सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 256, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 256

२१६ युक्तिकल्पतरौ—
अथ द्विपद्यानोद्देशः ।
मानुषैः पक्षिभिर्वापि तथान्यैर्द्विपदैरपि ।
यानं स्याद्द्विपदं नाम तस्य भेदो ह्यनेकधा ॥ १७ ॥
हंसैर्मयूरैः कङ्कालैरन्यैर्वापि विशेषतः ।
सामान्यञ्च विशेषश्च तस्य भेदो द्विधा भवेत् ॥ १८ ॥
तत्र सामान्यम् ।
यथा,—
यानं यद्द्विपदाभ्यां सत्तद्दोलादि कमुच्यते (१) ।
चतुर्भियुं क्ति संयुक्तैर्दण्डधातुगुणाम्बरैः ॥
दोलेति कथ्यते तेषां नियमोऽयं प्रदर्श्यते ॥ १९ ॥
तत्र समयः ।
उपेन्द्र मूलाद्भि शिवाग्निवर्जं,
शस्ते न्दुतारा (२) तिथि योगलग्ने ।
विष्टिक्षमापुत्र यमाह्ववर्जं ;
दोलादिकारोहणमाद्यमिष्टम् ॥ २० ॥
दण्डकाष्ठस्य नियमे नियमश्चात्र दण्डवत् ।
कनकं रजतं ताम्रं लौहं धातुचतुष्टयम् ॥ २१ ॥
चतुर्विधानां सुद्दिष्टं ब्रह्मादीनां यथाक्रमम्(मात्) ।
सुराणाम (३) सुराणाञ्च चातुर्वर्ण्यमुदाहृतम् ॥ २२ ॥
( १ ) यत्तद्द्यानादिकमुच्यते इति (क) पुस्तकपाठः ।
( २ ) भावा इति इति (ख) पुस्तक पाठः ।
( ३ ) गुह्यानाम् इति (ग) पुस्तक पाठः ।