युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 251, कुल 278 में से
संदर्भ में पढ़ेंमृगयुक्तिः । २११
सर्व्वदा जलमिच्छन्ति येऽल्पसत्त्वा महौजसः ।
भारसहाः कुण्ठशृङ्गास्तेऽन्यजा महिषा मताः ॥ ८० ॥
एषां दोषा गुणा वापि वृषवल्लक्षयेद्बुधः ।
पोषणञ्चापि संस्थानं वृषतुल्यं तथा मतम् ॥ ८१ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ महिषपरीक्षा ।
अथ मृगपरीक्षा ।
मृगनाभिं समादातुं कौतुकार्थं तथापुनः ।
मृगाःपोष्या महीन्द्राणां तेषां वक्ष्यामि लक्षणम् ॥ ८२ ॥
पृथिव्यव् वायुगगनास्तेजोऽधिकास्तु पञ्चधा ।
भिद्यन्ते नैकभेदास्तु समस्ता मृगजातयः ॥ ८३ ॥
तद्यथा ।
ये गन्धिनः क्षीणशरीरकर्णास्ते पार्थिवा गन्धमृगाः प्रदिष्टाः ।
सर्व्वाङ्गमेषां सुरभि प्रकामं पुण्ये प्रदेशे प्रभवन्ति ते तु ॥ ८४ ॥
ये वै विशाला गुरुदीर्घशृङ्गा अमांसलास्तीव्रखुर प्रदेशाः ।
आप्यास्तु ते वै प्रसरन्तिभूरि सर्व्वत्र देशे प्रभवन्ति चैव ॥ ८५ ॥
धावन्ति ये वातमिवान्तरीक्षे दीर्घास्तु ते वातमृगाः प्रदिष्टाः ।
ते यत्र यत्रैव भवन्ति शक्तास्तत्रैव सर्व्वाणि शुभानि सन्ति ॥८६॥
लघुप्रमाणा लघु वीर्य्यसत्त्वा निर्गन्धदेहाश्छगल-प्रमाणाः ।
ते गगना वेगकरा नराणां स्पृश्या न ते नापि निरीक्षणीयाः ॥८७॥
ये कृष्णवर्णा गुरुदीर्घशृङ्गाः क्रुद्धा भृशं यान्ति च वायुवेगाः(त्) ।
ते कृष्णसाराः खलु तेजसास्तु पुण्यप्रदेशे प्रभवन्ति ते तु ॥ ८८ ॥