वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 149, कुल 465 में से
संदर्भ में पढ़ें१४० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०४६श्लो०५-३२]
(भुवनविन्यासः)
दश वर्षसहस्राणि स्थितिः किंपुरुषे स्मृता। सुवर्णवर्णाश्च नरा स्त्रियश्चाप्सरसोपमाः ॥ ५
अनामया ह्यशोकाश्च सर्वे ते शुद्धमानसाः। जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः ॥ ६
वर्षे किंपुरुषे पुण्ये प्लक्षो मधुवहः शुभः। तस्य किंपुरुषाः सर्वे पिबन्ति रसमुत्तमम् ॥ ७
अतः परं किंपुरुषाद्धारिवर्षः प्रवक्ष्यते । महारजतसंकाशा जायन्ते तत्र मानवाः ॥ ८
देवलोकाच्च्युताः सर्वे देवरूपाश्च सर्वशः। हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम् ॥ ९
एकादश सहस्राणि वर्षाणां तु मुदा युताः । हरिवर्षे तु जीवन्ति सर्वे मुदितमानसाः ॥
न जरा बाधते तत्र जीर्यन्ति न च ते नराः ॥ १०
मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम् । न तत्र सूर्यस्तपति न च जीर्यन्ति मानवाः ॥ ११
चन्द्रसूर्यौ सनक्षत्रावप्रकाशाविलावृते । पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ॥
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥ १२
जम्बूरसफलाहारा ह्यनिष्यन्दाः सुगन्धिनः । मनस्विनो भुक्तभोगाः सत्कर्मफलभागिनः ॥ १३
देवलोकाच्च्युताः सर्वे जायन्ते ह्यजरामराः । त्रयोदश सहस्राणि वर्षाणां ते नरोत्तमाः ॥ १४
आयुष्प्रमाणं जीवन्ति ये तु वर्षे त्विलावृते । मेरोः प्रतिदिशं ते तु नवसाहस्रविस्तृते ॥ १५
योजनानां सहस्राणि षड्विंशस्तस्य विस्तरः । चतुरस्रः समन्ताच्च शरावाकारसंस्थितः ॥ १६
मेरोस्तु पश्चिमे भागे नवसाहस्रसंमिते । चतुस्त्रिंशत्सहस्राणि गन्धमादनपर्वतः ॥ १७
उदग्दक्षिणतश्चैव आनीलनिषधायतः। चत्वारिंशत्सहस्राणि परिवृद्धो महीतलात् ॥
सहस्रमवगाढस्तु तावदेव तु विष्ठितः ॥ १८
पूर्वेण माल्यवाञ्छैलस्तत्प्रमाणः प्रकीर्तितः । दक्षिणेन तु नलिस्य निषधस्योत्तरेण तु ॥ १९
तेषां मध्ये महामेरुः सुप्रमाणः प्रकीर्तितः। सर्वेषामेव शैलानामवगाढो यथा भवेत् ॥ २०
विस्तरस्तत्प्रमाणः स्याद्यायामे नियतः स्मृतः । वृत्तभावात्समुद्रस्य महीमण्डलभावनः ॥ २१
आयामाः परिहीयन्ते चतुरस्राः समस्ततः । अनावृत्ताश्चतुष्केण भिद्यन्ते मध्यभागतः ॥ २२
प्रभिन्नाञ्जनसंकाशा जम्बूरसवती नदी । मेरोस्तु दक्षिणे पार्श्वे निषधस्योत्तरेण तु ॥ २३
सुदर्शनो नाम महाजम्बूवृक्षः सनातनः । नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ॥ २४
तस्य नाम्ना समाख्यातो जम्बूद्वीपे वनस्पतिः । योजनानां सहस्रं तु शतं चान्यन्महाद्रुमः ॥
उत्सेधो वृक्षराजस्य दिवं स्पृशति सर्वशः ॥ २५
अरत्नीनां शतान्वष्टावेकषष्ट्यधिकानि तु । फलप्रमाणं संख्यातमृषिभिस्तत्त्वदर्शिभिः ॥ २६
पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् । तस्या जम्बूवाः फलरसो नदीभूय प्रसर्पति ॥ २७
मेरुं प्रदक्षिणीकृत्य जम्बूवृक्षं विशत्यथः । ते पिबन्ति सदा हृष्टा जम्बूरसफलावृताः ॥ २८
जम्बूरसफलं पीत्वा न जरां प्राप्नुवन्ति ते । न क्रोधं न च रोगं तु न च मृत्युं तथाविधम् ॥ २९
तत्र जाम्बूनदं नाम कनकं देवभूषणम् । इन्द्रगोपकसंकाशं जायत भास्वरं तु तत् ॥ ३०
सर्वेषां वर्षवृक्षाणां शुभः फलरसस्तु सः । स्कन्नं भवति तच्छुक्रं कनकं देवभूषणम् ॥ ३१
तषां मूत्रं पुरीषं च दिक्षु सर्वासु भागशः । ईश्वरानुग्रहाद्भूमिर्मृतांश्च ग्रसते तु तान् ॥ ३२