सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 250, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 250

२१० युक्तिकल्पतरौ—
व्यङ्गत्वं मारकत्वञ्च वृषदोषा उदाहृताः ।
ब्रह्मादि-जातिभेदेन चत्वारो ये वृषा मताः ॥ ७१ ॥
चतुर्विधानां लोकानां त एव स्युः शुभावहाः ।
यो मोहादन्यजातीयं कुरुते वृषभं नरः ॥ ७२ ॥
तस्य नश्यन्ति वित्तानि धनमायुः कुलं वलम् ।
दुर्बलो वृषभोयत्र गो-जातिस्तत्रनश्यति ॥ ७३ ॥
वातपित्तकफोद्रेकाद् व्याधयो ये वृषे मताः ।
तेषामुपशमः कार्य्यो यथास्वं विधिना बुधैः ॥ ७४ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ वृषपरीक्षा ।
——————*——————
अथ महिष परीक्षा ।
विपत्ते ह्यसन्नासं कुरुते येन हेतुना ।
भारं वहति वा दूरं महिषोऽस्मान्निरूप्यते ।
ब्रह्मक्षत्रियविट्शूद्रान्त्यजभेदेन पञ्चधा ॥ ७५ ॥
तद्यथा ।
भृशं कृष्णाः पवित्राश्च वृहद्वृषण घोणकाः ।
वह्नाशिनो मारकाश्च महिषा ब्रह्मजातयः ॥ ७६ ॥
केकराः कामलाः (१) स्थूला भृशं क्रुद्धाश्च मारकाः ।
वह्नाशिनो बहुवला महिषाः क्षत्रजातयः ॥ ७७ ॥
श्लथाङ्गाः क्षीणशृङ्गाश्च सुक्रुद्धाभारवाहिनः ।
अमारका बहुवला महिषाः वैश्यजातयः ॥ ७८ ॥
क्षीणाः क्षीणवलाः क्षीणशृङ्गघोणारुषश्च (२) ये ।
अल्पाशिनो भारसहा महिषाः शूद्रजातयः ॥ ७९ ॥
(१) कपिलां इति (क) पुस्तक पाठः ।
(२) घोणारुणाश्चः इति (ख) पुस्तक पाठः ।