सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 264, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 264

२२४ युक्तिकल्पतरौ—
वृक्षायुर्वेदगदिता वृक्षजातिश्चतुर्व्विधा ।
समासेनैव गदितं तेषां काष्ठं चतुर्व्विधम् ॥ ८३ ॥
तद्यथा ।
लघु यत् कोमलं काष्ठं सुघटं ब्रह्मजाति तत् ।
दृढाङ्गं लघु यत् काष्ठमघटं क्षत्रजाति तत् ॥ ८४ ॥
कोमलं गुरु यत् काष्ठं वैश्यजाति तदुच्यते ।
दृढाङ्गं गुरु यत् काष्ठं शूद्रजाति तदुच्यते ।
लक्षणद्वययोगेन द्विजातिः काष्ठसंग्रहः ॥ ८५ ॥
क्षत्रियकाष्ठैर्घटिता भोजमते सुखसम्पदं नौका ।
अन्ये लघुभिः सुदृढैः विदधति जलदुष्यदे(१)नौकाम् ॥ ८६ ॥
विभिन्नजातिद्वयकाष्ठजाता न श्रेयसे नापि सुखाय नौका ।
नैषा चिरं तिष्ठति पच्यते च विभिद्यते वारिणि मज्जते च ॥८७॥
न सिन्धुगायार्हति (२) लौहबन्धं,
तल्लोह-कान्तैः छ्रियते हि लौहम् ।
विपद्यते तेन जलेषु नौका ;
गुणेन बन्धं निजगाद भोजः ॥ ८८ ॥
अथ लक्षणानि ।
सामान्यञ्च विशेषञ्च नौकाया लक्षणद्वयम् ॥ ८६ ॥
तत्र सामान्यम् ।
राजहस्तमितायामा तत्पादपरिणाहिनौ ।
तावदेवोन्नता नौका क्षुद्रेति गदिता बुधैः ॥ ९० ॥
( १ ) जलदुष्यदैः इति (क) पुस्तकपाठः ।
( २ ) न सिन्धुगाच्छर्हति लौहबन्धं इति (ख) पुस्तक पाठः ।