वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
एवमेव महाभागाः प्रणवं संप्रविश्य ह । ब्रह्मलोके प्रवर्तामस्तन्नः श्रेयो भविष्यति ॥ ७७
४०२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १०१ श्लो० ७४-९७]
( भूर्लोकादिव्यवस्थावर्णनम् )
सर्वे सूक्ष्मशरीरास्ते विद्वांसो घनमूर्तयः । स्थितलोकस्थितत्वाच्च तेषां भूतं न विद्यते ॥ ७४
ऊचुः सनत्कुमाराद्याः सिद्धास्ते योगधर्मिणः । ख्यातिं नैमित्तिकीं तेषां पर्याये समुपस्थिते ॥ ७५
स्थानत्यागे मनश्चापि युगपत्संप्रवर्तते । ऊचुः सर्वे तदाऽन्योन्यं वैराजाः शुद्धबुद्धयः ॥ ७६
एवमेव महाभागाः प्रणवं संप्रविश्य ह । ब्रह्मलोके प्रवर्तामस्तन्नः श्रेयो भविष्यति ॥ ७७
एवमुक्त्वा तदा सर्वे ब्रह्मान्ते व्यवसायिनः । योजयित्वा तदाऽऽत्मानं वर्तन्ते योगधर्मिणः ॥ ७८
तत्रैव संप्रलीयन्ते शान्ता दीपार्चिषो यथा । ब्रह्मकायमवर्तन्त पुनरावृत्तिदुर्लभम् ॥ ७९
लोकं तं समनुप्राप्य सर्वे ते भावनामयम् । आनन्दं ब्रह्मणः प्राप्य अमृतत्वाय ते गताः ॥ ८०
* वैराजेभ्यस्तथैपोर्ध्वमन्तरे षड्गुणे सतः । ब्रह्मलोकः समाख्यातो यत्र ब्रह्मा पुरोहितः ॥ ८१
ते सर्वे प्रणवात्मानो बुद्धशुद्धतपास्तथा । आनन्दं ब्रह्मणः पाप्यामृतत्वं च भजन्त्युत ॥ ८२
द्वंद्वैस्ते नाभिभूयन्ते भावत्रयविवर्जिताः । आधिपत्यं विना तुल्या ब्राह्मणस्ते महौजसः ॥ ८३
प्रभावविजयैश्वर्यस्थितिवैराग्यदर्शनैः । ते ब्रह्मलौकिकाः सर्वे गतिं प्राप्य विवर्तनीम् ॥ ८४
ब्रह्मणा सह देवेश्व समाप्त प्रतिसंचरे । तपसोऽन्ते क्रियात्मानो बुद्धावस्था मनीषिणः ॥
अव्यक्ते संप्रलीयन्ते सर्वे ते क्षणदर्शिनः ॥ ८५
इत्येदमृतं शुक्लं नित्यमक्षयमव्ययम् । देवर्षयो ब्रह्मसत्रं सनातनमुपासते ॥ ८६
अपुनर्मार्गगादीनां तेषां चैवोर्ध्वरेतसाम् । कर्माभ्यासकृता शुद्धिर्वेदान्तेषूपलक्ष्यत ॥ ८७
तत्र तेऽभ्यासिनो युक्ताः परां काष्ठामुपासते । हित्वा शरीरं पाप्मानममृतत्वाय ते गताः ॥ ८८
वीतरागा जितक्रोधा निर्मोहाः सत्यवादिनः । शान्ताः प्रणिहितात्मानो दयावन्तो जितेन्द्रियाः ॥ ८९
निःसङ्गाः शुचयश्चैव ब्रह्मसायो (यु) ज्यगाः स्मृताः । अकामयुक्तैर्ये वीरास्तपोभिर्दग्धाकिल्विषाः
तेषामभ्रंशिनो लोका अप्रमेयसुखाः स्मृताः ॥ ९०
एतद्ब्रह्मपदं दिव्यं परमं व्योम्नि भास्वरम् । यत्र गत्वा न शोचन्ति ह्यमरा ब्रह्मणा सह ॥ ९१
ऋषय ऊचुः--
कस्मादेष परार्धश्च कश्चैष पर उच्यते । एतद्वेदितुमिच्छामस्तन्नो निगद ससम ॥ ९२
सूत उवाच--
शृणुध्वं मे परार्थे च परिसंख्यां परस्य च । एकं दश शतं चैव सहस्रं चैव संख्यया ॥ ९३
विज्ञेयमासहस्रं तु सहस्राणि दशायुतम् । एकं शतसहस्रं तु नियुतं प्रोच्यते बुधैः ॥ ९४
तथा शतसहस्राणामर्बुदं कोटिरुच्यते । अर्बुदं दश कोट्यस्तु अब्जं कोटिशतं विदुः ॥ ९५
सहस्रमपि कोटीनां खर्वमाहुर्मनीषिणः । दशकोटिसहस्राणि निखर्वमिति तं विदुः ॥ ९६
शतं कोटिसहस्राणां शङ्कुरित्याभिधीयते । सहस्रं तु सहस्राणां कोटीनां दशधा पुनः ॥
गुणितानि समुद्रं वै प्राहुः संख्याविदो जनाः ॥ ९७
* इत आरभ्य 'भजन्त्यत' इत्यन्तग्रन्थो घ. पुस्तके नास्ति ।
[अ० १० । श्लो० ९८–१२२] वायुपुराणम् ४०३
( भूर्लोकादिव्यवस्थावर्णनम् )
कोटीनां सहस्रमयुतामित्ययं मध्य उच्यते । कोटिसहस्रनियुता स चान्त इतिसंज्ञितः ॥ ९८
कोटिकोटिसहस्राणि परार्धं इति कीर्त्यते । परार्धं द्विगुणं चापि परमाहुर्मनीषिणः ॥ ९९
शतमाहुः परिट्ठं सहस्रं परिपद्मकम् । विज्ञेयमयुतं तस्मान्नियुतं प्रयुतं ततः ॥ १००
अर्बुदं न्यर्बुदं चैव स्वबुर्दं च ततः स्मृतम् । खर्वं चैव निखर्वं च शङ्कुं पद्मं तथैव च ॥ १०१
समुद्रं मध्यमं चैव परार्धमपरं ततः । एवमष्टादशैतानि स्थानानि गणनाविधौ ॥ १०२
शतानीति विजानीयात्संज्ञितानि महर्षिभिः । कल्पसंख्या प्रवृत्तस्य परार्धं ब्रह्मणः स्मृतम् ॥ १०३
तावच्छेषोऽपि कालोऽस्य तस्यान्ते प्रतिसृज्यते । पर एष परार्धश्च संख्यातः संख्यया मया ॥ १०४
यस्मादस्य परं वीर्यं परमायुः परं तपः । परा शक्तिः परो धर्मः परा विद्या परा धृतिः ॥ १०५
परं ब्रह्मा परं ज्ञानं परमैश्वर्यमेव च । तस्मात्परतरं भूतं ब्रह्मणोऽन्यन्न विद्यते ॥ १०६
परे स्थितो ह्येष परः सर्वार्थेषु ततः परः । संख्यातस्तु परा ब्रह्मा तस्यार्धं तु परार्धता ॥ १०७
संख्येयं चाप्यसंख्येयं सततं चापि तत्रिकम् । संख्येयं संख्यया दृष्टमपरार्द्धाद्विभाष्यते ॥ १०८
राशौ दृष्टे न संख्याऽस्ति तदसंख्यस्य लक्षणम् । अनपत्यं सिकतास्वेषु(?)दृष्टवान्पञ्चलक्षणम् ॥ १०९
ईश्वरैस्तत्त्वसंख्यातं शुद्धत्वाद्दिव्यदृष्टिभिः । एवं ज्ञानप्रतिष्ठत्वात्सर्वं ब्रह्मानुपश्यति ॥ ११०
ततच्छ्रुत्वा तु ते सर्वे नैमिषेयास्तपस्विनः । बाष्पपर्याकुलाक्षास्तु प्रहर्षाद्गद्गदस्वराः ॥ १११
पप्रच्छुर्मातरिश्वानं सर्वे ते ब्रह्मवादिनः । ब्रह्मलोकस्तु भगवन्कयावन्मात्रान्तरः प्रभो ॥ ११२
योजनाग्रेण संख्यातं साधनं योजनस्य तु । कोशस्य च परीमाणं श्रोतुमिच्छामि तत्त्वतः ॥ ११३
तेषां तद्वचनं श्रुत्वा मातरिश्वा विनीतवाक् । उवाच मधुरं वाक्यं यथादृष्टं यथाक्रमम् ॥ ११४
वायुरुवाच—
एतद्वोऽहं प्रवक्ष्यामि शृणुध्वं मे विवक्षितम् । अव्यक्ताद्दष्टकभागो वै महास्थूलो विभाव्यते ॥ ११५
दशौघ महतां भागा भूतादिः स्थूल उच्यते । दशभागाधिकं चापि भूतादेः परमाणुकः ॥ ११६
परमाणुः सुसूक्ष्मस्तु भावग्राह्यो न चक्षुषा । यदभेद्यतमं लोके विज्ञेयं परमाणु तत् ॥ ११७
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । प्रथमं तत्प्रमाणानां परमाणुं प्रचक्षते ॥ ११८
* अष्टानां परमाणूनां समवायो यदा भवेत् । त्रसरेणुः समाख्यातस्तत्पद्मरज उच्यते ॥ ११९
त्रसरेणवश्च येऽप्यष्टौ रथरेणुस्तु स स्मृतः । तेऽप्यष्टौ समवायस्था बलाग्रं तत्स्मृतं बुधैः ॥ १२०
बलाग्राण्यष्ट लिक्षा स्याद्यूका तच्चाष्टकं भवेत् । यूकाष्टकं यवं प्राहुरङ्गुलं तु यवाष्टकम् ॥ १२१
द्वादशाङ्गुलपर्वाणि वितस्तिस्थानमुच्यते । रत्निश्वाङ्गुलिपर्वाणि विज्ञेयो ह्येकविंशतिः ॥ १२२
* नास्त्ययं श्लोकः ख. घ. पुस्तकयोः ।
४०४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०१श्लो०१२३-१४९]
( भूर्लोकादिव्यवस्थावर्णनम् )
चत्वारि विंशतिश्चैव हस्तः स्यादङ्गुलानि तु । किष्कुर्द्विरत्निविज्ञेयो द्विचत्वारिंशदङ्गुलः ॥ १२३
षण्णवत्यङ्गुलं चैव धनुरार्हुर्मनीषिणः । एतद्गव्यूतिसंख्यार्थोपादोनं धनुषः स्मृतम् ॥ १२४
धनुर्दण्डो युगं नाली तुल्यान्येतान्यथाङ्गुलैः । धनुषस्त्रिंशतं नलवमाहुः संख्याविदो जनाः ॥ १२५
धनुःसहस्रे द्वे चापि गव्यूतिरुपादिश्यते । अष्टौ धनुःसहस्राणि योजनं तु विधीयते ॥ १२६
एतेन धनुषा चैव योजनं तु समाप्यते । एतत्सहस्रं विज्ञेयं शक्रकोशान्तरं तथा ॥ १२७
योजनानां तु संख्यातं संख्याज्ञानविशारदैः । एतेन योजनाग्रेण शृणुध्वं ब्रह्मणोऽन्तरम् ॥ १२८
महीतलात्सहस्राणां शतादूर्ध्वं दिवाकरः । दिवाकरात्सहस्रेण तावदूर्ध्वं निशाकरः ॥ १२९
पूर्णं शतसहस्रं तु योजनानां निशाकरात् । नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ॥ १३०
शतं सहस्रं संख्यातो मेरुर्द्विगुणितं पुनः । ग्रहान्तरमथैकैकमूर्ध्वं नक्षत्रमण्डलात् ॥ १३१
ताराग्रहाणां सर्वेषामधस्ताच्चरते बुधः । तस्योर्ध्वं चरते शुक्रस्तस्मादूर्ध्वं च लोहितः ॥ १३२
ततो बृहस्पतिश्चोर्ध्वं तस्मादूर्ध्वं शनैश्चरः । ऊर्ध्वं शतसहस्रं तु योजनानां शनैश्चरात् ॥ १३३
सप्तर्षिमण्डलं कृष्णमुपरिष्टात्प्रकाशते । ऋषिभिस्तु सहस्राणां शतादूर्ध्वं विभाव्यते ॥ १३४
योऽसौ तारामये दिव्ये विमाने हस्वरूपके । उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ॥ १३५
त्रैलोक्यस्यैष उत्सेधो व्याख्यातो योजनैर्मया । मन्वन्तरेषु देवानामिज्या यत्रैव लौकिकी ॥ १३६
वर्णाश्रमैभ्य इज्या तु लोकेऽस्मिन्या प्रवर्तते । सर्वासां देवयोनीनां स्थितिहेतुः स वै स्मृतः ॥ १३७
त्रैलोक्यमेतद्व्याख्यातमित ऊर्ध्वं निबोधत । ध्रुवादूर्ध्वं महर्लोको यस्मिंस्ते कल्पवासिनः ॥
* (एकयोजनकोटी सा इत्येवं निश्चयं गतम् । १३८
द्वे कोट्यौ तु महर्लोकाद्यस्मिंस्ते कल्पवासिनः) । यत्र ते ब्रह्मणः पुत्रा दक्षाद्या साधकाः स्मृताः ॥
चतुर्गुणेत्तरादूर्ध्वं जनलोकात्तपः स्मृतम् । वैराजा यत्र ते देवा भूतदाहविवर्जिताः ॥ १४०
षड्गुणं तु तपोलोकात्सत्यलोकान्तरं स्मृतम् । अपुनर्मारकामाणां(णां) ब्रह्मलोकः स उच्यते । १४१
यस्मान्न च्यवते भूयो ब्रह्माणं स उपाशते । एककोटिर्योजनानां पञ्चाशन्नियुतानि तु ॥ १४२
ऊर्ध्वभागस्ततोऽण्डस्य ब्रह्मलोकात्परः स्मृतः । चतुर(तस्र)श्चैव कोट्यस्तु नियुता पञ्चषष्टि च च ॥
एषोऽर्धांशप्रचारोऽस्य गत्यन्तश्चापरः स्मृतः । ध्रुवाग्रमेतद्व्याख्यातं योजनाग्रायथाश्रुतम्+ ॥ १४४
अधोगतर्निां वक्ष्यामि भूतानां स्थानकल्पनाम् । गच्छन्ति घोरकर्माणः प्राणिनो यत्र कर्मभिः ॥
नरको रौरवो रोधः सूकरस्ताल एव च । ( × तप्तकुम्भो महाज्वालः शबलोऽथ विमोचनः ॥ १४६
कृमी च कृमिभक्षश्च लालाभक्षो विशंसनः । अधःशिराः पूयवहो रुधिरान्धस्तथैव च ) ॥ १४७
तथा वैतरणं कृष्णमासिपत्रवनं तथा । अग्निज्वालो महाघोरः संदंशोऽथ थभोजनः ॥ १४८
तमश्च कृष्णसूत्रश्च लोहश्चाप्यासिरजस्तथा । अप्रतिष्ठोऽथ वीच्यश्चनरका ह्येवमादयः ॥ १४९
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + अत्राध्यायसमाप्तिः ख. पुस्तके । × धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
[अ० १०१ श्लो० १५०-१७४] वायुपुराणम् । ४०५
( भूर्लोकादिव्यवस्थावर्णनम् )
तामसा नरकाः सर्वे यमस्य विषये स्थिताः । येषु दुष्कृतकर्माणः पतन्तीह पृथक्पृथक् ॥ १५०
भूमेरधस्तात्ते सर्वे रौरवाद्याः प्रकीर्तिताः । रौरवे कूटसाक्षी तु मिथ्या यश्चाभिशंसति ॥
क्रूरग्रहे पक्षवादी ह्यसत्यः पतते नरः ॥ १५१
रोधे गोघ्नो भ्रूणहा च अग्निदाता पुरस्य च । सूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः ॥ १५२
ताले पतेत्क्षत्रियहा हत्वा वैश्यं च दुर्गतिम् । ब्रह्महत्यां च यः कुर्याद्यश्च स्याद्गुरुतल्पगः ॥ १५३
तप्तकुम्भी स्वसागामी तथा राजभटश्च यः । तप्तलोहे चाश्ववणिक्तथा बन्धनरक्षिता ॥ १५४
साध्वीविक्रयकर्ता च वस्तु भक्तं परित्यजेत् । महाज्वाले दुहितरं स्नुषां गच्छति यस्तु वै ॥ १५५
वेदो विक्रीयते येन वेदं दूषयते च यः । गुरूश्चैवावमन्यन्ते वाऽऽक्रोशैस्ताडयन्ति च ॥ १५६
अगम्यगामी च नरो नरकं शबलं व्रजेत् । विमोहे पतिते चौरो मर्यादां यो भिनत्ति वै ॥ १५७
दुरिष्टं कुरुते यस्तु कीटलोहं प्रपद्यते । ( * देवब्राह्मणविद्वेष्टा गुरूणां चाप्यपूजकः ॥
रत्नं दूषयते वस्तु कृमिभक्ष्यं प्रपद्यते ॥ १५८
पर्यश्नाति य एकोऽन्यो ब्राह्मणीं सुहृदः सताम् ) । लालाभक्षे स पतति दुर्गन्धे नरके गतः ॥ १५९
काण्डकर्ता कुलालश्च निष्पहर्ता चिकित्सकः । आरामेष्वग्निदाता यः पतते स विशंसने ॥ १६०
असत्प्रतिग्रही यश्च तथैवायाज्ययाजकः । नक्षत्रेर्जीविते यश्च नरो गच्छत्यधोमुखम् ॥ १६१
क्षीरं सुरां च मांसं च लाक्षां गन्धं रसं तिलान् । एवमादीनि विक्रीणन्धोरे पूयवहे पतेत् ॥ १६२
यः कुक्कुटानि बध्नाति मार्जारांस्कूक्रांश्च तान् । पक्षिणश्च मृगांश्छागान्सोऽयेनं नरकं व्रजेत् ॥
अजाविको माहिषकस्तथा चक्रध्वजी च यः । रङ्गोपजीविको विप्रः शाकुनिर्यामयाजकः ॥ १६४
अगारदाही गरदः कुण्डाशी सोमविक्रयी । सुरापो मांसभक्षश्च तथा च पशुघातकः ॥ १६५
विशस्ता महिषादीनां मृगहन्ता तथैव च । पर्वकारश्च सूची च पश्च स्यान्मित्रघातकः ॥
रुधिरान्धे पतन्त्येते एवमाहुर्मनीषिणः ॥ १६६
उपविष्टमेकपङ्क्त्यां विषमं भोजयन्ति ये । पतन्ति तरके घोरे विड्भुजे नात्र संशयः ॥ १६७
मृषावादी नरी पश्च तथा माक्रोशकोऽशुभा । पतति नरके घोरे मूत्राकीर्णे स पापकृत् ॥ १६८
मधुग्राहाभिहन्तारो यान्ति वैतरणीं तराः । उन्मत्ताश्चित्तभग्नाश्च शौचाचारविवर्जिताः ॥ १६९
क्रोधना दुःखदाश्चैव कुहकाकृष्टगामिनः । असिपत्रवने छेदी तथा सौरभ्रिकाश्च ये ॥
कर्तनैश्च विकृष्यन्ते मृगव्याधाः सुदारुणैः ॥ १७०
आश्रमप्रत्यवसिता जाग्नज्वाले पतन्ति वै । भोज्यन्ते श्यामशवलैरयस्तुण्डैश्च वायसैः ॥ १७१
इज्याव्रतसमालोपात्सन्दंशे नरके पतित् । स्कन्दते यदि वा स्वमे व्रतिनो ब्रह्मचारिणः ॥ १७२
पुत्रैरध्यापिता ये च पुत्रैराज्ञापिपाश्च ये । ते सर्वे मरके यान्ति नियतं तु श्वभोजने ॥ १७३
वर्णाश्रमविरुद्धाभि क्रोधहर्षसमन्विताः । कर्माणि ये तु कुर्वन्ति सर्वे निरयगामिनः (ण) ॥ १७४
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
४०६ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० १० । श्लो० १७५-१९८]
( भूर्लोकादिव्यवस्थावर्णनम् )
उपरिष्टात्थितो घोर उष्णआत्मा रौरवो महान् । सुदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः ॥
एवमादिक्रमेणैव वर्ण्यमानान्निबोधत । भूमेरधस्तात्सप्तैव नरकाः परिकीर्तिताः ॥ १७६
अधर्मसूनवस्ते स्युरन्धतामिस्रकादयः । रौरवः प्रथमस्तेषां महारौरव एव च ॥ १७७
अस्याधः पुनरप्यन्यः शीतस्तप इति स्मृतः । तृतीयः कालसूत्रः स्यान्महाहविर्विधिः स्मृतः ॥ १७८
अप्रतिष्ठश्चतुर्थः स्यादवीची पञ्चमः स्मृतः । लोहपृष्ठस्तमस्तेषामाविधेयस्तु सप्तमः ॥ १७९
घोरत्वाद्रौरवः प्रोक्तः साम्भको दहनः स्मृतः । सुदारुणस्तु शीतात्मा तस्याधस्तात्तमोऽधमः ॥ १८०
सर्पो निकृन्तनः प्रोक्तः कालसूत्रोऽतिदारुणः । थप्रतिष्ठे स्थितिर्नास्ति भ्रमस्तस्मिन्सुदारुणः ॥ १८१
अवीचिर्दारुणः प्रोक्तो यन्त्रसंपीडनाच्च सः । तस्मात्सुदारुणो लोहः कर्मणां क्षयणाच्च सः ॥ १८२
तथाभूते (त) शरीरत्वादविवै (वि)भ्यस्तु स स्मृतः । पीडाबन्धवधासङ्गादप्रतीकारलक्षणः ॥ १८३
ऊर्ध्वं शैलाभितास्ते तु निरालोकाश्च ते स्मृताः । दुःखोत्कर्षस्तु सर्वेषु अधर्मस्य निमित्ततः *
ऊर्ध्वं लोकैः समावेतौ निरालोकौ च तावुभौ । कूटाङ्गारप्रमाणैश्च शरीरी सूत्रनायकाः ॥ १८४
उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः । दुःखमकर्षश्चोग्रस्तु तेषु सर्वेषु वै स्मृतः ॥ १८५
यातनाश्चाप्यसंख्येया नारकाणां तथा स्मृताः । तत्रानुभूय ते दुःखं क्षीणे कर्मणि वै पुनः ॥ १८६
तिर्यग्योनौ प्रसूयन्ते कर्मशेषे गते ततः । देवाश्च नारकाश्चैव ऊर्ध्वं चाधश्च संस्थिताः ॥ १८७
धर्माधर्मनिमित्तेन सद्यो जायन्ति मूर्तयः । उपभोगार्थमुत्पत्तिरौपपत्तिककर्मतः ॥ १८८
पश्यन्ति नारकान्देवा ह्यधोवक्त्रानधोगतान् । नारकाश्च तथा देवान्सर्वान्पश्यन्त्यधोमुखान् ॥ १८९
अग्रमूलता यस्माद्धारणाश्च स्वभावतः । तस्मादूर्ध्वमधोभावो लोकालोके न विद्यते ॥ १९०
एषा स्वाभाविक़ी संज्ञा लोकालोके प्रवर्तते । अथाब्रुवन्पुनर्वायं ब्राह्मणाः सत्रिणस्तदा ॥ १९१
ऋषय ऊचुः—
सर्वेषामेव भूतानां लोकालोकनिवासिनाम् । संसारे संसरन्तीहयावन्तः प्राणिनश्च तान् ॥ १९२
संख्यया परिसंख्याय ततः प्रब्रूहि कृत्स्नशः । ऋषीणां तद्वचः श्रुत्वा मारुतो वाक्यमब्रवीत् ॥ १९३
वायुरुवाच—
न शक्या जन्तवः कृत्स्नाः प्रसंख्यातुं कथंचन । अनाद्यन्ताश्च संकीर्णा ह्यव्यूहेन व्यवस्थिताः ॥
गणना विनिवृत्तैषामानन्त्येन प्रकीर्तिताः ॥ १९५
न दिव्यचक्षुषा ज्ञातुं शक्या ज्ञानेन वा पुनः । चक्षुषा वै प्रसंख्यातुमितो ह्यन्ते नराधिपाः ॥ १९६
अनाव्यानादवेद्यत्वान्नैव प्रश्नो विधीयते । ब्रह्मणो संज्ञितं यत्तु संख्यया तन्निबोधत ॥ १९७
यः सहस्रतमो भागः स्थावराणां भवेदिह । पार्थिवाः क्रिमयस्तावत्संसेकाद्येषु संभवः ॥ १९८
* अत्र ख व पुस्तकोरधिकमर्धं वर्तते तद्यथा सुखोत्कर्षः स्मृतः सर्वे धर्मस्य हिः निमित्ततः । तथा ङ. पुस्तकेऽपि ‘दुःखोत्कर्षः स्मृतः सर्वे धर्मस्य हि निमित्ततः। इति।