सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 253, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 253

सारमेययुक्तिः । २१३
अथ सारमेय परीक्षा ।
मृगयार्थं शाकुनार्थं कौतुकार्थि-महोच्छिता (१) ।
श्वानः पोष्यास्ततस्तेषामथ वक्ष्यामि लक्षणम् ॥
गुणजाति प्रभेदेन शुनां भेदो ह्यनेकधा ॥ ९७ ॥
तद्यथा ।
सात्त्विका राजसाश्चैव तामसाश्च त्रिधा मताः ।
अश्रान्ता अपरिच्छीणाः पवित्राः स्वल्पभोजिनः ॥ ९८ ॥
श्वानस्ते सात्त्विकाः प्रोक्ता दृश्यन्ते च क्वचित् क्वचित् ।
क्रुद्धा बहुभुजो दीर्घा गुरु वक्षस्तनूदराः ॥ ९९ ॥
जाङ्गलस्था जाङ्घिकाश्च श्वानस्ते राजसा मताः ।
अल्पश्रमेण ये श्रान्ता ललज्जिह्वा गुरुदराः ॥ १०० ॥
श्वानस्ते तामसा ज्ञेयाः सम्प्लावनसमाश्रयाः ।
ब्रह्मादि जातिभेदेन चतुर्द्धा सर्व्व एव हि ॥ १ ॥
शुभ्रा दीर्घाः स्तब्धकर्णा लघुपुच्छास्तनूदराः ।
सुशुक्लनखदन्ताश्च श्वानस्ते ब्रह्मजातयः ॥ २ ॥
रक्ताङ्गास्तनुलोमानो ललत्कर्णास्तनूदराः ।
दीर्घा दीर्घा नखरदाः श्वानस्ते क्षत्रजातयः ॥ ३ ॥
ये पीतवर्णा मृदवस्तनुलोमान एव च ।
क्रुद्धाक्रुद्धा ललज्जिह्वास्ते श्वानो वैश्यजातयः ॥ ४ ॥
कृष्णवर्णास्तनुमुखा दीर्घरोमाण एव च ।
अक्रुद्धाः श्रमयुक्ताश्च ते श्वानः शूद्रजातयः ॥ ५ ॥
(१) मृगयत्वं भ्राईयर्थं कौतुकार्थं महोच्छिता इति (क) पुस्तक पाठः ।