सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

मन्वन्तरस्यातितस्य स्मृताऽऽचारं पुनर्जगौ । तस्मात्स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागजः ॥ ३२

[अ० ५९ श्लो० ३०-५४] वायुपुराणम् । २०१

(ऋषिलक्षणम्:)

स्वयमाचरते यस्मादाचारं स्थापयत्यपि । आचिनोति च शास्त्रार्थानियमैः संनियमैर्युतः ॥ ३०
पूर्वेभ्यो वेद्यित्वेह श्रौतं सप्तर्षयोऽब्रुवन् । ऋचो यजूंषि सामानि ब्रह्मणोऽङ्गानि च श्रुतिः ॥ ३१
मन्वन्तरस्यातितस्य स्मृताऽऽचारं पुनर्जगौ । तस्मात्स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागजः ॥ ३२
स एष द्विविधो धर्मः शिष्टाचार इहोच्यते । शेषशब्दाच्छिष्ट इति शिष्टाचारः प्रचक्ष्यते ॥ ३३
मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः । मनुः सप्तर्षयश्चैव लोकसंतानकारणात् ॥
धर्मार्थं ये च शिष्टा वै याथातथ्यं प्रचक्षते ॥ ३४
मन्वादयश्च ये शिष्टा ये मया प्रागुदीरिताः । तैः शिष्टैश्चरितो धर्मः सम्यगेव युगे युगे ॥ ३५
त्रयी वार्ता दण्डनीतिरिज्या वर्णाश्रमस्तथा । शिष्टैराचार्यते यस्मान्मनुना च पुनः पुनः ॥
पूर्वैः पूर्वगतत्वाच्च शिष्टाचारः स शाश्वतः ॥ ३६
दानं सत्यं तपोऽलोभो विद्येज्याप्रजनौ दया । अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ॥ ३७
शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च वै । मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः ॥ ३८
विज्ञेयः श्रवणाम्छ्रौतः स्मरणात्स्मार्त उच्यते । इज्यावेदात्मकः श्रौतः स्मार्तो वर्णाश्रमात्मकः ३९
प्रत्यङ्गानि च वक्ष्यामि धर्मस्येह तु लक्षणम् ॥ ४०
दृष्ट्वा प्रभूतमर्थं यः पृष्टो वै न निगूहति । यथा भूतप्रवादस्तु इत्येतत्सत्यलक्षणम् ॥ ४१
ब्रह्मचर्यं जपो मौनं निराहारत्वमेव च । इत्येतत्तपसो मूलं सुघोरं तद्दुरासदम् ॥ ४२
पशूनां द्रव्यहविषामृक्सामयजुषां तथा । ऋत्विजां दक्षिणानां च संयोगो यज्ञ उच्यते ॥ ४३
आत्मवत्सर्वभूतेषु या हितायाहिताय च । समा प्रवर्तते दृष्टिः कृत्स्ना ह्येषा दया स्मृता ॥ ४४
आक्रुष्टोऽभिहतो वाऽपि नाऽऽक्रोशेद्यो न हन्ति वा । वाङ्मनःकर्मभिः क्षान्तिस्तितिक्षैषा क्षमा स्मृता ॥ ४५
स्वामिनाऽरक्ष्यमाणानामुत्सृष्टानां च सत्सु च । परस्वानामनादानमलोभ इह कीर्त्यते ॥ ४६
मैथुनस्यासमाचारो ह्यचिन्तनमकल्पनम् । निवृत्तिर्ब्रह्मचर्यं तदाच्छिद्रं दम उच्यते ॥ ४७
आत्मार्थं वा परार्थं वा इन्द्रियाणीह यस्य वै । न मिथ्या संप्रवर्तन्ते शमस्यैतत्तु लक्षणम् ॥ ४८
दशात्मके यो विषये कारणे चाष्टलक्षणे । न क्रुध्येत्तु प्रतिहतः स जितात्मा विभाव्यते ॥ ४९
यद्यदिष्टतमं द्रव्यं न्यायेनोपागतं च यत् । तत्तद्गुणवते देयमित्येतद्दानलक्षणम् ॥
दानं त्रिविधमित्येतत्कनिष्ठज्येष्ठमध्यमम् । तत्र नैःश्रेयसं ज्येष्ठं कनिष्ठं स्वार्थसिद्धये ॥
कारुण्यात्सर्वभूतेभ्यः सुविभागस्तु बन्धुषु ॥ ५०
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः । शिष्टाचाराविरुद्धश्च धर्मः सत्साधुसङ्गतः ॥ ५१
अपद्वेषो ह्यनिष्टेषु तथेष्टानभिनन्दनम् । प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता ॥ ५२
संन्यासः कर्मणो न्यासः कृतानामकृतैः सह । कुशलाकुशलानां च प्रहाणं त्याग उच्यते ॥ ५३
अव्यक्ताद्योऽविशेषाच्च विकाराऽस्मिन्नचेतने । चेतनाऽचेतनान्यत्वविज्ञानं ज्ञानमुच्यते ॥ ॥ ५४

२६

२०२ श्रीमद्द्वैपायनमुनिप्रणीतम्— [अ०५९–श्लो० ५५–७७]
(ऋषिलक्षणम् )

प्रत्यङ्गानां तु धर्मस्य इत्येतल्लक्षणं स्मृतम् । ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वे स्वायंभुवेऽन्तरे ॥ ५५
अत्र वो वर्तयिष्यामि विधिर्मन्वन्तरस्य यः । इतरेतरवर्णस्य च तुर्वर्णस्य चैव हि ॥
प्रतिमन्वन्तरं चैव श्रुतिरन्या विधीयते ॥ ५६
ऋचो यजूंषि सामानि यथावत्प्रतिदैवतम् । आभूतसंप्लवस्थायि वर्ज्यैकं शतरुद्रियम् ॥ ५७
विधिर्होत्रं तथा स्तोत्रं पूर्ववत्संप्रवर्तते । द्रव्यं स्तोत्रं गुणस्तोत्रं कर्मस्तोत्रं तथैव च ॥
चतुर्थमाभिजनिकं स्तोत्रमेतच्चतुर्विधम् ॥ ५८
मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये । प्रवर्तयति तेषां वै ब्रह्मा स्तोत्रं चतुर्विधम् ॥
एवं मन्त्रगुणानां च समुत्पत्तिश्चतुर्विधा ॥ ५९
अथर्वयजुषां साम्नां वेदेष्विह पृथक्पृथक् । ऋषीणां तप्यतामुग्रं तपः परमदुश्चरम् ॥ ६०
मन्त्राः प्रादुर्बभूवुर्हि पूर्वमन्वन्तरेष्विह । परितोषाद्भयाद्वाद्दुःखात्सुखाच्छोकाच्च पञ्चधा ॥ ६१
ऋषीणां तपः कात्स्न्र्येन दर्शनेन यदृच्छया । ऋषीणां यदृषित्वं दि तद्वक्ष्यामीह लक्षणैः ॥ ६२
अतीतानागतानां तु पञ्चधा ऋषिरुच्यते । अतस्त्वृषीणां वक्ष्यामि ह्यार्षस्य स समुद्भवम् ॥ ६३
गुणसाम्ये वर्तमाने सर्वसंप्लये तदा । अतिचारे तु देवानामविद्देशे तयोर्यथा ॥ ६४
अबुद्धिपूर्वकं तद्वै चेतनार्थं प्रवर्तते । तेन ह्यबुद्धिपूर्वं तच्चेतनेन ह्यधिष्ठितम् ॥ ६५
वर्तने च यथा तौ तु यथा मत्स्योदके उभौ । चेतनाधिष्ठिते तत्त्वं प्रवर्तति गुणात्मना ॥ ६६
कारणत्वात्तथा कार्यं तदा तस्य प्रवर्तते । विषयं विषयित्वाच्च ह्यर्थेऽर्थित्वात्तथैव च ॥ ६७
कालेन पापणीयेन भेदास्तु कारणात्मकाः । संसिध्यन्ति तदा व्यक्ताः क्रमेण महदादयः ॥ ६८
महतश्चाप्यहंकारस्तस्माद्भूतेन्द्रियाणि च । भूतभेदास्तु भेदेभ्यो जज्ञिरे ते परस्परम् ॥
सांसिद्धिकारणं कार्यं सद्य एव विवर्तते ॥ ६९
यथोलमुकस्फुटदूर्ध्वमेककालं प्रवर्तते । तथा विवृत्तः क्षेत्रज्ञः कालेनैकेन कर्मणा ॥ ७०
यथान्धकारे खद्योतः सहसा संप्रदृश्यते । तथा विवृत्तो ह्यव्यक्तात्खद्योत इव चालवणः ७१
स महान्सशरीरस्तु यत्रैवाग्रे व्यवस्थितः । तत्रैव संस्थितो विद्वान्द्वारशालामुखे स्थितः ॥ ७२
महांस्तु तमसः पारे वैलक्षण्याद्विभाष्यते । तत्रैव संस्थितो विद्वांस्तमसाऽन्त इति श्रुतिः ॥ ७३
बुद्धिविर्वर्तमानस्य प्रादुर्भूता चतुर्विधा । ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् ॥ ७४
सांसिद्धिकान्यथैतानि सुप्रतीकानि तस्य वै । महतः सशरीरस्य वैवत्यात्सिद्धिरुच्यते ॥ ७५
अत्र शेते च यत्पुर्यां क्षेत्रज्ञानमथापि वा । पुरीशत्वाच्च पुरुषः क्षेत्रज्ञानात्समुच्यते ॥ ७६
क्षेत्रज्ञः क्षेत्रविज्ञानाद्भगवान्मतिरुच्यते । यस्माद्बुबुद्धाऽनु शेते ह तस्माद्बोधात्मकः स वै ॥
संसिद्धये परिगतं व्यक्ताव्यक्तमचेतनम् ॥ ७७

[अ० ५९ श्लो० ७८-९७] वायुपुराणम् । २०३

( ऋषिलक्षणम् )

एवं निवृत्तिः क्षेत्रज्ञा क्षेत्रज्ञेनाभिसंहिता । क्षेत्रज्ञेन परिज्ञातो भोग्योऽयं विषयस्त्विति ॥ ७८
ऋषीत्येष गतौ धातुः श्रुतौ सत्ये तपस्यथ । एतत्संनियतस्तस्मिन्ब्रह्मणा स ऋषिः स्मृतः ॥ ७९
निवृत्तिसमकालं तु बुद्ध्याऽऽव्यक्तमृषिः स्वयम् । परं हि ऋषते यस्मात्परमर्षिस्ततः स्मृतः ॥ ८०
गत्यर्थादृषतेर्द्धातोर्नामानिर्वृत्तिरादितः । यस्मादेष स्वयंभूतस्तस्माच्च ऋषिता स्मृता ॥
ईश्वराः स्वयमुद्भूता मानसा ब्रह्मणः सुताः ॥ ८१
यस्मान्न हन्यते मानैर्महान्परिगतः पुरः । [* यस्माऽदृषन्ति ये धीरा महान्तं सर्वतो गुणैः ॥
तस्मान्महर्षयः प्रोक्ता बुद्धेः परमदर्शिनः :] ॥ ८२
ईश्वराणां शुभास्तेषां मानसा औरसाश्च ते । अहंकारं तपश्चैव त्यक्त्वा च ऋषितां गताः ॥ ८३
तस्मात्तु ऋषयस्ते वै भूतादौ तत्त्वदर्शनाः । ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसंभवाः ॥ ८४
तन्मात्राणि च सत्यं च ऋषन्ते ते महौजसः । सप्तर्षयस्ततस्ते वै परमाः सत्यदर्शनाः ॥ ८५
ऋषीणां च सुतास्ते तु विज्ञेया ऋषिपुत्रकाः । ऋषन्ति वै श्रुतं यस्माद्विशेषां चैव तत्त्वतः ॥
तस्माच्छ्रुतर्षयस्तेपि श्रुतस्य परिदर्शनात् ॥ ८६
अव्यक्तात्मा महात्मा चाहंकारात्मा तथैव च । भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते ॥
इत्येता ऋषिजातिस्तु नामाभिः पञ्च वै शृणुः ॥ ८७
भृगुर्मरीचिरत्रिश्च अङ्गिराः पुलहः क्रतुः । मनुर्दक्षो वशिष्ठश्च पुलस्त्यश्चेति ते दश ॥
ब्रह्मणो मानसा ह्येत उद्भूताः स्वयमीश्वराः ॥ ८८
प्रवर्तत ऋषेर्यस्मान्महांस्तस्मान्महर्षयः । ईश्वराणां सुतस्त्वेव ऋषयस्तान्निबोधत ॥ ८९
काव्यो बृहस्पतिश्चैव कश्यपश्चोशनास्तथा । उतथ्यो वामदेवश्च अयोज्यश्चौशिजस्तथा ॥ ९०
कर्दमो विश्रवाः शक्तिर्वालखिल्यस्तथा धराः । इत्येत ऋषयः प्रोक्ता ज्ञानतो ऋषितां गताः ॥ ९१
ऋषिपुत्रानृषीकांस्तु गर्भोत्पन्नान्निबोधत । वत्सरो नग्रहश्चैव भारद्वाजस्तथैव च ॥ ९२
बृहदुक्थः शारद्वतश्च अगस्त्यश्चौशिजस्तथा । ऋषिर्दीर्घतमाश्चैव बृहदुक्थ शरद्वतः ॥ ९३
वाजश्रवाः सुवित्तश्च सुवाग्वेषपरायणः । दधीचः शङ्खमांश्चैव राजा वैश्रवणस्तथा ॥
इत्येत ऋषिकाः प्रोक्तास्ते सत्यादृषितां गताः ॥ ९४
ईश्वरा ऋषिकाश्चैव ये चान्ये वै तथा स्मृता । एते मन्त्रकृतः सर्वे कृत्स्नशस्तान्निबोधत ॥ ९५
भृगुः काव्यः प्रचेतास्तु दधीचो ह्यात्मवानपि । और्वोऽथ जमदग्निश्च विदः सारस्वतस्तथा ॥ ९६
अद्रिषेणो ह्यरूपश्च वीतहव्यः सुमेधसः । वैन्यः पृथुर्दिवोदासः पश्चास्योगृत्समत्प्रभः ॥
एकोनविंशदित्येत ऋषयो मन्त्रवादिनः ॥ ९७


  • धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।

२०४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ५९, श्लो० ९८--१२२]
(ऋषिलक्षणम्)

अङ्गिरा वेधसश्चैव भारद्वाजोऽथ बाष्कलिः । तथाऽमृतस्तथा गार्ग्यः शेनी संहतिरेव च ॥ ९८
पुरुकुत्सोऽथ मांधाता अम्बरीषस्तथैव च । युवनाश्वः पौरुकुत्सस्त्रसदस्यूः सदस्युमान् ॥ ९९
आहार्योऽथाजमीढश्च ऋषभो बलिरेव च । पृषदश्वो विरूपश्च कण्वश्चैवाथ मुद्गलः ॥ १००
उतथ्यश्च भरद्वाजस्तथा वाजश्रवा अपि । आयाप्यश्च सुवित्तिश्च वामदेवस्तथैव च ॥ १०१
औगजो बृहदुक्थश्च ऋषिर्दीर्घतपस्तथा । कक्षीवांश्च त्रयस्त्रिंशत्स्मृता अङ्गिरसो वराः ॥
एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत ॥ १०२
कश्यपश्चैव वत्सारो विभ्रमो रैभ्य एव च । असितो देवलश्चैव षडेते ब्रह्मवादिनः॥ १०३
अत्रिरर्चिसनश्चैव श्यामावांश्चाथ निष्ठुरः । वल्गूतको मुनिर्धीमांस्तथा पूर्वातिथिश्थ यः ॥
इत्येते चात्रयः प्रोक्ता मन्त्रकारा महर्षयः ॥ १०४
वसिष्ठश्चैव शक्तिश्च तथैव च पराशरः । चतुर्थ इन्द्रप्रमतिः पञ्चमस्तु भरद्वसुः ॥ १०५
षष्ठस्तु मैत्रावरुणः कुण्डिनः सप्तमस्तथा । * एते सप्तर्षयो विप्रा ब्रह्मक्षेत्रनिवासिनः ॥ १०६
ब्रह्मक्षेत्रं महातीर्थं ब्रह्मणा निर्मितं पुरा । + कुरुक्षेत्रे पुण्यतमे पितामहनिषेविते ॥ १०७
देवानां च ऋषीणां च मुनीनां तत्र सङ्गमः । ब्रह्मणा च कृतं प्रश्नं क दृष्टा वायुदेवता ॥ १०८
ऋषिगणैस्तदा प्रोक्तं न दृष्टा (ष्टा) वायुदेवता । इति चिन्तयतां तेषामणुमात्रस्तु दृष्टवान् ॥ १०९
दृष्टं पुरं च तत्राऽऽसीद्वायोर्नाम्ना पुरं परम् । [× अष्टादशसहस्राणि द्विजाः संस्थापितास्तदा ॥ ११०
शूद्रास्ताद्विगुणास्तत्र स्थापिता मातरिश्वना । तानुवाच ततो देवो मातरिश्वा महाविभुः ॥ १११
यूयं मद्द्भक्तिकर्तारो मन्नाम्ना ख्यातिमाप्नुथ । द्वयं दूतं नु प्रत्येकं द्विजान्भजत भो द्विजाः ॥ ११२
भवतां तु भविष्यन्ति गोत्रा ह्ये (ण्ये) कादशैव हि । विवाहकालोऽभिमतश्चत्वरस्नपनादरः ॥ ११३
तत्राकोत्सासिहस्तास्तु रक्ष्याः सुबलिनो नराः । तत्र स्नानं न पश्यन्ति यथाऽन्ये स विधिः शुभः ॥
गोत्रजायाश्च नैवेद्यं तथाकार्यं पृथक्पृथक् । चतस्रः सुभगास्तत्र कुर्युः कुण्डनमादरात् ॥ ११५
एवमेष कुलाचारो भवतां कथितः कियान् । मर्जुनेन च वापीयं भवज्वरविनाशिनी ॥ ११६
अस्यां नान्याधिकारोऽस्ति मर्जुने मर्त्यपुङ्गवाः । षट् स्थानानि च मन्नाम्ना दृष्ट्वा पूतो भवेन्नरः । )
तत्तीर्थं भुवि विख्यातं हनूमान्यत्र जीवितः । तत्र वै स्थापिता विप्रा वायुना ब्रह्मवादिना ॥ ११८
देवत्रयाणामादेशाद्धर्मसंरक्षणाय च । यत्र रुद्रः स्थिरस्त्वाऽऽसीद्दिक्षु सर्वासु मूर्त्तिमान् ॥ ११९
वाडादित्यश्च देवेशः स्थापितो वायुना तदा । कामदः सर्वदः सूर्यो प्रभुरीशः प्रतापवान् ॥ १२०
सहस्रकरसंयुक्तः सर्वायुधविभूषितः । रत्नादेवीयुतः श्रीमांस्त्रयाधःरत्नयीमयः ॥ १२१
सूर्यकुण्डं च तत्राऽऽसीद्ब्रह्मकुण्डमतः परम् । रुद्रकुण्डं हरेः कुण्डमेतत्कुण्डचतुष्टयम् ॥ १२२


* एते सप्तर्षय इत्यारभ्य विधेया ब्राह्मणस्य त्वित्यन्तग्रन्थः क. ग. ङ. पुस्तकेषु नास्ति ।
+ इदमर्धं नास्ति घ. पुस्तके । × धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।

[अ० ५९।६० श्लो १२३-१४२।१-२] वायुपुराणम् । २०५

( महास्थानतीर्थवर्णनम् )

( * नव दुर्गाः स्थितास्तत्र क्षेत्रसंरक्षणाय च । वह्निद्वयं त्रिगुण्येशं तथा यज्ञचतुष्टयम् ) ॥ १२३
विवाहव्रतचूडासु करं तेषां प्रदीयते । आचारा विविधाः प्रोक्ता वाडवानां प्रयत्नतः ॥ १२४
तावन्तो द्विगुणाः शूद्रा यावन्तो ब्राह्मणाः स्मृताः । कुशरूपा द्विजाः पूर्वं मूर्तिमन्तस्ततः स्थिताः
मन्त्रैर्मन्त्रविदां श्रेष्ठैः कृता वै शास्त्रकोविदैः । वापीकूपतडागानि देवायतनानि च ॥ १२६
धर्मशालाऽपि बहुला वायुस्थाने महापुरे । रत्नावती स्वर्णमयी गङ्गा चामृतवाहिनी ॥ १२७
कलौ दृषद्वती नाम महापातकनाशिनी । वायुना स्थापितं ह्येतच्छासनं पापनाशनम् ॥ १२८
सुबन्दनं वनं तत्र रम्यं राजर्षिसेवितम् । एतत्स्थानं मया प्रोक्तं सर्वेषां च समासतः ॥ १२९
निरू(रु)पमाश्च ते विप्रा वायुना स्थापिताश्च ये । उपमा चैव देवेशि विधेया ब्राह्मणस्य तु॥ ]
( + सुद्युम्नाश्चाष्टमश्चैव नवमोऽथ बृहस्पतिः । दशमस्तु भरद्वाजो मन्त्रब्राह्मणकारकाः ॥ १३१
एते चैव हि कर्तारो विधर्मध्वंसकारिणः ) । लक्षणं ब्रह्मणश्चैतद्विहितं सर्वशाधिनाम् ॥ १३२
हेतुर्हितेः स्मृतो धातोर्यन्निहन्त्युदितं परैः । अथ वार्थपरिप्रोतेर्हिनोतेर्गतिकर्मणः ॥ १३३
तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम् । निन्दां तामाहुराचार्या यद्दोषानिन्द्यते वचः ॥ १३४
प्रपूर्वाच्छंसतेर्धातोः प्रशंसा गुणवत्तया । इदं त्विदमिदं नेदमित्यानिश्चित्य संशयः ॥ १३५
इदमेव विधातव्यमितीयं विधिरुच्यते । अन्यस्यान्यस्य चोक्तत्वाद्बुधाः परकृतिः स्मृता ॥ १३६
यो ह्यत्यन्तपरोक्षश्च पुराकल्पः स उच्यते । पुरा विक्रान्तवाचित्वात्पुराकल्पस्य कल्पना ॥ १३७
मन्त्रब्राह्मणकल्पैस्तु निगमैः शुद्धविस्तरैः । अनिश्चित्य कृतामाहुर्व्यवधारणकल्पनाम् ॥ १३८
यथा हीदं तथा तद्वै इदं वापि तथैव तत् । इत्येष ह्युपदेशोऽयं दशमो ब्राह्मणस्य तु ॥ १३९
इत्येतद्ब्राह्मणस्याऽदौ विहितं लक्षणं बुधैः । तस्य तद्वृत्तिरुद्दिष्टा व्याख्याऽप्यनुपदं द्विजैः ॥ १४०
मन्त्राणां कल्पनं चैव विधिदृष्टेषु कर्मसु । मन्त्रो मन्त्रयतेर्धातोर्ब्राह्मणो ब्रह्मणोऽवनात् ॥ १४१
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ १४२

इति श्रीमहापुराणे वायुप्रोक्ते ऋषिलक्षणं नामोनषष्ट्यध्यायः ॥ ५९ ॥
आदितः श्लोकानां समष्ट्यङ्काः--४८२५


अथ षष्ट्यध्यायः ।

महास्थानतीर्थवर्णनम्

ऋषय ऊचुः--
ऋषयस्तद्वचः श्रुत्वा सूतमाहुः सुदुस्तरम् । कथं वेदाः पुरा व्यस्तास्तन्नो ब्रूहि महामते ॥ १

सूत उवाच--
द्वापरे तु परावृत्ते मनोः स्वायंभुवेऽन्तरे । ब्रह्मा मनुमुवाचेदं तद्गादिष्ये महामते ॥ २


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थः ख. ग. घ. ङ. पुस्तकेषु नास्ति ।