सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

सनत्कुमारा वरजा मानसा ब्रह्मणः सुताः । सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ॥ ४५

११६ श्रीमहैपायनमुनिप्रणीतम्- [अ०३५-३६श्लो०४३-४७-१-१७]
(भुवनविन्यासः)

माल्यदामकलापैश्च विविधैर्गन्धशालिभिः । शाखाविलम्बी शुशुभे सिद्धचारणसेवितः ॥ ४३
प्रवालकुम्भसदृशैर्मधुपूर्णैः फलैः सदा । स ह्युत्तरकुरूणां तु केतुवृक्षः प्रकाशते ॥ ४४
सनत्कुमारा वरजा मानसा ब्रह्मणः सुताः । सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ॥ ४५
तत्र तैरागतज्ञानैः सत्त्वस्थैः पुण्यकीर्तिभिः । अक्षयं हेममपरं लोकं प्राप्तं सनातनम् ॥ ४६
तेषां नामाङ्कितो द्वीपः सप्तानां वै महात्मनाम् । दिवि चेह च विख्याता उत्तराः कुरवः सदा ॥४७

इति महापुराणे वायुप्रोक्ते जम्बूद्वीपवर्णनं नामपञ्चविंशोऽध्यायः ।
आदितः श्लोकानां समष्ट्यङ्काः-२७८३

अथ षट्त्रिंशोऽध्यायः ।

भुवनविन्यासः ।

सूत उवाच--
तेषां चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम् । अनुबन्धानि रम्याणि सर्वकालर्तुकानि च ॥ १
सारिकाभिर्मयूरैश्च चकोरैश्च मदोत्कटैः । शुकैश्च भृङ्गराजैश्च चित्रकैश्च समन्ततः ॥ २
जीवञ्जीवकनादैश्च हेमकानां च नादितैः । मत्तकोकिलनादैश्च वल्गूनां च निनादितैः ॥ ३
सुग्रीवकाञ्चनरवैः कलविङ्करुतैस्तथा । कूजितान्तरशब्दैश्च सुरम्याणि च सर्वशः ॥ ४
मदोत्कटैर्मधुकरैर्भ्रमरैश्च महालसैः । उपगीतवनान्तानि किन्नरैश्च क्वचित्क्वचित् ॥ ५
पुष्पवृष्टिं विमुञ्चन्ति मन्दमारुतकम्पिताः । तरवो यत्र दृश्यन्ते चारुपल्लवशोभिताः ॥ ६
स्तबकैर्मञ्जरीभिश्च ताम्रैः किशलयैस्तथा । मन्दवातवशाल्लोलैर्दोल्यायद्भिर्युतानि च ॥ ७
नानाधातुविचित्रैश्च कान्तरूपैः शिलाशतैः । शैलैः क्वचिद्विजश्रेष्ठा विन्यस्तैः शोभितानि च ॥ ८
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । सिद्धाप्सरोगणैश्चैव सेवितानि ततस्ततः ॥ ९
मनोहराणि चत्वारि देवाक्रीडनकान्यथ । चतुर्दिशमुदाराणि नाम्ना शृणुत तानि मे ॥ १०
पूर्वं चैत्ररथं नाम दक्षिणं नन्दनं वनम् । वैभ्राजं पश्चिमं विद्यादुत्तरं सवितुर्व॑नम् ॥ ११
महावनेषु चैतेषु निविष्टानि यथाक्रमम् । अनुबन्धानि रम्याणि विहङ्गैः कूजितानि च ॥ १२
वनैर्विस्तीर्णतीर्थानि महापुण्यवनानि च । महानागाधिवासानि सेवितानि महात्मभिः ॥ १३
सुरसामलतोयानि शिवानि सुसुखानि च । सिद्धे देवासुरवरैरुपस्पृष्टजलानि च ॥ १४
छत्रप्रमाणैर्विकचैर्महागन्धैर्मनोहरैः । पुण्डरीकैर्महापत्रैरुत्पलैः शोभितानि च ॥
महासरांसि चत्वारि तानि वक्ष्यामि नामतः ॥ १५
अरुणोदं सरः पूर्वं दक्षिणं मानसं स्मृतम् । शीतोदं पश्चिमसरो महाभद्रं तथोत्तरम् ॥ १६
अरुणोदं च पूर्वेण ये च शैलास्ततः स्मृताः । तान्कीर्त्यमानांस्तत्त्वेन शृणुध्वं विस्तरान्मम ॥ १७

[अ० ३६-३७श्लो० १८-३३-१-५] वायुपुराणम् । ११७
( भुवनविन्यासः )
शीतान्तश्च कुमुञ्जश्च सुवीरश्चाचलोत्तमः । विकङ्को मणिशीलश्च वृषभश्चाचलोत्तमः ॥ १८
मRole... महानीलोऽथ रुचकः सविन्दुर्मन्दरस्तथा । वेणुमांश्च सुमेधश्च निषधो देवपर्वतः ॥ १९
इत्येते पर्वतवरा अन्ये च गिरयस्तथा । पूर्वेण मन्दरस्यैते सिद्धवासा उदाहृताः ॥ २०
सरसो मानसस्येह दक्षिणा ये महाचलाः । ये कीर्तिता मया ते वै नामतस्तान्निबोधत ॥ २१
शैलस्त्रिशिखरश्चापि शिशिरश्चाचलोत्तमः । कालिञ्जश्च पतङ्गश्च रुचकश्चैव सानुमान् ॥ २२
ताम्राभश्च विशाखश्च तथा श्वेतोदरो गिरिः । समूलो विषधारश्च रत्नधारश्च पर्वतः ॥ २३
एकशृङ्गो महामूलो गजशैलः पिशाचकः । पञ्चशैलोऽथ कैलासो हिमवांश्चाचलोत्तमः ॥ २४
इत्येते देवचरिता ह्युत्कृष्टाः पर्वतोत्तमाः । दिग्भागे दक्षिणे प्रोक्ता मेरोरमरवर्चसः ॥ २५
अपरेण सितोदस्य सरसो द्विजसत्तमाः । उत्तमा ये महाशैलास्तान्प्रवक्ष्ये यथाक्रमम् ॥ २६
सुवक्षाः शिखिशैलश्च कालो वैदूर्यपर्वतः । कपिलः पिङ्गलो रुद्रः सुरसश्च महाचलः ॥ २७
कुमुदो मधुमांश्चैव अञ्जनो मुकुटस्तथा । कृष्णश्च पाण्डरश्चैव सहस्रशिखरश्च ह ॥ २८
पारिजातश्च शैलेन्द्रास्त्रिशृङ्गश्चाचलोत्तमः । इत्येते पर्वतवरा दिग्भागे पश्चिमे स्मृताः ॥ २९
महाभद्रस्य सरस उत्तरपाणि श्रीमतः । ये मया पर्वताः प्रोक्तास्तान्वादिष्ये यथाक्रमम् ॥ ३०
शङ्कुकूटो महाशैलो वृषभो हंसपर्वतः । नागश्च कपिलश्चैव इन्द्रशैलश्च सानुमान् ॥ ३१
नीलः कनकशुङ्गश्च शतशृङ्गश्च पर्वतः । पुष्पको मेघशैलश्च विराजश्चाचलोत्तमः ॥
जाराधिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ॥ ३२
एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम् । स्थाल्योऽभ्यन्तरद्रोणश्च सरांसि च निबोधत ॥ ३३
इति श्रीमद्महापुराणे वायुप्रोक्ते भुवनविन्यासो नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥
आदितः श्लोकानां समष्ट्यङ्काः—२८१६

अथ सप्तत्रिंशोऽध्यायः ।
भुवनविन्यासः ।

सूत उवाच—
शीतान्तस्याचलेन्द्रस्य कुमुञ्जस्यान्तरेण तु । द्रोण्यो विहङ्गसङ्घृष्टा नानासत्त्वनिषेविताः ॥ १
(* त्रियोजनशतायामा विस्तीर्णाः शतयोजनाः । सुरसामलपानीयैरम्यं तत्र सरोवरम् ॥ २
द्रोणायामप्रमाणैस्तु पुण्डरीकैः सुगन्धिभिः ।) सहस्रशतपत्रैर्हि महापद्मैर्लङ्कृतम् ॥ ३
महोरगैरध्युषितं + महाभोगैर्दुरासदैः । देवदानवगन्धर्वैरुपस्पृष्टं जलं शुभम् ॥ ४
पुण्यं तच्छीसरो नाम प्रकाशं दिवि चेह च । प्रसन्नजलसम्पूर्णं शरण्यं सर्वदेहिनाम् ॥ ५


* धनुश्चिह्नान्तर्गतग्रन्थो ड. पुस्तके नास्ति । + महाभोगैरित्यारभ्य सप्तचत्वारिंशाध्यायस्य-
षोडशश्लोकस्थब्रह्मपातो निवसतीत्यन्तग्रन्थः ख. पुस्तके नास्ति ।