सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 252, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 252

२१२ युक्तिकल्पतरौ—
भोजोऽप्याह ।
पार्थिवादिर्मृगः सर्व्वश्चतुर्जातिर्भवेत् पृथक् ।
सुशृङ्गास्तनुलोमानो ब्राह्मणा मृगजातयः ॥ ८९ ॥
क्रुद्धाः पञ्चरि (१) शृङ्गाश्च क्षत्रियाः खरलोमशाः ।
आवर्त्त शृङ्गास्तनवो हरिणा वैश्यजातयः ॥ ९० ॥
कुशृङ्गा वाप्यशृङ्गा वा शूद्राः खरतनूरुहाः ।
अश्वानां ये गुणा दोषास्ते ज्ञेया हरिणेष्वपि ॥ ९१ ॥
तथापि दोषाः पञ्चामी वच्यन्ते हरिणाश्रयाः ।
नेत्रयोरन्तरे यस्य लोमावर्त्तः स पापकृत् ॥ ९२ ॥
विषमौ विकतौ शृङ्गौ यस्य स क्षेमनाशनः ।
आवर्त्तः पृष्ठतो यस्य आनाभि-मभिविन्दति ॥ ९३ ॥
पश्चार्द्धे यस्य वावर्त्तस्तौ त्याज्यौ भयकारको ।
वर्णनेत्रपदादीनां वैकृताङ्गन-नाशनः ॥ ९४ ॥
गार्ग्यः ।
दोषवन् मृगजातीनां विजातीनामथापि वा ।
दर्शनात् स्पर्शनात् चैव गन्धादानाच्च पोषणात् ।
भवेयुर्विपदः सर्व्वास्तथा चैवाद्य पोषणात् ॥ ९५ ॥
शङ्खोऽपि ।
हरिणपोषणतो धरणीभुजांनहि भवेन्नरुद्भव-पीड़नम् ।
न परिवह्निरुजोरिपुजं भयं तदव तं हरिणं गुणिनं नृप ॥ ९६॥
इति श्रीभोजराजीये युक्तिकल्पतरौ मृगपरीक्षा ।

( १ ) पशुरि इति (क) पुस्तक पाठः ।