सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 248, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 248

२०८ युक्तिकल्पतरौ—
कुरुते धनवृद्धिं स दोषैर्मुक्तो यदा त्वयम् ॥ ४९ ॥
वर्णस्तु (१) सध्वजः पुच्छो रम्यश्च ध्वज उच्यते ।
भर्तुः कुलं धनं धान्यं विवर्द्धयति निश्चयम् ॥ ५० ॥
पूर्व्वार्द्धे चोन्नतो वस्तु परार्द्धे चैव नीचकः ।
निर्द्दोषो वाम इत्येष कुरुते रिपुसङ्क्षयम् ॥ ५१ ॥
चन्द्रकं दृश्यते यस्य ललाटे देवनिर्मितम् ।
क्षेमनामा वृषः कुर्यात् धनधान्यविवर्द्धनम् ॥ ५२ ॥
आवर्त्ताश्च शुभा यस्य शुक्तयश्चापि वा शुभाः ।
भद्रनामा वृषः कुर्यात् भर्तुः सर्व्वार्थ-साधनम् ॥ ५३ ॥
आवर्त्तं शुक्तिविज्ञानं हयेषु वृषभेष्वपि ।
पादाः सर्व्वे सिता यस्य पुच्छभालौ सितौ तथा ॥ ५४ ॥
महोक्षा चायते नेत्रे कर्णौ चाति लघू स्थिरौ ।
मुष्कयोः कृष्णता चैव शृङ्गे चातिशुभे दृढे ॥ ५५ ॥
तनुरोमा (२) महावेगः स्निग्धगम्भीर निस्वनः ।
शिव इत्येष कथितः शिवं प्रकुरुते ध्रुवम् ॥ ५६ ॥
चरणाः पञ्जराः स्थूलाः शिरः शुभ्रं भवेत्तनुः ।
आपुच्छादायता शुभ्रा रेखा मस्तकगामिनी ॥ ५७ ॥
रक्ताताल्वोष्ठजिह्वस्तु स्थिरः स्थैर्य्यकरः श्रियाः ।
नाल्पपुण्येन लभ्योऽयं वृषभः शुभलक्षणः ॥ ५८ ॥
गर्गस्तु,—
महत्त्वं तनुलोमत्वं पुष्टता भारवाहिता (३) ।
कुमारकत्वमित्येते वृषभाणां गुणा मताः ॥ ५९ ॥
(१) षण्डस्तु रम्यः सध्वज इति (क) पुस्तकपाठः ।
(२) तानुरोमाः इति (ख) पुस्तकपाठः ।
(३) बारवाहिता इति (ग) पुस्तकपाठः ।