युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 249, कुल 278 में से
संदर्भ में पढ़ेंवृषयुक्तिः । २०९
अथ वृषभदोषाः ।
व्यङ्गो विवर्णो विषमः श्वित्री धूम्रश्चल खरः ।
एते सप्त महादोषा वृषभाणामुदीरिताः ॥ ६० ॥
विषाणौ विषमौ यस्य खुराश्च विषमास्तथा ।
नेत्रप्रा(क्रा)न्तेऽथ वा गात्रे पञ्जरे वैकृतं भवेत् ॥ ६१ ॥
व्यङ्ग इत्येष कथितो धनधान्य-विनाशकः ।
पूर्व्वार्द्धमन्यवर्णन्तु परार्द्धञ्चान्यवर्णकम् ॥ ६२ ॥
पृष्ठं क्रोडो विवर्णो वा विवर्णः कुलनाशनः ।
परार्द्धमुन्नतं यस्य पूर्व्वार्द्धञ्चाति नीचकम् ॥ ६३ ॥
गच्छतश्चरणौ लग्नौ शब्दायते खरखरः (१) ।
विषमो नाम वृषभः सम्पत्तिचयकारकः ॥ ६४ ॥
हिमकुन्देन्दुसङ्गाशा गात्रेषु लोमविन्दवः ।
श्वित्री नाम महादोषो दूरतस्तं परित्यजेत् ॥ ६५ ॥
शृङ्गाग्रे दौपिकाकारं ज्वलते केकरे दृशौ ।
कपिलः पुच्छभागश्चेत् स धूम्रो मृत्युमावहेत् ॥ ६६ ॥
दन्त शृङ्गखुरादीनां यद्येकोऽपि चलेत् स्वयम् ।
मुष्को वा (२) चलते यस्य स चलः कुलनाशनः ॥ ६७ ॥
आवर्त्ताः शुक्तयो रेखा विषमाश्च विसंस्थिताः ।
न्यूनाधिकाः पञ्जरास्तु खुरास्तु विषमास्तथा ॥ ६८ ॥
गुदान्मेढ्रान्तरे यावद्रेखा व्यक्तेव दृश्यते ।
विस्तृते विषमे घोणे(रे) जिह्वा चैवा(व)सिता भवेत् ॥ ६९ ॥
स खरो दूरतस्त्याज्यो भर्तुः सर्व्वार्थ-नाशनः ।
स्वल्पता दीर्घरोगत्वं क्षोणताभारवाहिता ॥ ७० ॥
(१) खरः खरः इति (क) पुस्तक पाठः ।
(२) मुष्कोरा इति (ख) पुस्तक पाठः ।
२७