सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 254, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 254

२१४ युक्तिकल्पतरौ—
लघु प्रमाणास्तु गुरुदरा ये
येऽमेध्यभक्षा बहुपुत्रकाश्च ।
प्रवृद्धपुच्छा लघुसूक्ष्म दन्ता-
स्ते चान्त्यजाः कुक्कुरजातयः स्युः ॥ ६ ॥
द्विजाति चिह्नंसंसर्गात् द्विजातिः श्वा भयावहः ।
लक्षणत्रयसम्बन्धात् त्रिजातिर्धननाशनः ॥ ७ ॥
भोजोऽपि,—
द्विजातिर्वा त्रिजातिर्वा विजातिः श्वा महीभृताम् ।
भयं धनक्षयं शोकं विदधाति यथाक्रमम् ॥ ८ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ श्वपरीक्षा ।
भरद्वाजस्तु वलिप्रकरणे—
अजलक्षणमाह ।
तदनुसारिन भोजोऽपि,—
नक्षत्राणां विभेदेन नराणान्तु गणत्रयम् ।
तेषां शुभाय निर्दिष्टं पशुवस्तत्रयं (१) वलौ ॥ ९ ॥
तद्यथा,—
ये कृष्णाः शुचयश्चाङ्गाः पशवोऽन्ये तथैव च ।
देवजातिभिरुत्सृज्यास्ते सर्व्वार्थोपसिद्धये ॥ १० ॥
ये पीता हरिता वापि नरजातेरुदीरिताः ।
ये शुक्लाश्च महान्तो वा रक्षोजातेः शुभप्रदाः ॥ ११ ॥
( १ ) पशुवस्तुलयं इति (क) पुस्तक पाठः ।