुष्टकाश्च (४) भोज्याः ॥ २४ ॥
हेमन्तकाले घृत तैलमाषा(षाः),
निर्वातसंस्था च पयो यथेच्छम् ।
शनैः शनैर्वाहनकर्मकुर्य्याद् ;
यवांश्च पक्त्वा (५) वितरेद्बु विधिज्ञः ॥ २५ ॥
( १ ) यदौच्छेदग्रतः इति (क) पुस्तक पाठः ।
( २ ) रगो इति (ख) पुस्तक पाठः ।
( ३ ) युतं इति (ग) पुस्तक पाठः ।
( ४ ) मुकुन्दकाश्च इति (घ) पुस्तक पाठः ।
( ५ ) मुक्ता इति (च) पुस्तक पाठः ।
२५

१८४          युक्तिकल्पतरौ—
शिशिरे तैल पलाष्टकं कटिख्यं ,
दिनसप्तावधि पाययेत् तुरङ्गान् ।
तदनु प्रातर्भोजयेद् यवांश्च ;
यवयवसांश्च तथाऽमृतस्वरूपान् ॥ २६ ॥
यस्य दत्ता यवाभोज्ये शिशिरे समुपस्थिते ।
अकृत्वापि क्रियाः सर्व्वाः स हयः सुखमृच्छति ॥ २७ ॥
वसन्ते संप्राप्ते निजसुखवशाद्वाह्य हयान्,
घृतं तैलं शस्तं सकलविधिरुक्तोऽपि च मतः ।
पयो दद्यादस्मै सलवणमथो वाहनविधि- ;
भृशं योज्यस्तेनाब्दमपि सुखमिच्छेद्धयवरः ॥ २८ ॥
वसन्तसमये योऽश्वः स्थाने तिष्ठति बन्धने ।
तस्योत्साहः प्रणश्येत सालस्यं जायते वपुः ॥ २९ ॥
ग्रीष्मे घृतं चतजमोक्षणघर्म्मशान्तिं,
सुच्छायवन्धन-विमर्द्दन-शीततोयम् ।
दूर्व्वा तृणं लघु च कोमलमन्यदेव ;
यत् किञ्चिदेवमुपयुक्तमिदं वदन्ति ॥ ३० ॥
भोजेन तु हयलक्षणमन्यथोक्तम् ।
तद्यथा,—
स्निग्धाङ्गो लघुतरलोमकस्तु पुच्छो,
दीर्घास्यास्थिनयनकेश पृष्ठवंशः (१) ।
रक्तोष्ठः पृथुलनितम्बभारर(व)क्षा ;
राजार्हो भवति तुरङ्गमः प्रशस्यः ॥ ३१ ॥


(१) स्निग्धा......कर्ण पुच्छोदीर्घास्य विनयनकेश पृष्ठवंशः इति (क) पुस्तक पाठः ।

अश्वयुक्तिः । १८५
नाभि(मेरा)मारभ्य देहस्तु द्विधा पूर्ब्बापरक्रमात् ।
पूर्ब्बकायस्थिता रक्ताः शुभाय हय-संस्थिताः ३२ ॥
अधः काये स्थिता रक्ताः अधमत्व-प्रकाशकाः ।
शक्तीनां वैपरीत्येन प्रशस्त-फलमादिशेत् ॥ ३३ ॥
वात्स्यस्तु ,—
ब्रह्मादि-जातिभेदेन हयजातिश्चतुर्विधा ॥ ३४ ॥
तद्यथा,—
ये शुक्लाः सुविमलपुष्पगन्धका वा,
शुद्धाङ्गाः सघृणसदुष्ण भोजिनो वा ।
अक्रुद्धाः समरगता भृशञ्च पुष्टास्ते विप्राः ;
क्षितिपति-वाहनेऽति योग्याः ॥ ३५ ॥
ये रक्ताः सद्गुरुगन्धयोऽहता वा,
संरुष्टा बहुतरभोजिनो बलाढ्याः ।
अश्रान्ताः सकलगुणग्रहाः प्रवीणाः ;
विज्ञेया विधिकरजात-जातयस्ते ॥ ३६ ॥

१८६ युक्तिकल्पतरौ—
अन्यत्रतु।
सात्त्विका राजसाश्चेति तामसाश्चेति ते हयाः ॥ ४१ ॥
ये शुद्धवर्णा भृशवेगयुक्ता अश्रान्ति-भाजो वहुभोगिनश्च ।
अक्रोधशीलाः समरेऽतिरुष्टास्ते सात्त्विका भूप तुरङ्गमाः स्युः ॥४२॥
ये रक्तवर्णा गुरुवेगरोषाः कषातिघातं (१) न हि ये सहन्ते ।
येऽमी वलाढ्याः खलु दीर्घदेहास्ते राजसा भूप तुरङ्गमाः स्युः ॥४३॥
ये कृष्णवर्णास्तनुरोषवेगा अल्पाशिनो लक्षणलक्षिताश्च ।
ये दुर्बलाः सर्व्वगुणैर्विहीनास्ते तामसा भूप तुरङ्गमाऽधमाः ॥४४॥
द्वयोर्लक्षण सम्बन्धात् द्विगुणो वाजिमध्यमः ।
त्रयाणां गुणसम्बन्धात् त्रिगुणो वाजिनिन्दितः ॥ ४५ ॥
पराशर संहितायान्तु,—
पृथिवि-वायुतेजः खैः पञ्चभिस्तुरगाश्रितैः ।
उल्लक्षणैः पञ्चधा भेदाः पराशरमता यथा ॥ ४६ ॥
ये स्थूलाः श्रमसहदेहरूपभाज-
श्चाक्रान्ता बहुतर भोजनाश्च दीर्घाः ।
अक्रुद्धाः समरगतास्तु रोषभाजो ;
भौमास्ते घनगुरुघर्घरस्वरास्तु ॥ ४७ ॥
ये श्लथाङ्गास्तनुवलाः श्रमसह कलेवराः ।
अक्रोधवेगाः स स्वप्ना (ङ्गा) आप्यास्ते तुरगाधमाः ॥ ४८ ॥
ये वातवेग-प्रतिमोग्रवेगाः शुष्का भृशं दीर्घकलेवराश्च ।
अश्रान्तिभाजो वहुदूरगाश्च ते वायवा वाजिवराः प्रदिष्टाः ॥ ४६ ॥
ये क्रोधशीला भृशवेगयुक्ताः,
मुक्ता दिनात् क्रोशशतं व्रजन्ति।


(१) कलाभिघातं इति (क) पुस्तक पाठः ।

ते तैजसाः पुण्यवतां प्रदेशे ;
भवन्ति पुण्यैरपि ते मिलन्ति ॥ ५० ॥
एको यदा तैजससंज्ञकोऽश्वः,
किं कार्य्यमन्यैस्तुरगाधमैस्तु ।
शुद्धं यदा हौरखखण्डमेकं ;
किं कार्य्यमन्यैर्मणिभिर्विचित्रैः ॥ ५१ ॥
उत्प्लुत्य ये वाजिवरा व्रजन्ति क्रुद्धा भृशं वेगसमन्विताश्च ।
ये लङ्घयन्तः परिखामपारां ते गागनाः पुण्यतमाः प्रदिष्टाः ॥ ५२ ॥
द्वयोर्लक्षणसम्बन्धात् तुरगः स्याद् द्विभौतिकः ।
स्वजातिगुणभूतानां हयानां वाहनं शुभम् ॥ ५२ ॥
असञ्जातिगुणादीनां वाहनं क्लेशकारिणम् ।
एषां चिकित्सा न प्रोक्ता ग्रन्थविस्तार-सम्भवात् ॥ ५४ ॥
शालिहोत्रादिविज्ञानात् तद्विज्ञेयं यथोत्तरम् ।
असम्भवे (१) हि दुष्टाश्वं वाहयेदिति चेत् तदा ॥ ५५ ॥
तिलं सकाञ्चनं दद्याल्लवणं वा गुडान्वितम् ।
रेवन्तं (२) पूजयेद्वापि निजं निर्मन्थयेत् तदा ।
दद्यात् ताम्रपलं वापि अभावे सर्व्वकर्मणः ॥ ५६ ॥
एवमन्यत्रापि ।
काञ्चनं रजतं ताम्रं लौहमेतद् यथाक्रमम् ।
ब्रह्मादि-जातिदोषाणां देयमेतत्प्रशान्तये ॥ ५७ ॥
अभावेऽपि च सर्व्वेषां ताम्रेण स्यात् प्रतिक्रिया ॥ ५८ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ हय-परीक्षा (क) ॥ ० ॥
( १ ) असम्भवेति इति (क) पुस्तक पाठः ।
( २ ) वेमत्थं इति (ख) पुस्तक पाठः ।

  • तुरगतत्त्वं सर्व्वं शालिहोत्रीये, श्रीमज्जयन्त-नकुल-रचिताश्ववैद्यकेऽनुसन्धेयम् ।

१८८ युक्तिकल्पतरौ—
अथ गज परीक्षा।
तत्र कालः।
ऐन्द्रमित्रवरुणानिल पुष्याचन्द्रतोयरवि वारिजतारे।
सूर्य्य-शुक्र गुरु सोमजवारे (१) श्रेयसे भवति कुञ्जरयानम् ॥ ५६ ॥
लग्ने चरे शुभसमाश्रित वीक्षिते वा.
चन्द्रस्य दृष्टिरिभ-यानविधौ विरुद्धा।
सौम्ये दिने करनिश्राटवसुश्रवण्यतोयेश-
मैत्र (२) मदितिश्च शुभग्रहाहः ॥ ६० ॥
स्यात्कुञ्जरक्रयणदर्शनदानकालः
शेषेषु दुःखफलमार्कसुतेऽह्नि (३) चैव।
गजानामष्टधा भेदः संक्षेपेण प्रकाश्यते।
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ६१ ॥
पुष्यदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः।
एषां वंशप्रसूतत्वात्(ताद्वा) गजानामष्टजातयः ॥ ६२ ॥
ये कुञ्जराः पाण्डुरसर्व्वदेहाः सुदीर्घदन्ताः सितपुष्पदन्ताः।
आलोमशा अल्पभुजो वलाढ्या महाप्रमाणा लघुपृष्टलिङ्गाः ॥६३॥
क्रुद्धाः समौके मृदवोऽन्यकाले नद्यम्बुपाना (४) बहुलोग्रदानाः।
विस्तीर्णदानास्तनुलोमपुच्छा ऐरावतस्याभिजनप्रसूताः ॥ ६४ ॥

( १ ) सौम्यवासरे इति (क) पुस्तक पाठः।
( २ ) सामिदिनेकरनिश्राटवसुश्रवण्यतोयेश मैद्र इति (ख) पुस्तक
पाठः।
( ३ ) सुताह्नि चैव इति (ग) पुस्तक पाठः।
( ४ ) लघ्वम्बु पाना इति (घ) पुस्तक पाठः।

अश्वयुक्तिः । १८९
तेष्वेव सर्वेषु विशुद्धवर्णा अतीव वृत्ताः प्रभवन्ति मुक्ताः ।
नाल्पेन पुण्येन महीपतीनां स्पृशन्ति भूमण्डलमध्यमेते ॥ ६५ ॥
दन्ता विभग्ना अपि युद्धरङ्गे पुनः प्ररोहन्ति पुरैव तेषाम् ।
ये कुञ्जराः कोमलसर्व्वदेहाः पुच्छा न दण्डाः खरग(द)ण्डदेशाः ॥ ६६॥
स्रवन्मदाः सन्ततरोषभाजोऽमर प्रियाः सर्व्वभुजो वलाढ्याः ।
सुतीक्ष्णदन्ता रसना गकानां ते पुण्डरीक प्रवरप्रसूताः ।
ते पद्मगन्धं विसृजन्ति रेतो दानञ्च नैषां वमथुः प्रभूता ॥ ६७ ॥
नतोयपानेऽभ्यधिका स्पृहाच श्रमेऽपि नैते वलमुत्सृजन्ति ।
अमी तु येषां निवसन्ति राज्ञां ते वै समस्तक्षितिशासनार्हाः ॥ ६८ ॥
ये कुञ्जराः कर्कशखर्व्वदेहाः कदापि माद्यन्ति गलन्मदास्र ।
आहार योगाद्दलवीर्य्यभाजो नात्यम्बुकामा बहुलोमगण्डाः ।
विरूपदन्तास्तनुपुच्छकर्णा ज्ञेया बुधैर्वामनवंशजाताः ॥ ६९ ॥
ये दीर्घदेहास्तनुदीर्घशुण्डाः कुदन्तभाजो मलपूर्ण देहाः ।
स्थविष्ठगण्डाः कलहप्रियाश्च ते कुञ्जराः स्युः कुमुदस्य वंशाः ।
अन्यद्विपान् दर्शनमात्रतस्तु निघ्नन्ति ते दुर्गमनाश्च पुंसाम् ॥ ७० ॥
ये स्निग्धदेहाः सलिलाभिलाषा महाप्रमाणास्तनुशुण्डदन्ताः ।
स्थविष्ठदन्ताः श्रमदुःसहाश्च ते कुञ्जराश्चाञ्जनवंशजाताः ॥ ७१ ॥
रेतश्च दानञ्च सृजन्ति शश्वदानूपदेशे प्रभवन्ति ये तु ।
ते पुष्पदन्ताभि(ति)जनप्रसूता महाजवास्ते तनुपुच्छभागाः ॥ ७२ ॥
सुदीर्घदन्ता बहुलोमभाजो महाप्रमाणाश्च सुकर्कशाङ्गाः ।
भ्राम्यन्तिनाध्वभ्रमणाभियोगान्नाहारपानादिषु चातिशक्तिः ॥७३॥
मरुप्रदेशे विचरन्ति ते वै मुक्ताफलानामिह जन्ममध्ये ।
महाशरीरातिसुकर्कशाङ्गा नारिष्टदन्ता मृदुशुक्लदन्ताः ॥ ७४ ॥
महाशनाः क्षीणपुरीष मूत्र-
विस्तीर्ण कर्णास्तनुरोमगण्डाः ।

२०० युक्तिकल्पतरौ—
ते सार्ब्भौमाभिजनप्रसूता
विशुद्धमुक्ताः प्रभवन्ति (१) चैषु ॥ ७५ ॥
ये दीर्घशुण्डाः सुविभक्तदेहा महाजवाः क्रोधपरोतकाश्च ।
विस्तव्ध कर्णास्तनुपुच्छदन्ताः सदाशनाश्चैव वशा(सा)प्रियाश्च ॥ ७६ ॥
प्रवृद्धगण्डास्तनुलोमयुक्ताः ते सुप्रतीकप्रवरप्रसूताः (२) ।
महाप्रमाणामितमौक्तिकानि भवन्ति चैतन्निजगाद काप्यः ॥ ७७ ॥
एकजातिः समुत्पन्नो गजः स्तब्ध इति स्मृतः ।
लक्षणञ्च यथा प्रोक्तं शुद्धश्चेत्यत्र दृश्यते ॥ ७८ ॥
शुद्धद्विजाति सम्भूतस्तल्लक्षण समन्वितः ।
जारजो नाम विख्यातो यथास्वं बलवीर्य्यवान् ॥ ७९ ॥
द्विजातिद्वयजातो यः (३) स शूर इति कथ्यते ।
द्विजाति जारजोत्पन्न उद्भ्रान्त इति कथ्यते ॥ ८० ॥
एवं संयोगभेदेन गजजातिरनेकधा ।
तां यो जानाति तत्त्वेन स राज्ञः पात्रमर्हति ॥ ८१ ॥
ब्रह्मादिजातिभेदेन तेषां भेदश्चतुर्विधः ।
विशालाङ्गाः पवित्राश्च ब्राह्मणाः स्वल्पभोजिनः ।
शूरा(ला) विशाला वक्षाशाः क्रुद्धाः क्षत्रियजातयः ॥ ८२ ॥
अथ गुणाः ।
यथा रक्तं यथा खङ्गो यथा स्त्री ससयो यथा ।
परीक्ष्यन्ते गुणैरेवं गजानामपि निर्णयः ॥ ८३ ॥
रम्यो भौमो (४) ध्वजोऽधीरो वीरः शूरोऽष्टमङ्गलः ।
(१) प्रवदन्ति इति (क) पुस्तकपाठः ।
(२) तेज खयुक्ता प्रवरप्रसूताः इति (ख) पुस्तक पाठः ।
(३) द्वयसम्भूतः इति (ग) पुस्तक पाठः ।
(४) वीरो इति (घ) पुस्तक पाठः ।

गजयुक्तिः । २०१
सुनन्दः सर्व्वतो भद्रः स्थिरो गम्भीरवेद्यपि ।
वरारोह इति प्रोक्ता गजा द्वादश सत्तमाः ॥ ८४ ॥
तद्यथाह भोजः ।
विभक्तावयवः पुष्टः सुदन्तः सुमहानपि ।
तेजस्वी रम्य इत्युक्तो गजः सम्पत्तिवर्द्धकः ॥ ८५ ॥
अङ्कुशादि-प्रहारेण यस्य भीतिर्न जायते ।
स भीमोऽयं गजः शुद्धो राज्ञः सर्व्वार्थ-साधनः ॥ ८६ ॥
शुण्डाग्रात् पुच्छपर्य्यन्तं रेखा यस्यैव दृश्यते ।
ध्वजः शुद्धो गजी नाम साम्राज्य प्राणदायकः ॥ ८७ ॥
समौ कुम्भौ खराकारौ आवत्तौ तत्र चोच्छ्रयौ (१) ।
अधीरोऽयं गजो नाम्ना राज्ञां विप्रविनाशनः ॥ ८८ ॥
आवर्त्तः पृष्ठतो यस्य स्वनाभिमभिविन्दति ।
पुष्टाङ्गो बलवान् वीरो राज्ञामभिमतप्रदः ॥ ८९ ॥
महाप्रमाणः पुष्टाङ्गः सुदन्तश्चारुगण्डकः ।
भक्षणे भक्षणे श्रान्तः शूरो लक्ष्मो-विवर्द्धनः ॥ ९० ॥
सितौ दन्तौ सितः पुच्छः सिता रेखा सिता नखाः ।
रक्तकुम्भाक्षिवौय्याङ्गेर्विज्ञेयः सोऽष्टमङ्गलः ॥ ९१ ॥
अयं गजेन्द्रो यस्यास्ते तस्य स्यात् सकला मही ।
नारिष्टानीतयस्तत्र यत्रास्तेऽयं गजेश्वरः ॥ ९२ ॥
आयोजनशतं यावदनर्थं कुरुते क्षयम् ।
नाल्पपुण्यैरयं प्राप्यो मनुजेन्द्रैः कलौ युगे ॥ ९३ ॥
शुभौ दन्तौ शुभः शुण्डः शुभौ कुम्भौ शुभस्तनुः ।
ग(श्र)ण्डयोर्गण्डयोर्मध्ये आवर्त्तः शुभलक्षणः ॥ ९४ ॥
( १ ) चीव्रतौ इति (क) पुस्तक पाठः ।
२६

२०२ युक्तिकल्पतरौ—
ललाटमध्ये यस्यैव दृश्यते येन भूभुजा ।
... ... ... ... ... ततो गुणीन्द्राः * ॥ ९५ ॥
शश्वन्मदस्रुति-परिप्लुतगण्डदेशा,-
स्तोत्राङ्कुशेन विनिवारयितुं न शक्याः ।
ज्ञातिद्विषो नवपयोद(ध)रवा गभीराः ;
पृथ्वीभुजां सकलसौख्यकरा भवन्ति ॥ ९६ ॥
अथ दोषाः ।
दीनःक्षीणोऽथ विषमो विरूपो विकलः खरः ।
विमदो आपकः काको धूमो जटिल इत्यपि ॥ ९७ ॥
अजिनो मण्डली श्वित्री हृतावर्त्तो महाभयः ।
राष्ट्रहा मुषली भालो निःसत्त्व (१) इति विंशतिः ॥
महादोषाः समाख्याता गजानां भोजभूभुजा ॥ ९८ ॥
तद्यथा ।
अतिक्षीणतरः क्षीणतनुदन्तोऽतिनिष्प्रभः ।
दीनाख्यः कुरुते दीनं

गजयुक्तिः । २०३
खरता सहजा यस्य शरीरेऽस्तौति लक्ष्यते ।
तनुदन्तकरो हस्तौ खरः कुलविनाशनः ॥ ४ ॥
नजायते मदो यस्य स्वकाले जायतेऽथवा ।
विरूपो विवशो वापि विमदं दूरतस्त्यजेत् ॥ ५ ॥
लघु प्रमाणः क्षौणाङ्गस्तनुशुण्ड शिरोदरः ।
अश्रान्तं श्वसिति (१) व्यग्रः पतेन्नेत्रयोर्मलम् ॥ ६ ॥
त्रिके पुच्छायतो वापि आवर्त्तो मण्डलोऽथवा ।
वहिः (द्भिः) प्रकुरुते लिङ्गं सर्व्वथा गतचेष्टवत् ॥ ७ ॥
भूभुजा नहि वोढव्योऽयं श्वापकाख्यो गजाधमः ।
यदीच्छेच्छाश्वतीं भूतिं शरीरारोग्यमेव वा ॥ ८ ॥
शङ्खदेशो यस्य भग्नौ स्कन्धदेशोऽति गुच्छकः (२) !
काकोऽयं कुरुते मृत्युं स्वामिनो नात्र संशयः ॥ ९ ॥
विषमौ शङ्खगौ दन्तौ यस्य शुण्डविरोधिनौ ।
भिद्यते वा विदीर्येतां स्वयं शून्यान्तरावुभौ ॥
कुरुते व्याधितं नाथं धूम्रनामा गजाधमः ॥ १० ॥
मूर्धजाः कर्कशा रूक्षा जटारूपानुवन्धिनः ।
यस्यायं जटिलो नागः कुरुते धनसंक्षयम् ॥ ११ ॥
स्कन्धे वा गात्रदेशे वा लग्नं चर्मोऽवलक्ष्यते ।
अजिनो नाम नागोऽयं

२०४ युक्तिकल्पतरौ—
विरूपाण्युद्गतानीव मण्डली कुलनाशनः ।
तानि श्वेतानि यस्य स्युः श्वित्री स धननाशनः ॥ १४ ॥
हृदये उदरे चैव त्रिके पुच्छस्य मूलतः ।
गुदे मेढ्रे पदे चैव आवर्त्तेन हतश्रियम् ॥ १५ ॥
योगिनं कुरुते भूपं प्रवासिनमुपद्रुतम् (१) ।
गच्छतो यस्य गुल्फाभ्यां भवेत् संघर्षणं मुहुः ।
अपि सर्व्वगुणैर्युक्तस्त्याज्यश्च स महाभयः ॥ १६ ॥
राष्ट्रं धनं कुलं सैन्यं मैत्रं दारान् तथा प्रजाः ।
क्षपयत्य शुभो नागो दृष्टमात्रो न संशयः ॥ १७ ॥
तत्रापम्रियते लोकस्तत्र वज्रभयं भवेत् ।
व्याधि वह्निभयं वात्र यत्रास्ते स महाभयः ॥ १८ ॥
भृशं सन्ताड्यमानस्तु पादै कं यो न गच्छति ।
पृष्ठोदरं समाहृत्य रेखा रक्तसमा यदि ॥ १८ ॥
न्यस्ताग्रिमपदं स्थाने पश्चात् पातः पदे यदि ।
अपि सर्व्वगुणैर्युक्तो राष्ट्रहायं गजाधमः ॥ २० ॥
राष्ट्रादपाक्रियतेऽयं भूभुजा श्रियमिच्छता ।
राष्ट्रान्ते रक्षितो मोहात् कुरुते राष्ट्रसंचयम् ॥ २१ ॥
पादाश्चात्यन्तविषमा दन्तौ चान्योन्य विषमौ ।
पञ्जरो दृश्यते भग्न एको वाष्टौ (२) द्वयोऽथवा ॥ २२ ॥
दन्तौ वा चलतौ यस्य किं युवान (३) प्ररोहतः ।
कुम्भौ वा विषदौ यस्य मुषलौ स गजाधमः ॥ २३ ॥
(१) श्रुतम् इति (क) पुस्तक पाठः ।
(२) राष्टौ इति (ख) पुस्तकपाठः ।
(३) किमु वान इति (ग) पुस्तक पाठः ।

गजयुक्तिः । २०५
राष्ट्रदुर्ग (१) वलामात्य-क्षयकृत् तं परित्यजेत् ।
चर्म्मखण्ड इवाभाति भाले यस्याति कर्कशः ॥ २४ ॥
भालो स कुरुते नागो भर्तुः कुलधनक्षयम् ।
पुष्टो विशालः संहन्तः सत्कारोऽपि शुभोऽपि सन् ॥
न रणे साहसो यस्य स निःसत्त्वो गजाधमः ॥ २५ ॥
सर्व्वेषां गजदोषाणामुक्त एव महानयम् ।
येनैकेन गुणाः सर्व्वे तृणायन्ते सुनिश्चितम् ॥ २६ ॥
पालकाप्यस्तु * ।
क्षीणदन्ताङ्ग शुक्लत्वं विषमत्वं रदादिषु ।
शिरः क्षीणमधः पुष्टिरेते दोषा गजे मताः ॥ २७ ॥
गार्ग्यस्तु ।
ये कुञ्जरास्तनुरदास्तनुगण्डशुण्डाः,
क्षीणाः सुदीनवपुषो गुरु दीर्घपुच्छाः ।
वश्यादिभिः खलु गुणैरहितो हिताय ;
ते भूभुजामभिमता न हि वीक्षणीयाः ॥ २८ ॥
यो न स्रवेन्मदजलं तनुमूर्द्धभागो,
निर्वीर्य्यतामुपगतो बहुभोजनेऽपि ।
नेच्छत्यसावुपगतानपरान् निहन्तुं ;
भूमीभुजा नहि गजोऽयमवेक्षणीयः ॥ २९ ॥
दोषैर्दुष्टान् गजान् राजा न वीक्षेत कदाचन ।
न्यसेद्वा परराष्ट्रेषु नगरात् क्रियते बहिः ॥ ३० ॥
(१) राष्ट्रदुद्द्वला (क) पुस्तक पाठः ।

  • पालकाप्यर्षिविरचित हस्त्यायुर्व्वेदः द्रष्टव्यः ।

२०६ युक्तिकल्पतरौ—
दद्यात् द्विजेभ्यः शुद्धेभ्यो गणकायाथवा नृपः ।
दृष्ट्वा यदि गजान् दुष्टान् दद्याच्छृङ्गिशतं द्विजे ॥ ३१ ॥
पुरं नीराजयेद्वापि आत्मानं वाथवा सुतम् ।
देवोसूक्तेन † जुहुयादयुतं वाति(पि) तत्परः ॥ ३२ ॥
तिलान् वा जुहुयादग्नौ तत्प्रतीकार हेतवे ।
ब्रह्मादि जातिभेदेन जातिरुक्ता चतुर्विधा ॥ ३३ ॥
चतुर्विधानां भूपानां वाहने ते शुभप्रदाः ।
ये दोषा दोषवत्त्वानां त एव स्युः स्वजातितः ॥ ३४ ॥
ये व्याधयो नराणां स्युस्ते गजानामपि स्मृताः ।
चिकित्सापि तथा तेषां मात्राचैव गरीयसी ॥ ३५ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ गज परौक्षा * ।
अथ वृषपरौक्षा ।
अश्वेभलक्षणे ह्युक्त्वा वक्ष्यन्तेऽन्ये चतुष्पदाः ।
गावः कृतयुगे सृष्टाः स्वयमेव स्वयम्भुवा ॥ ३६ ॥
ब्रह्म-क्षत्रिय-विट्-शूद्र जातिभेदाश्चतुर्विधाः ।
शुक्लाङ्गाः शुचयोऽक्रुद्धा मृदवः शुद्धचेतसः ॥ ३७ ॥
अल्पाशिनो बहुवला वृषभा ब्रह्मजातयः ।
द्वयोर्लक्षण सम्बन्धात् त्रिगुणः स वृषाधमः ॥ ३८ ॥
त्रिलक्षण समावेशात् त्रिगुणः स वृषाधमः ।
पीताङ्गा मृदवः शुद्धा अक्रोधा भारवाहिनः ॥ ३६ ॥
† अहं रुद्रेभिरित्यादिना वेदोक्तेन श्रुति ।

  • गजविषये, वह्निपुराण-गरुडपुराण-कालिकापुराण-वसन्तराज शाकुनानि द्रष्टव्यानि ।

वृषयुक्तिः । २०७
यदृच्छा भोजिनः चौणा वृषभा वैश्यजातयः ।
कृशाङ्गाः क्रूरहृदया अपवित्राः सदाशिनः ॥ ४० ॥
वृहहृषणरोषाश्च (१) वृषभाः शूद्रजातयः ।
द्वयोर्लक्षणसम्पर्कात् द्विजातिर्वृषभो भवेत् ॥ ४१ ॥
वात्यस्तु,—
पृथ्वीतले समुत्पन्ना गजाश्वा ये चतुष्पदाः ।
गुणत्रयविभेदेन तेषां भेदत्रयं भवेत् ॥ ४२ ॥
एतन्मतानुसारेण भोजः प्राह महीपतिः ।
ये शुक्लाः शुचयः शुद्धा भृशं भारवहा अपि ॥ ४३ ॥
वद्धाशिनः स्वल्परोषास्ते वृषाः सात्विका मताः ।
व्यक्ताव्यक्तरुषः(षाः) शुद्धा दृढा भारवहाः शुभाः ॥ ४४ ॥
वद्धाशिनो बहुवलास्ते वृषा राजसा मताः ।
विवर्णा विकृताङ्गाश्च निर्वलाः स्वल्पभोजिनः ॥ ४५ ॥
अपवित्रा वृहद्रोषास्ते वृषास्तामसा मताः ।
लक्षणद्वयसम्बन्धात् द्विगुणो वृषभो भवेत् ।
त्रिलक्षणसमावेशात् त्रिगुणः स वृषाधमः ॥ ४६ ॥
अथ गुणाः ।
नीलः शुभो ध्वजो वामः क्षेमो भद्रः शिवः स्थिरः ।
भोजदेवेन लिखिता इत्यष्टौ वृषभा गुणाः ॥ ४७ ॥
तद्यथा,—
श्वेतादन्यतरो वर्णः श्वेतः खुरविषाणयोः ।
ललाटपुच्छयोः श्वेतः स नीलः शुभमावहेत् ॥ ४८ ॥
यो हृष्टपुष्टो रम्यात्मा सुविभक्ततनुः शुभः ।
(१) वृहद्दंषाषरोषाश्च इति (क) पुस्तक पाठः ।