वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
संभाषणं दर्शनं च समस्थानोपसेवनम् । देवैः सह महाभागाः कुर्वते तत्र वै प्रजाः ॥ ३६
[अ० ४३-४४ श्लो० ३३-३८।१-१४] वायुपुराणम् १३३
( भुवनविन्यासः )
समुद्धराष्ट्रं स्फीतं च नानाजनपदाकुलम् । नानावृक्षवनोद्देशं नानानगरसुवेष्टितम् ॥ ३३
नरनारीगणाकीर्णं नित्यं प्रमुदितं शिवम् । बहुधान्यवनोपेतं नानानृपतिपालितम् ॥ ३४
उपेतं कीर्तनशतैर्नानारत्नाकराकरम् ॥ ३५
तस्मिन्देशे समाख्याता हेमशङ्खदलप्रभाः । महाकाया महावीर्याः पुरुषाः पुरुषर्षभाः ॥
संभाषणं दर्शनं च समस्थानोपसेवनम् । देवैः सह महाभागाः कुर्वते तत्र वै प्रजाः ॥ ३६
दश वर्षसहस्राणि तेषामायुः प्रकीर्तितम् । धर्माधर्मविशेषश्च न तेष्वस्ति महात्मसु ॥
अहिंसा सत्यवाक्यं च प्रकृत्यैव हि वर्तते ॥ ३७
ते भक्त्या शंकरं देवं गौरीं परमवैष्णवीम् । इज्यापूजानमस्कारैस्ताभ्यां नित्यं प्रयुञ्जते ॥ ३८
इति महापुराणे वायुप्रोक्ते भुवनविन्यासो नाम त्रिचत्वारिंशोऽध्यायः ।
आदितः श्लोकानां समष्ट्यङ्काः---३२२३
अथ चतुश्चत्वारिंशोऽध्यायः ।
भुवनविन्यासः ।
सूत उवाच--
निसर्ग एष विख्यातो भद्राश्वानां यथार्थवत् । शृणुध्वं केतुमालानां विस्तरेण प्रकीर्तनम् ॥ १
निषधस्याचलेन्द्रस्य पश्चिमस्य महात्मनः । पश्चिमेन हि यत्तत्र दिक्षु सर्वासु कीर्तितम् ॥ २
कुलाचलानां सपानां नदीनां च विशेषतः । तथा जनपदानां च विस्तरं श्रोतुमर्हथ ॥ ३
विशालः कम्बलः कृष्णो जयन्तो हरिपर्वतः । *अशोको वर्धमानश्च सप्तैते कुलपर्वताः ॥ ४
तेषां प्रसूतिरन्येऽपि पर्वता बहुविस्तराः । कोटिकोटिशता ज्ञेयाः शतशोऽथ सहस्रशः ॥ ५
तैर्विमिश्रा जनपदा नानाजातिसमाकुलाः । नानाप्रकारविज्ञेयास्त्वनेकनृपपालिताः ॥ ६
ते नामधेयैर्विश्रान्ता विविधाः प्रथिता भुवि । अध्यासिता जनपदैः कीर्तनैश्च विभूषिताः ॥ ७
[+ तेषां सनामधेयानि राष्ट्राणि विविधानि च । गिर्यन्तरनिविष्टानि समेषु विषमेषु च ॥ ८
यथेह कथिताः पौरा गोमनुष्यकपोतकाः ] । तत्सुखा भ्रमरा यूथा माहेयाचलकूटकाः ॥ ९
सुमोलाः स्तावकाः कौञ्चाः कृष्णाङ्गमणिपुञ्जकाः । कूटकम्बलमौपीयाः समुद्रान्तरकास्तथा ॥ १०
करम्भवाः कुचाः श्वेताः सुवर्णकटकाः शुभाः । श्वेताङ्गाः कृष्णपादाश्च विहाः कपिलकर्णिकाः ॥ ११
अत्याकरालगोज्वाला र्हानीनां वनपातकाः । महिवाः कुमुदाभाश्च करवाटाः सहोत्कचाः ॥ १२
शुनकासा महानासा वनासगजभूमिकाः । करञ्जमञ्जमा वाहाः किष्किण्डीपाण्डुभूमिकाः ॥ १३
कुबेरा धूमजा जङ्गा वङ्गा राजीवकोकिलाः । वाचाङ्गाश्च महाङ्गाश्च मधौरेयाः सुरेचकाः ॥ १४
* इदमर्धं नास्ति ग. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
१३४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०४४-४५श्लो०१५-२५ १-१०]
( भुवनविन्यासः )
पित्तलाः काचलाश्चैव श्रवणा मत्तकासिकाः। गोदात्रा वकुला वाङ्गा वङ्गकामोदकाः कलाः॥१५
ते पिबन्ति महाभागाः प्रथमां तु महानदीम् । सुवपां पुण्यसलिलां महानागनिषेविताम् ॥१६
कम्बलां तामसीं श्यामां सुमेधां बकुलां नदीम् । विकीर्णां शिखिमालां च तथा दर्भावतीमपि ॥ १७
मदानदीं शुकनदीं पलाश नदीं च महानदीम् । भीमां प्रभञ्जनां कार्त्री पुण्यां चैव कुशावतीम् ॥ १८
दक्षां शाकवतीं चैव पुण्योदां च महानदीम् । (* चन्द्रावतीं सूमूलां च ऋषभां चाऽऽपगोत्तमाम् ॥
नदीं समुद्रमालां च तथा चम्पावतीमपि । एकाक्षां पुष्कलां वाहां सुवर्णी नन्दिनीमपि ॥ २०
कालिन्दीं चैव पुण्योदां भारतीं च महानदीम् । सरितोदापातिकां ब्राह्मीं विशालां च महानदीम् ॥
पीवरीं कुम्भकारीं च रुषां चैवापगोत्तमाम् । महिषीं मानुषीं दण्डां तथा नदनदीं शुभाम् ॥ २२
एताश्चान्याश्च पीयन्ते बह्व्यो हि सरितोत्तमाः÷। देवर्षिसिद्धचरिताः पुण्योदाः पापहाः शुभाः॥२३
नानाजनपदास्फीतं महापगाविभूषितम् । नानारत्नौघसंपूर्णं नित्यं प्रमुदितं शिवम् ॥ २४
उदीर्णं धनधान्याढ्यैर्नरवासैः समन्ततः । संनिविष्टं महाद्वीपं पश्चिमं सुकृतात्मनाम् ॥
निसर्गः केतुमालानामेष वः परिकीर्तितः ॥ २५
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥
आदितः श्लोकानां समष्ट्यङ्कः--३२३८
अथ पञ्चचत्वारिंशोऽध्यायः ।
भुवनविन्यासः ।
शांशपायन उवाच--
पूर्वापरौ समाख्यातौ द्वौ देशौ नस्त्वया प्रभो । उत्तराणां च वर्षाणां दक्षिणानां च सर्वशः ॥
आचक्ष्व नो यथातथ्यं ये च पर्वतवासिनः ॥ १
सूत उवाच--
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु । वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ २
सर्वर्तुकामदाः सत्त्वा जरागन्धविवर्जिताः । शुक्लाभिजनसंपन्नाः सर्वे च प्रियदर्शनाः ॥ ३
तत्रापि सुमहादिव्यो न्यग्रोधो रोहिणो महान् । तस्य पीत्वा फलरसं पिबन्तो वर्तयन्त्युत ॥ ४
दश वर्षसहस्राणि शतानि दश पञ्च च । जीवन्ति ते महाभागाः सदा हृष्टा नरोत्तमाः ॥ ५
उत्तरेण तु श्वेतस्य शृङ्गसाह्वस्य दक्षिणे । वर्षं हिरण्वतं नाम यत्र हैरण्वती नदी ॥ ६
महाबलाः सुतेजस्का जायन्ते तत्र मानवाः । सर्वर्तुकामदाः सत्त्वा धनिनः प्रियदर्शनाः ॥ ७
एकादश सहस्राणि वर्षाणां तेऽमितौजसः । आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च ॥ ८
तस्मिन्वर्षे महावृक्षो लकुचः षड्रसाश्रयः । तस्य पीत्वा फलरसं तत्र जीवन्ति मानवाः ॥ ९
त्रीणि शृङ्गवतः शृङ्गाण्युच्छ्रितानि महान्ति च । एकं मणिमयं तेषामेकं चैव हिरण्मयम् ॥
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ॥ १०
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । ÷ आर्षोऽयं पाठः ॥
[अ०४५श्लो०११-४०] - वायुपुराणम् । - १३९
( भुवनविन्यासः )
उत्तरस्य समुद्रस्य समुद्रान्ते च दक्षिणे । कुरवस्तत्र तद्वर्षं पुण्यं सिद्धनिषेवितम् ॥ ११
तत्र वृक्षा मधुफला नित्यं पुष्पफलोपगाः । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ १२
सर्वकामफलास्तत्र केचिद्वृक्षा मनोरमाः । गन्धवर्णरसोपेतं प्रक्षरन्ति मधूत्तमम् ॥ १३
अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः । ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ॥ १४
सर्वा मणिमयी भूमिः सूक्ष्माकाञ्चनवालुका । सर्वतः सुखसंस्पर्शा निष्पङ्का नीरुजा शुभा ॥ १५
देवलोकाच्च्युतास्तत्र जायन्ते मानवाः शुभाः । शुक्लाभिजनसंपन्नाः सर्वे च स्थिरयौवनाः ॥ १६
मिथुनानि प्रसूयन्ते स्त्रियश्चातिमनोहराः । से च तं क्षीरिणं वृक्षं पिबन्ति ह्यमृतोपमम् ॥ १७
मिथुनं जायते सद्यः समं चैव विवर्त्तते । समं शीलं च रूपं च म्रियन्ते चैव ते समम् ॥ १८
अन्योन्यमनुरक्ताश्च चक्रवाकसाधर्मिणः । अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः ॥ १९
त्रयोदश सहस्राणि शतानि दश पञ्च च । जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः ॥ २०
कुरूणामपि चैतेषां शृणुध्वं विस्तरेण तु । जारुधेः शैलराजस्याप्युत्तरेणोत्तरस्य हि ॥
दिक्षु सर्वासु यद्यत्र कीर्त्यमानं विबोधत ॥ २१
अनेककन्दरदरीगुहानिर्झरमण्डितौ । नैककुञ्जवनोपेतौ चित्रधातुविभूषितौ ॥ २२
अनेकधातुकीलौ सर्वधातुविभूषितौ । पुष्पमूलफलोपेतौ सिद्धचारणसेवितौ ॥ २३
द्वावपेतौ सुमहन्तावाच्छ्रितौ कुलपर्वतौ । ताभ्यां कूटशतैर्नैकैस्तद्दीपमुपसेवितम् ॥ २४
चन्द्रकान्तश्च शैलश्च सूर्यकान्तश्च सानुमान् । ययोर्मध्येन सा याता भद्रीसीमा महानदी ॥ २५
सहस्रशश्च नद्योऽन्याः प्रसन्नसुरसोदकाः । पर्यापोदाः कुरूणां हि स्नानपानावगाहनैः ॥ २६
तथाऽन्याः क्षीरवाहिन्यो महानद्यः सहस्रशः । मधुमैरेयवाहिन्यो घृतवाहिन्य एव च ॥ २७
दध्नः शतह्रदाश्चान्यास्ततः स्वाद्वन्नपर्वताः । अमृतस्वादुकल्पानि फलानि विविधानि च ॥ २८
गन्धवर्णरसाढ्यानि मूलानि च फलानि च । पञ्चयोजनमानानि महागन्धानि सर्वशः ॥ २९
नानावर्णप्रकाराणि पुष्पाणि च सहस्रशः । उपभोगसहस्राणि भद्राणि च महान्ति च ॥ ३०
गन्धवर्णसारढ्यानि स्पर्शोपेतानि सर्वशः । तमालागुरुगन्धानां चन्दनानां वनानि च ॥ ३१
भ्रमरैरुपगीतानि प्रफुल्लानि सदैव च । वृक्षगुल्मलताढ्यानि वनानि सुखानि च ॥ ३२
षट्पदैरुपगीतानि द्विजैश्चान्यैर्द्विजोत्तमाः । पद्मोत्पलवनाढ्यानि सरांसि च सहस्रशः ॥ ३३
भक्ष्यमाल्यसमृद्धाश्च बहुमाल्यानुलेपनाः । मनोहरमुखैश्चित्रैः पक्षिसंघैर्निकूजिताः ॥ ३४
शयनासनोपभोगाश्च अनेकगुणविस्तराः । विहारभूमयो रम्याः सर्वर्तुषु सुखप्रदाः ॥ ३५
आक्रीडाः सर्वतः स्फीता मणिहेमपरिष्कृताः । शिलागृहा वृक्षगृहा वरेण्याः कदलीगृहाः ॥ ३६
लतागृहसहस्राणि सुखानि समन्ततः । शुद्धशङ्खदलाभानि भूमिवेश्मशतानि च ॥ ३७
तपनीयगवाक्षाणि मणिजालान्तराणि च । सुवर्णमणिचित्राणि सर्वत्र विपुलानि च ॥ ३८
महावृक्षसहस्राणि वरेण्यानि स सर्वशः । नानाकाराणि वासांसि सूक्ष्माणि सुखानि च ॥ ३९
मृदङ्गवेणुपणववीणाद्या बहुविस्तराः । फलन्ति कल्पवृक्षाणां सहस्राणि शतानि च ॥ ४०
१३६ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०४५श्लो०४१-६७]
(भुवनविन्यासः)
सर्वत्रैव तथोद्यानं सर्वत्रैव हि तत्पुरम् । सर्वद्वीपप्रमुदितं नरनारीसमाकुलम् ॥
प्रवाति चानिलस्तत्र नानापुष्पाधिवासितः ॥ ४१
नित्यमङ्गसुखाल्हादस्तस्मिन्द्वीपे श्रमापहे । तत्र स्वर्गवरिभ्रष्टा जायन्ते हि नराः सदा ॥
भौमं तदपि हि स्वर्गं तत्रापि च गुणोत्तमम् ॥ ४२
चन्द्रकान्ता नरवराः श्यामाङ्गाः पूर्वकूलजाः । श्यामावदाताः सुखिनः सूर्यकान्ता वराः प्रजाः॥ ४३
तस्मिन्देशे नराः श्रेष्ठा देवसत्त्वपराक्रमाः । सदा विहारिणः सर्वे कामवृत्त्या सुवर्चसः॥ ४४
वलयाङ्गदकेयूरहारकुण्डलभूषिताः। स्रग्विणश्चित्रमुकुटाश्चित्राच्छादनवाससः ॥ ४५
अजीर्णयौवनधराः सुप्रियाः प्रियदर्शनाः । प्रजा वर्षसहस्राणि जीवन्ति सुबहून्युत ॥ ४६
न ताः प्रसवधर्मिण्यो न वंशप्रक्षयो विधिः । मिथुनं जायते वृक्षादुपक्षममनीदृशम् ॥ ४७
सामान्यविभवाः सर्वे ममत्वपरिवर्जिताः । न तत्र विद्यते धर्मो नाधर्मः संप्रवर्तते ॥ ४८
न व्याधिर्न जरा तत्र न दुर्मेधा न च क्लमः । पूर्णे काले विनश्यन्ति जलबुद्बुदवच्च ते ॥ ४९
एवमत्यन्तसुखिनः सर्वदुःखविवर्जिताः । रक्ता धर्मे न पश्यन्ति दुःखान्धर्मोऽभिजायते ॥ ५०
उत्तराणां कुरूणां तु पार्थे ज्ञेयं तु दक्षिणे । समुद्रमूर्णिमालाढ्यं नानास्वरविभूषितम् ॥ ५१
पञ्चयोजनसाहस्रमतिक्रम्य सुरालयम् । चन्द्रद्वीपमिति ख्यातं चन्द्रमण्डलसंस्थितम् ॥ ५२
सहस्रयोजनानां तु सर्वतः परिमण्डलम् । नानापुष्पफलोपेतं समृद्ध्या परया युतम् ॥
शतयोजनविस्तीर्णमुच्छ्रितं तावदेव तु ॥ ५३
तस्य मध्ये गिरिवरः सिद्धचारणसेवितः । चन्द्रतुल्यप्रभैः कान्तश्चन्द्राकोरैः सुलक्षणैः ॥ ५४
श्वेतवैदूर्यकुमुदैश्चित्रोऽसौ कुमुदप्रभः । अनेकचित्रकोद्यानो नैकनिर्झरकन्दरः ।
महासानुदरीकुञ्जैर्र्विविधैः समलंकृतः ॥ ५५
तस्माच्छैलान्महापुण्या चन्द्रांशुविमलोदका । वहत्युत्तमन्दी चन्द्रावर्ती तरङ्गिणी ॥ ५६
तत्र चन्द्रमसः स्थानं नक्षत्राधिपतेर्वरम् । सदाऽवतरते तत्र चन्द्रमा ग्रहनायकः ॥ ५७
तत्र चन्द्रमसो नाम्ना शैलः स तु परिश्चुतः । चन्द्रद्वीपं महाद्वीपं प्रकाशं दिवि चेह च ॥ ५८
तत्र चन्द्रप्रतीकाशाः पूर्णचन्द्रनिभाननाः । चन्द्रकान्ताः प्रजाः सर्वा विमलाश्चन्द्रदैवताः ॥ ५९
अत्यन्तधार्मिकाः सौम्याः सत्यसंघाः सुतेजसः । प्रजास्तत्र सदाचारा दशवर्षशतायुषः ॥ ६०
पश्चिमेन तु द्वीपस्य मश्चिमस्य प्रकीर्तितम् । चर्तुयोजनसाहस्रं समतीत्य महोदधिम् ॥ ६१
दशयोजनसाहस्रं समन्तात्परिमण्डलम् । द्वीपं भद्राकरं नाम नानापुष्पोपशोभितम् ॥ ६२
प्रभूतधनधान्याढ्यामनेकनृपपालितम् । नित्यं प्रमुदितं स्फीतं महाशैलैश्च शोभितम् ॥ ६३
तत्र भद्रासनं वायोर्नानारत्नैश्च मण्डितम् । तत्र विग्रहवान्वायुः सदा पर्वसु पूज्यते ॥ ६४
तपनीयसुवर्णाभास्तपनीयविभूषिताः । विराजन्तेऽमरप्रख्यास्तत्र चित्राम्बरस्रजः ॥ ६५
वीर्यवन्तो महाभागाः पञ्चवर्षशतायुषः । सत्यन्सन्धा मुदा युक्ताः प्रजास्ता वायुदैवताः ॥ ६६
सूत उवाच--
एवमेव निसर्गोऽयं वर्षाणां भारते युगे । दृष्टः परमतत्त्वज्ञैर्भूयः किं कीर्तयामि ते ॥ ६७
[अ० ४५ श्लो० ६८-९६] वायुपुराणम् । १३७
( भुवनविन्यासः )
आख्याते त्वेवमृषयः सूतपुत्रेण धीमता । उत्तरश्रवणे भूयः पप्रच्छुस्तदनन्तरम् ॥ ६८
ऋषय ऊचुः—
यदिदं भारतं वर्षं यस्मिन्स्वायंभुवादयः । चतुर्दशैते मनवः प्रजासर्गे भवन्त्युत ॥ ६९
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम । एतच्छ्रुत्वा वचस्तेषामब्रवील्लोमहर्षणः ॥ ७०
पौराणिकस्तदा सूत ऋषीणां भावितात्मनाम् । एतद्विस्तरतो भूयस्तानुवाच समाहितः ॥ ७१
सूत उवाच—
निसर्ग एष विख्यातः कुरूणां तु यथार्थवत् । भारतस्य तु वक्ष्यामि निसर्गं तं निबोधत ॥ ७२
पुण्यतीर्थे हिमवतो दक्षिणस्यातलस्य हि । पूर्वपश्चायतस्यास्य दक्षिणेन द्विजोत्तमाः ॥ ७३
तथा जनपदानां च निस्तरं श्रोतुमर्हथ । अत्र वो वर्णयिष्यामि वर्षेऽस्मिन्भारते प्रजाः ॥ ७४
इदं तु मध्यमं चित्रं शुभाशुभफलोदयम् । उत्तरं यत्समुद्रस्य हिमवद्दक्षिणं च यत् ॥ ७५
वर्षं यद्भारतं नाम यत्रेयं भारती प्रजा । भरणाच्च प्रजानां वै मनुर्भरत उच्यते ॥
निरुक्तवचनाच्चैव वर्षं तद्भारतं स्मृतम् ॥ ७६
ततः स्वर्गश्च मोक्षश्च मध्यश्चान्तश्च गम्यते । न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ ७७
भारतस्यास्य वर्षस्य नव भेदाः प्रकीर्तिताः । समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥ ७८
इन्द्रद्वीपः कसेरुश्च ताम्रपर्णी गभास्तिमान् । नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥ ७९
अयं तु नवमस्तेषां द्वीपांः सागरसंवृतः । योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरम् ॥ ८०
आयतो ह्याकुमारिक्याद्गाङ्गाप्रभवाच्च वै । तिर्यगुत्तरविस्तीर्णाः सहस्राणि नवैव तु ॥ ८१
द्वीपो ह्युपानिविष्टोऽयं म्लेच्छैरन्तेषु नित्यशः । पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः ॥ ८२
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । इज्यायुद्धवणिज्याभिर्वर्तयन्तो व्यवस्थितः ॥ ८३
तेषां संव्यवहारोऽयं वर्तते तु परस्परम् । धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ॥ ८४
संकल्पपञ्चमानां तु आश्रमाणां यथाविधि । इह स्वर्गापवर्गार्थं प्रवृत्तिर्नैर्षु मानुषी ॥ ८५
यस्त्वयं नवमो दीपास्तिर्यगायत उच्यते । कृत्स्नं जयति यो ह्येनं स सम्राडिए कीर्त्यते ॥ ८६
अयं लोकस्तु वै सम्राडन्तरिक्षा विराट्समृतः । स्वराडन्यः स्मृतो लोकः पुनर्वक्ष्यामि विस्तरम् ॥ ८७
सप्त चास्मिन्सपर्वाणो विश्रुताः कुलपर्वताः । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥
विंध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ ८८
तेषां सहस्रशश्चान्ये पर्वतास्तु समीपगाः । अभिजाताः सर्वगुणा विपुलाश्चित्रसानवः ॥ ८९
मन्दरः पर्वतश्रेष्ठो वैहारो दर्दुरस्तथा । कोलाहलः ससुदसो मैनाको वैद्युतस्तथा ॥ ९०
पातंधमो नाम गिरिस्तथा पाण्डुरपर्वतः । गन्तुप्रस्थः कृष्णगिरिर्गोधनो गिरिरेव च ॥ ९१
पुष्पगिर्युज्जयन्तो च शैलौ रैवतकस्तथा । श्रीपर्वतश्च कारुश्च कूटशैलो गिरिस्तथा ॥ ९२
अन्ये तेभ्यः परिज्ञाता ह्रस्वाः स्वल्पोपजीविन । तैर्विमिश्रा जनपदा आर्यम्लेच्छाश्च नित्यशः ॥ ९३
पीयन्त यैरिमा नद्यो गङ्गा सिन्धुसरस्वती । शतद्रुश्चन्द्रभागा च यमुना सरयूस्तथा ॥ ९४
इरावती वितस्ता च विपाशा देविका कहूः । गोमती धूतपापा च बाहुदा च दृषद्वती ॥ ९५
कौशिकी च तृतीया तु निश्चीरा गण्डकी तथा । इक्षुर्लोहित इत्येता हिमवत्पादनिःसृताः ॥ ९६
१८
१३८ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०४५श्लो०९७–१२२]
( भुवनविन्यासः )
वेदस्मृतिर्वेदवती वृत्रघ्नी सिन्धुरेव च । वर्णाशा चन्दना चैव सतीरा महती तथा ॥ ९७
परा चर्मण्वती चैव विदिशा वेत्रवत्यपि । शिप्रा ह्यवन्ती च तथा पारियात्राश्रयाः स्मृताः ॥ ९८
शोणो महानदश्चैव नर्मदा सुमहाद्रुमा । मन्दाकिनी दशार्णा च चित्रकूटा तथैव च ॥ ९९
तमसा पिप्पला श्रोणी करतोया पिशाचिका । नीलोत्पला विपाशा च जम्बुला वालुवाहिनी ॥ १००
सितेरजा शुक्तिमती मक्रुणा त्रिदिवा क्रमात् । ऋक्षपादप्रसूताश्च नद्यो मणिनिभोदकाः ॥ १०१
तापी पयोष्णी निर्बन्ध्या मद्रा च निषधा नदी । वेन्वा वैतरणी चैव शितिबाहुः कुमुद्वती ॥ १०२
तोया चैव महागौरी दुर्गा चान्तःशिला तथा । विन्ध्यपादप्रसूताश्च नद्यः पुण्यजलाः शुभाः ॥ १०३
गोदावरी भीमरथी कृष्णा वैण्यथ वञ्जुला । तुङ्गभद्रा सुप्रयोगा कावेरी च तथाऽऽपगा ॥
दक्षिणापथनद्यस्तु सह्यपादाद्विनिःसृताः ॥ १०४
कृतमाला ताम्रपर्णी पुष्पजात्युत्पलावती । मलयाभिजातास्ता नद्यः सर्वाः शीतजलाः शुभाः ॥ १०५
त्रिसामा क्रतुकुल्या च इक्षुला त्रिदिवा च या । लाङ्गलीनी वंशधरा महेन्द्रतनयाः स्मृताः ॥ १०६
ऋषीका सुकुमारी च मन्दगा मन्दवाहिनी । कूपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ॥ १०७
सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः । विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः ॥
तासां नद्युपनद्योऽपि शतशोऽथ सहस्रशः । तास्त्विमे कुरुपञ्चालाः शाल्वाश्चैव सजाङ्गलाः ॥
शूरसेना भद्रकारा बोधाः शतपथेश्वरैः । वत्साः किसष्णाः कुल्याश्च कुन्तलाः काशिकोशलाः ॥
अर्थपाश्च तिलङ्गाश्च मगधाश्च वृकैः सह । मध्यदेशा जनपदाः प्रायशोऽमी प्रकीर्तिताः ॥ १११
(*सह्यस्य चोत्तरार्धे तु यत्र गोदावरी नदी । पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ ११२
[+तत्र गोवर्धनो नाम सुरराजेन निर्मितः) । रामाप्रियार्थं स्वर्गोऽयं वृक्षा ओषधयस्तथा ॥ ११३
भरद्वाजेन मुनिना तत्प्रियार्थेऽवतारिताः । अन्तःपुरवनोद्देशस्तेन जज्ञे मनोरमः ] ॥ ११४
बाह्लीका वाटधानाश्च आभीराः कालतोयकाः । अपरीताश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः ॥ ११५
गान्धारा यवनाश्चैव सिन्धुसौवीरभद्रकाः । शका हृदाः कुलिन्दाश्च परितो हारपूरिकाः ॥ ११६
रमता रद्धकटका केकया दशमानिकाः । क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ॥ ११७
काम्बोजा दरदाश्चैव बर्बराः प्रियलौकिकाः । पीनाश्चैव तुषाराश्च पह्नवा बाह्यतोदराः ॥ ११८
आत्रेयाश्च भरद्वाजाः प्रस्थलाश्च कसेरुकाः । लम्पाकाः स्तनपाश्चैव पीडिका जुहुडैः सह ॥ ११९
अपगाश्चालिमद्राश्च किरातानां च जातयः । तोमरा हंसमार्गाश्च काश्मीरास्तङ्गणास्तथा ॥ १२०
चूलिकाश्चाहुकाश्चैव पूर्णदर्वास्तथैव च । एते देशा ह्युदीच्याश्च प्राच्यान्देशान्निबोधत ॥ १२१
अन्ध्रवाकाः सुजरका अन्तर्गिरिबहिर्गिराः । तथा प्रवड्गवङ्गेयामालदा मालवर्तिनः ॥ १२२
* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
[अ०४५-४६श्लो०१२३-१३७।१-४] वायुपुराणम्। १३९
( भुवनविन्यासः )
ब्रह्मोत्तराः प्रविजया भार्गवा गेयमर्थकाः। प्राग्ज्योतिषाश्च मुण्डाश्च विदेहास्ताम्रलिप्तकाः ॥
माला मगधगोविन्दाः प्राच्यां जनपदाः स्मृताः ॥ १२३
अथापरे जनपदा दक्षिणापथवासिनः। पाण्ड्याश्च केरलाश्चैव चौल्याः कुल्यास्तथैव च ॥ १२४
सेतुका मूषिकाश्चैव कुमना वनवासिकाः। महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ॥ १२५
अ( आ )भीराः सहचैषीका आटव्याश्च वराश्च ये। पुलिन्दा विन्ध्यमूलीका वैदर्भा दण्डकै सह ॥
पौनिका मौनिकाश्चैव अस्मका भोगवर्धनाः। नैर्णिकाः कुन्तला अन्ध्रा उद्भिदा नलकालिकाः ॥
दाक्षिणात्याश्च वै देशा अपरांस्तान्निबोधत। सूर्पाकाराः कोलवना दुर्गाः कालीतकैः सह ॥ १२८
पुलेयाश्च सुरालाश्च रूपसास्तापसैः सह । तथा सुरसिताश्चैव सर्वे चैव परक्षराः ॥ १२९
नासिक्याद्याश्च ये चान्ये ये वै चान्तरनर्मदाः। भानुकच्छाः समाहेयाः सहसा शाश्वतैरपि ॥ १३०
कच्छीयाश्च सुराष्ट्राश्च आनर्त्ताश्चार्बुदैः सह। इत्येते संपरीताश्च शृणुध्वं विन्ध्यवासिनः ॥ १३१
मालवाश्च करूषाश्च रोकलाश्चोत्कलैः सह। उत्तमार्णा दशार्णाश्च भोजाः किष्किन्धकैः सह ॥
तोसलाः कोसलाश्र्वैव त्रैपुरा वैदिकास्तथा। तुमुरास्तुम्बुराश्चैव षट्सुरा निषधैः सह ॥ १३३
अनूपास्तुण्डिकेराश्च वीतिहोत्रा ह्यवन्तयः। एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः ॥ १३४
अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये। निगर्हरा हंसमार्गाः क्षुपणास्तङ्गणाः खसाः ॥ १३५
कुशप्रावरणाश्चैव हूणा दर्वाः सहूदकाः। त्रिगर्ता मालवाश्चैव किरातास्तामसैः सह ॥ १३६
चत्वारि भरते वर्षे युगानि कवयो विदुः। कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम् ॥
तेषां निसर्गं वक्ष्यामि उपरिष्टान्निबोधत ॥ १३७
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-- ३३८५
अथ षट्चत्वारिंशोऽध्यायः।
भुवनविन्यासः।
(*सूत उवाच--
एतच्छ्रुत्वा तु ऋषय उत्तरं पुनरेव ते। शुश्रूषवा मुदा युक्ताः पप्रच्छुर्लोमहर्षणम् ॥ १
ऋषय ऊचुः--
यच्च किंपुरुषं वर्षे हरिवर्षं तथैव च। आचक्ष्व नो यथा तत्त्वं कीर्तितं भारतं त्वया ॥ २
पृष्टस्त्विदं यथा विप्रैर्यथाप्रक्षं विशेषतः। उवाच मुनिनिर्दिष्टं पुराणं विहितं यथा ॥ ३
सूत उवाच--
शुश्रूषा यत्र वो विप्रास्तच्छृणुध्वं मुदा युताः। प्लक्षखण्डः किंपुरुषे सुमहान्नन्दनोपमः ॥ ४
*इदं नास्ति ग. घ. ङ. पुस्तकेषु।
१४० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०४६श्लो०५-३२]
(भुवनविन्यासः)
दश वर्षसहस्राणि स्थितिः किंपुरुषे स्मृता। सुवर्णवर्णाश्च नरा स्त्रियश्चाप्सरसोपमाः ॥ ५
अनामया ह्यशोकाश्च सर्वे ते शुद्धमानसाः। जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः ॥ ६
वर्षे किंपुरुषे पुण्ये प्लक्षो मधुवहः शुभः। तस्य किंपुरुषाः सर्वे पिबन्ति रसमुत्तमम् ॥ ७
अतः परं किंपुरुषाद्धारिवर्षः प्रवक्ष्यते । महारजतसंकाशा जायन्ते तत्र मानवाः ॥ ८
देवलोकाच्च्युताः सर्वे देवरूपाश्च सर्वशः। हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम् ॥ ९
एकादश सहस्राणि वर्षाणां तु मुदा युताः । हरिवर्षे तु जीवन्ति सर्वे मुदितमानसाः ॥
न जरा बाधते तत्र जीर्यन्ति न च ते नराः ॥ १०
मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम् । न तत्र सूर्यस्तपति न च जीर्यन्ति मानवाः ॥ ११
चन्द्रसूर्यौ सनक्षत्रावप्रकाशाविलावृते । पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ॥
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥ १२
जम्बूरसफलाहारा ह्यनिष्यन्दाः सुगन्धिनः । मनस्विनो भुक्तभोगाः सत्कर्मफलभागिनः ॥ १३
देवलोकाच्च्युताः सर्वे जायन्ते ह्यजरामराः । त्रयोदश सहस्राणि वर्षाणां ते नरोत्तमाः ॥ १४
आयुष्प्रमाणं जीवन्ति ये तु वर्षे त्विलावृते । मेरोः प्रतिदिशं ते तु नवसाहस्रविस्तृते ॥ १५
योजनानां सहस्राणि षड्विंशस्तस्य विस्तरः । चतुरस्रः समन्ताच्च शरावाकारसंस्थितः ॥ १६
मेरोस्तु पश्चिमे भागे नवसाहस्रसंमिते । चतुस्त्रिंशत्सहस्राणि गन्धमादनपर्वतः ॥ १७
उदग्दक्षिणतश्चैव आनीलनिषधायतः। चत्वारिंशत्सहस्राणि परिवृद्धो महीतलात् ॥
सहस्रमवगाढस्तु तावदेव तु विष्ठितः ॥ १८
पूर्वेण माल्यवाञ्छैलस्तत्प्रमाणः प्रकीर्तितः । दक्षिणेन तु नलिस्य निषधस्योत्तरेण तु ॥ १९
तेषां मध्ये महामेरुः सुप्रमाणः प्रकीर्तितः। सर्वेषामेव शैलानामवगाढो यथा भवेत् ॥ २०
विस्तरस्तत्प्रमाणः स्याद्यायामे नियतः स्मृतः । वृत्तभावात्समुद्रस्य महीमण्डलभावनः ॥ २१
आयामाः परिहीयन्ते चतुरस्राः समस्ततः । अनावृत्ताश्चतुष्केण भिद्यन्ते मध्यभागतः ॥ २२
प्रभिन्नाञ्जनसंकाशा जम्बूरसवती नदी । मेरोस्तु दक्षिणे पार्श्वे निषधस्योत्तरेण तु ॥ २३
सुदर्शनो नाम महाजम्बूवृक्षः सनातनः । नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ॥ २४
तस्य नाम्ना समाख्यातो जम्बूद्वीपे वनस्पतिः । योजनानां सहस्रं तु शतं चान्यन्महाद्रुमः ॥
उत्सेधो वृक्षराजस्य दिवं स्पृशति सर्वशः ॥ २५
अरत्नीनां शतान्वष्टावेकषष्ट्यधिकानि तु । फलप्रमाणं संख्यातमृषिभिस्तत्त्वदर्शिभिः ॥ २६
पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् । तस्या जम्बूवाः फलरसो नदीभूय प्रसर्पति ॥ २७
मेरुं प्रदक्षिणीकृत्य जम्बूवृक्षं विशत्यथः । ते पिबन्ति सदा हृष्टा जम्बूरसफलावृताः ॥ २८
जम्बूरसफलं पीत्वा न जरां प्राप्नुवन्ति ते । न क्रोधं न च रोगं तु न च मृत्युं तथाविधम् ॥ २९
तत्र जाम्बूनदं नाम कनकं देवभूषणम् । इन्द्रगोपकसंकाशं जायत भास्वरं तु तत् ॥ ३०
सर्वेषां वर्षवृक्षाणां शुभः फलरसस्तु सः । स्कन्नं भवति तच्छुक्रं कनकं देवभूषणम् ॥ ३१
तषां मूत्रं पुरीषं च दिक्षु सर्वासु भागशः । ईश्वरानुग्रहाद्भूमिर्मृतांश्च ग्रसते तु तान् ॥ ३२