वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
शाखासहस्रकलितैर्महास्कन्धैः समाकुलम् । फलैः सुवर्णसंकाशैर्हरितैः पाण्डुरैस्तथा ॥ ११
११८ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ३७ श्लो० ६-३०]
(भुवनविन्यासः)
तत्र त्वेकं महापद्मं मध्ये पद्मवनस्य ह । कोटिपत्रप्रचारं तत्तरुणादित्यवर्चसम् ॥ ६
नित्यं व्याकोशमजरं चाञ्चल्याच्चातंमण्डलम् । चारुकेशरजालार्ढचं मत्तषट्पदनादितम् ॥ ७
तस्मिन्पद्मे भगवती साक्षाच्छ्रौर्नित्यमेव हि । लक्ष्म्याः पद्मं तदावासं मूर्तिमत्या न संशयः ॥ ८
सरसस्तस्य पूर्वस्मिंस्तरे सिद्धनिषेविते । सदा पुष्पफलं रम्यं तत्र विल्ववनं महत् ॥ ९
शतयोजनविस्तीर्णं त्रियोजनशतायतम् । अर्धक्रोशोच्चशिखरैर्महावृक्षैः सहस्रशः ॥ १०
शाखासहस्रकलितैर्महास्कन्धैः समाकुलम् । फलैः सुवर्णसंकाशैर्हरितैः पाण्डुरैस्तथा ॥ ११
अमृतस्वादुसद्दृशैर्भेरीमात्रैः सुगन्धिभिः । शीर्यमाणैः पतद्भिश्च कीर्णा भूमिरिनरन्तरा ॥ १२
नाम्ना तच्छ्रीवनं नाम सर्वलोकेषु विश्रुतम् । गन्धर्वैः किन्नरैर्यक्षैर्महानागैश्च सेवितम् ॥ १३
सिद्धैश्चैव समाकीर्णं नित्यं विल्वफलाशिभिः । विविधैर्भूतसंघैश्च नित्यमेव निषेवितम् ॥ १४
तस्मिन्वने भगवती साक्षाच्छ्रौर्नित्यमेव हि । देवी संनिहिता तत्र सिद्धसंघैर्नमस्कृता ॥ १५
विकङ्कस्याचलेन्द्रस्य मणिशैलस्य चान्तरे । शतयोजनविस्तीर्णं द्वियोजनशतायतम् ॥ १६
विपुलं चम्पकवनं सिद्धचारणसेवितम् । पुष्पल्क्ष्म्यावृतं भाति ज्वलन्तामिव नित्यदा ॥ १७
अर्धक्रोशोच्चशिखरैर्महास्कन्धैः पलाशिनिः । प्रफुल्लशाखाशिखरैः पिञ्जरं भाति तद्वनम् ॥ १८
द्विबाहुपरिणाहैस्तैस्सिंहस्तायामविस्तरैः । मनःशिलाचूर्णनिभैः पाण्डुकेशरशालिभिः ॥ १९
पुष्पैर्मनोहरैर्व्याप्तं व्याकोशैर्गन्धशालिभिः । विराजते वनं सर्वं मत्तभ्रमरनादितम् ॥ २०
तद्वनं दानवैर्देवैर्गन्धर्वैर्यक्षराक्षसैः । किन्नरैरप्सरोभिश्च महानागैश्च सेवितम् ॥ २१
तत्राऽऽश्रमं भगवतः कश्यपस्य प्रजापतेः । सिद्धसाध्यगणाकीर्णं नानाश्रुतिविभूषितम् ॥ २२
महानीलकुमुञ्जाभ्यामन्तरेऽप्यचलावथ ॥
महानद्याः सुखायास्तु तीरे सिद्धानिषेविते । पञ्चाशद्योजनायामं त्रिंशद्योजनविस्तरम् ॥ २३
रम्यं तालवनं तद्धि अर्धक्रोशोच्चमस्तकम् ॥
महामूलैर्महासारैः स्थिरैराविरलैः शुभैः । कुमुदाञ्जनसंस्थानैः परिवृत्तैर्महाफलैः ॥ २४
मृष्टगन्धरसोपेतंरुपेत्तं सिद्धसेवितम् ॥
माहेन्द्रस्य द्विपेन्द्रस्य तत्र वास उदाहृतः । ऐरावतस्य भद्रस्य सर्वलोकेषु विश्रुतम् ॥ २५
वेणुमन्तस्य शैलस्य सुमेधस्योत्तरेण च । सहस्रयोजनायामं विस्तीर्णं शतयोजनम् ॥ २६
वृक्षगुल्मलतागुच्छैः सर्ववीरुद्विवर्जितम् । दूर्वाप्रस्तारमेवाथ सर्वसत्त्वविवर्जितम् ॥ २७
तथा निषधशैलस्य देवशैलस्य चोत्तरे । सहस्रयोजनायामा शतयोजनविस्तृता ॥ २८
सर्वा ह्येकाशिला भूमिवृक्षवीरुद्विवर्जिता । आप्लुता पादमात्रेण ह्युदकेन समंततः ॥ २९
इत्येता ह्यन्तरद्रोण्यो नानाकाराः प्रकीर्तिताः । मेरोः पूर्वेण विपेन्द्रा यथावदनुपूर्वशः ॥ ३०
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
आदितः श्लोकानां समष्ट्यङ्काः--२८४६
[अ० ३८-श्लो० १-२८] वायुपुराणम्। ११९
( भुवनविन्यासः )
अथाष्टत्रिंशोऽध्यायः।
भुवनविन्यासः।
सूत उवाच--
अतः परं प्रवक्ष्यामि दक्षिणां दिशमाश्रिताः। या द्रोण्यः सिद्धचरिताः शृणु ता ह्यनुपूर्वशः॥ १
शिशिरस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च। श्लक्ष्णभूमिःश्रिया युक्तं लतालङ्गितपादपम्॥ २
पृथुक्षेपोच्चशिखरैः पादपैरुपशोभितम्। उदुम्बरवनं रम्यं पक्षिसंघनिषेवितम्॥ ३
पक्वविद्रुमसंकाशैर्मधुपूर्णैर्मनोरमैः। ज्वलितं तद्वनं भाति महाकुम्भोपमैः फलैः॥ ४
तत्सिद्धयक्षगन्धर्वाः किंनरा उरगास्तथा। विद्याधराश्च मुदिता उपजीवन्ति नित्यशः॥ ५
प्रसन्नस्वादुसलिलास्तत्र नद्यो बहूदकाः। सुरसामलतोयास्ताः सरांसि च समन्ततः॥ ६
समन्ताद्योजनशतं तद्वनं परिमण्डलम्॥ ७
ताम्रवर्णस्य शैलस्य पतङ्गस्यान्तरेण तु। शतयोजनविस्तीर्णं द्वियोजनशतायतम्॥ ८
तरुणादित्यसंकाशैः पुण्डरीकैः समन्ततः। सहस्रपत्रैर्विकचैर्महापद्मौरलंकृतम्॥ ९
तथा भ्रमरसंलीनैः शतपत्रैः सुगन्धिभिः। प्रफुल्लैः शोभितजलं रक्तनीलैर्महोत्पलैः॥ १०
सरोवरं महापुण्यं देवदानवसेवितम्। महोरगैरध्युषितं नीलजालाविभूषितम्॥ ११
तस्य मध्ये जनपदो ह्यायतः शतयोजनः। त्रिंशद्योजनविस्तीर्णो रक्तधातुविभूषितः॥ १२
तस्योपरि महारथ्या प्रांशुप्राकारतोरणा। नरनारीगणाकीर्णा स्फीता विभवविस्तरैः॥ १३
वलभीकूटनिर्यूहैर्मणिभक्तिविचित्रितैः। रत्नाचित्रार्पिततलैः श्लक्ष्णचित्रोत्तरच्छदैः॥ १४
महाभवनमालाभिर्महापांशुभिरुत्तमैः। विद्याधरपुरं तत्र शोभते भ्राजयच्छुभम्॥ १५
विद्याधरपतिस्तत्र पुलोमा तत्र विश्रुतः। चित्रवेषधरः स्रग्वी महेन्द्रसदृशद्युतिः॥ १६
दीप्तानां चित्रवेषाणां सूर्यप्रतिमतेजसाम्। विद्याधरसहस्राणामनेकेषां स राजराट्॥ १७
विशाखस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च। सरस्ताम्रवर्णस्य पूर्वे तीरे परिश्रुतम्॥ १८
पञ्चवृक्षेपर्णैर्विद्धं सुशाखं वर्णशोभितम्। सर्वकालफलं तत्र स्फीतं चऽऽम्रवनं महत्॥ १९
फलैः कनकसंकाशैर्महास्वादैः सुगन्धिभिः। महाकुम्भप्रमाणैश्चतनुशार्वैः समन्ततः॥ २०
गन्धर्वाकिंनरा यक्षा नागा विद्याधरास्तथा। पिबन्त्याम्ररसं तत्र सुस्वादु ह्यमृतोपमम्॥ २१
तत्राऽऽम्ररसपीतानां मुदितानां महात्मनाम्। श्रूयन्ते हृष्टतुष्टानां नादास्तास्मिन्महावने॥ २२
समूलस्याचलेन्द्रस्य वसुधारस्य चान्तरे। समासुरभिपूर्णाढ्या विहङ्गैरुपशोभिता॥ २३
त्रिंशद्योजनविस्तीर्णा पञ्चाशद्योजनायता। तत्र बिल्वस्थली विप्राः शुद्धा निम्नफलद्रुमाः॥ २४
सुस्वादुर्विद्रुमनिभैः फलैर्बिल्वैर्महोपमैः। शीर्यमाणैर्विशीर्णैश्च पक्विन्नतलमृत्तिकाः॥ २५
तां स्थलीमुपजीवन्ति यक्षगन्धर्वकिंनराः। सिद्धा नागाश्च बहुशं नित्यं बिल्वफलाशिनः॥ २६
अन्तरे वसुधारस्य रत्नधारस्य चान्तरे। त्रिंशद्योजनविस्तीर्णमायतं शतयोजनम्॥ २७
सुगन्धं किंशुकवनं नित्यं पुष्पितपादपम्। पुष्पपक्ष्मावृतं भाति प्रदीप्तमिव सर्वतः॥ २८
१२० श्रीमद्द्वैपायनमुनिप्रणीतम्– [अ० ३८ श्लो० २९–५८]
( भुवनविन्यासः )
यस्य गन्धेन दिव्येन वास्यते परिमण्डलम् । समग्रं योजनशतं काननानि समन्ततः ॥ २९
तत्सिद्धचारणगणैरप्सरोभिश्च सेवितम् । रम्यं तत्किंशुकवनं जलाशयविभूषितम् ॥ ३०
तत्राऽऽदित्यस्य देवस्य दीप्तमायतनं महत् । मासे मासेऽऽवतरति तत्र सूर्यः प्रजापतिः ॥ ३१
तत्र कालस्य कर्तारं सहस्रांशुं सुरोत्तमम् । सिद्धसंघा नमस्यन्ति सर्वलोकनमस्र्कृतम् ॥ ३२
पञ्चकूटस्य शैलस्य कैलासस्यान्तरेण तु । षट्त्रिंशद्योजनायामं विस्तीर्णं शतयोजनम् ॥ ३३
क्षुद्रसत्त्वैरनाधृष्यं सर्वतो हंसपाण्डुरम् । दुष्पारं सर्वसत्त्वानां दुर्गमं लोमहर्षणम् ॥ ३४
इत्येता ह्यन्तरद्रोण्यो दक्षिणे परिकीर्तिताः । यथानुपूर्वमखिलाः सिद्धसंघनिषेविताः ॥ ३५
पश्चिमायां दिशि तथा येऽन्तरद्रोणिविस्तराः । तान्वर्ण्यमानांस्तत्त्वेन शृणुतेमान्द्विजोत्तमाः ॥ ३६
अन्तराले गिरौ तस्मिन्सुवक्षःशिखिशैलयोः । समन्ताद्योजनशतमेकभूमं शिलातलम् ॥ ३७
नित्यतप्तं महाघोरं दुःस्पर्शं रोमहर्षणम् । अगम्यं सर्वसत्त्वानां मध्वराणां सुदारुणम् ॥ ३८
मध्ये तस्यां शिलास्थल्यां त्रिंशद्योजनमण्डलम् । ज्वालासहस्रकलिलं वह्निस्थानं सुदारुणम् ॥ ३९
अनिन्धनस्तत्र सदा ज्वालामाली विभावसुः । ज्वलत्येष सदा देवः शश्वत्तत्र हुताशनः ॥ ४०
अधिदेवकृते योऽसावश्वमेधागो विधीयते । स तत्र ज्वलते नित्यं लोकसंवर्तकोऽनलः ॥ ४१
अन्तरे शैलवरयोर्देवा वाणपि तयोः शुभाः । मातुलङ्गस्थली तत्र ह्यायामाद्दशयोजना ॥ ४२
मधुव्यञ्जनसंस्थानैः सुरसैः कनकप्रभैः । फलैः परिणतैः सर्वा शोभिता सा महास्थली ॥ ४३
तत्राऽऽश्रमं महापुण्यं सिद्धसंघनिषेवितम् । बृहस्पतेः प्रमुदितं सर्वकामगुणैर्युतम् ॥ ४४
तथैव शैलवरयोः कुमुदाञ्जनयोरपि । अन्तरे केसरद्रोणिरनेकायामियोजना ॥ ४५
द्विबाहुपरिणाहैस्तास्त्रिहस्तायतविस्तृतैः । चन्द्रांशुवर्णैर्व्याकोशैर्मत्तषट्पदनादितैः ॥ ४६
मधुसर्पिरजःपृक्तैर्महागन्धैर्मनोहरैः । शबलं तद्वनं भाति कुसुमैः सर्वकालजैः ॥ ४७
तत्र विष्णोः सुरगुरोर्दीप्तमायतनं महत् । प्रकाशं त्रिषु लोकेषु सर्वलोकनमस्र्कृतम् ॥ ४८
अन्तरे शैलवरयोः कृष्णपाण्डुरयोरपि । त्रिंशद्योजनाविस्तीर्णं नवत्यायतयोजनम् ॥ ४९
श्लक्ष्णमेकशिलं देशं वृक्षवीरुद्विवर्जितम् । सुखपादप्रचारं च निम्नोन्नतविवर्जितम् ॥ ५०
मध्ये तु सरसस्तस्य रम्या तु स्थलपद्मिनी । सहस्रपत्रैर्व्याकोशैश्छत्रमात्रैरलंकृता ॥ ५१
पुण्डरीकैर्महापद्मैमरुचिरैन्धशालिभिः । शतपत्रैश्च विकचैरुत्पलैर्नीलपत्रकैः ॥ ५२
मदोत्कटैर्मधुकरैर्भ्रमरैश्च मदोत्कटैः । मृदुगद्गदकण्ठानां किंनराणां च निस्वनैः ॥ ५३
उपगीतपद्मखण्डाढ्या विस्तीर्णा स्थलपद्मिनी । यक्षगन्धर्वचरिता सिद्धचारणसेविता ॥ ५४
मध्ये तस्याश्च पद्मिन्याः पञ्चयोजनमण्डलः । न्यग्रोधो विपुलस्कन्धो ह्यनेकारोहपण्डितः ॥ ५५
तत्र चन्द्रप्रभः श्रीमान्पूर्णचन्द्राविभाननः । सहस्रवदनो देवो नीलवासाः सुरारिहा ॥ ५६
पद्मालयधरस्थल्यां महाभागोऽपराजितः । इज्यते यक्षगन्धर्वैर्विद्याधरगणैस्तथा ॥ ५७
तस्मिन्नायतने साक्षादनादिनिधनो हरिः । पद्मोपहारैर्विविधैरीज्यते सिद्धचारणैः ॥ ५८
[अ० ३८-३९श्लो० ५९-७८-१-३] वायुपुराणम् । ८२१
(भुवनविन्यासः)
तदनन्तसदो नाम सर्वलोकेषु विश्रुतम् । पद्ममालाव लम्बाभिर्मालाभिरुपशोभितम् ॥ ५९
तथा सहस्रशिखरकुमुदस्यान्तरेण च । पञ्चाशद्योजनायामं त्रिंशद्योजनविस्तरम् ॥
इषुक्षेपोच्चशिखरं नानाविहगसेवितम् ॥ ६०
महागन्धैर्महास्वादैर्गजदेहनिभैः फलैः । मधुस्रवैर्महावृक्षैरुपेतं तत्समन्ततः ॥ ६१
तत्राऽऽश्रमं महापुण्यं देवर्षिगणसेवितम् । शुक्रस्य प्रथितं तत्र भास्वरं पुण्यकर्मणः ॥ ६२
शङ्कुकूटस्य शैलस्य वृषभस्यान्तरेण च । परूषकस्थली रम्या ह्यनेकाय(यु)तयोजना ॥ ६३
बिल्वप्रमाणैश्च शुभैर्महास्वादैः सुगन्धिभिः । फलैः प्रक्लिद्यते भूमिः पुरुषैर्वृन्तविच्युतैः ॥ ६४
तां स्थलीमपुजीवन्ति किंनरोगसाधवः । परूषकरसोन्मत्ता मानाढ्यास्तत्र चारणाः ॥ ६५
कपिञ्जलस्य शैलस्य नागशैलस्य चान्तरे । द्वियोजनशतायामा विस्तीर्णा शतयोजना ॥ ६६
स्थली मनोहरा सा हि नानावनविभूषिता । नानापुष्पफलोपेता किंनरोगसेविता ॥ ६७
द्राक्षावनानि रम्याणि तथा नागवनानि च । खर्जूरवनखण्डानि नीलाशोकवनानि च ॥ ६८
दाडिमानां च स्वादूनामक्षोटकवनानि च । अतसीतिलकानां च कदलीनां वनानि च ॥ ६९
बदरीणां च स्वादूनां वनखण्डानि सर्वशः । स्वादुशीताम्बुपूर्णाभिर्नदीभिः शोभितानि च ॥ ७०
तथा पुष्पकशैलस्य महामेघस्य चान्तरे । षष्टियोजनाविस्तीर्णा सा भूमिः शतमायता ॥ ७१
समा पाणितलप्रख्या कठिना पाण्डुरा घना । वृक्षगुल्मलतागुल्मैस्तृणैश्चापि विवर्जिता ॥ ७२
वर्जिता विविधैः सत्त्वैर्नित्यमस्मन्निराश्रया । सा काननस्थली नाम दारुणा रोमहर्षणा ॥ ७३
महासरांसि च तथा महावृक्षास्तथैव च । महावनानि सर्वाणि कान्तानीमानि सर्वशः ॥ ७४
सरसां च वनानां च स्थलीनां च प्रजापतेः । क्षुद्राणां सरसां चैव संख्या तत्र न विद्यते ॥ ७५
दश द्वादश सप्ताष्टौ विंशत्त्रिंशच्च योजनाः । स्थल्यो द्रोण्यश्च विख्याताः सरांसि च वनानि च ॥ ७६
केचित्सन्ति महाग्योराः श्यामाः पर्वतकुक्षयः । सूर्याशुजालैरस्पृष्टा नित्यं शीता दुरासदाः ॥ ७७
तथा ह्यनलतप्तानि सरांसि द्विजसत्तमाः । शैलकुक्ष्यन्तरस्थानि सहस्राणि शतानि च ॥ ७८
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामाष्टात्रिंशोऽध्यायः ॥ ३८ ॥
आदितः श्लोकानां समष्ट्यङ्काः—२९२४
अथैकोनचत्वारिंशोऽध्यायः ।
भुवनविन्यासः ।
सूत उवाच—
अतः परं प्रवक्ष्यामि यस्मिन्यास्मिञ्छिलोच्चये । ये संनिविष्टा देवानां विविधानां गृहोत्तमाः ॥ १
तत्र योऽसौ महाशैलः शीतान्तो नैकविस्तरः । नैकधातुशतैश्चित्रैर्नैकरत्नाकराकरः ॥ २
नितम्बैः पुष्पसाल्मबैर्नैकसत्त्वगुणालयः । महार्हमणिचित्राभिर्हेमवंगैरुलंकृतः ॥ ३
१६
१२२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ३९ श्लो० ४-३१]
(भुवनविन्यासः)
नितम्बैः षट्पदोद्गीतैः प्रवालैर्हेमचित्रकैः । तटैः कुसुमसंकीर्णैर्मत्तभ्रमरनादितैः ॥ ४
लताभैश्चित्रवद्भिर्विश्वैर्धातुशताचितैः । सानुभी रत्नचितैश्च पुष्पादैश्च विभूषितः ॥ ५
विमलस्वादुपानीयैर्नैकप्रस्रवणैर्युतः । निकुञ्जः कुसुमोत्कीर्णैरनेकैश्च विभूषितः ॥ ६
पुष्पोडुपवहाभिश्च स्रवन्तीभिरलंकृतः । किंनराचरिताभिश्च दरीभिः सर्वतस्ततः ॥ ७
यक्षगन्धर्वचरितैरनेकैः कन्दरोदरैः । शोभितश्च सुखासेव्यैश्चित्रैर्गहनसंकटैः ॥ ८
नानासत्त्वगुणाकीर्णैः सुपानीयैः सुखाश्रयैः । नानापुष्पफलोपेतैः पादपैः समलंकृतः ॥ ९
तस्मिन्गुहाशयाकीर्णे अनेकोदरकन्दरे । क्रीडावनं महेन्द्रस्य सर्वकामनुगैर्युतम् ॥ १०
तत्र तद्देवराजस्य पारिजातवनं महत् । प्रकाशं त्रिषु लोकेषु गीयते श्रुतिनिश्चयात् ॥ ११
तरुणादित्यसंकाशैर्महागन्धैर्यमोहरैः । पुष्पैर्भाति नगश्रेष्ठः सुदीप्त इव सर्वशः ॥ १२
समग्रं योजनशतं तं गन्धमनिलो ववौ । पारिजातकपुष्पाणां माहेन्द्रवननिर्गतः ॥ १३
वैदूर्यनालैः कमलैः सौवर्णैर्वज्रकेसरैः । सर्वगन्धजलोपेतैर्मत्तषट्पदनादितैः ॥ १४
व्याकोशैर्विकचैश्चापि शतपत्रैर्मनोहरैः । सुपङ्कणैर्महापत्रैर्वाप्यस्तत्र विभूषिताः ॥ १५
विरेजुरन्तरम्बुस्थाः सौवर्णमणिभूषिताः । परिस्पन्देक्षणा नित्यं मनियूथाः सहस्रशः ॥ १६
कूर्मैश्चानेकसंस्थानैर्हेमरत्नपरिष्कृतैः । चञ्चूर्यमाणैः सलिलैर्भाति चित्रं समन्ततः ॥ १७
नानावर्णैश्च शकुनैर्नानारतनतनूरुहैः । सुवर्णपुष्पैश्चानैकैर्मणितुण्डैर्द्विजातिभिः ॥ १८
वल्गुस्वरैः सदोन्मत्तैः संपतद्भिः समन्ततः । शुशुभे तद्वनं रम्यं सहस्राक्षस्य धीमतः ॥ १९
मत्तभ्रमरसंनादैर्विहङ्गानां च कूजितैः । नित्यमानन्दितवनं तस्मात्क्रीडावनं महत् ॥ २०
सुवर्णपार्श्वैश्च नगैर्मणिमुक्तापुरस्कृतैः । मणिशृङ्गणकणापन्नैः पतद्भिश्च समन्ततः ॥ २१
शाखामृगैश्च चित्राङ्गैर्नानारतनतनूरुहैः । नानावर्णप्रकारैश्च सत्त्वैरन्यैः समाकुलम् ॥ २२
मुञ्चन्ति पुष्पवर्षं च तत्र बाललता द्रुमाः । पारिजातकपुष्पाणां मन्दमारुतकम्पिताः ॥ २३
शयनासननिर्व्यूहैः स्तीर्णै रत्नविभूषितैः । विहारभूमयस्तत्र द्विजाः शक्रवने शुभाः ॥
न च शीतो न चाप्युष्णो रविस्तत्र समः सदा ॥ २४
नित्यमुन्मादजननो मधुमाधवसंभवः । वाति चाप्यनिलस्तत्र नानापुष्पाधिवासितः ॥
नित्यं सङ्गसुखाह्लादी श्रमक्लमविनाशनः ॥ २५
तास्मिन्निन्द्रवने शुभ्रे देवदानवपन्नगाः । यक्षराक्षसगुह्याश्च गन्धर्वाश्चामितौजसः ॥ २६
विद्याधराश्च सिद्धाश्च किंनराश्च मुदा युताः । तथाऽप्सरोगणाश्चैव नित्यं क्रीडापरायणाः ॥ २७
तस्य पर्वतराजस्य पूर्वे पार्श्वे महोचितम् । कुमुञ्जं(दं) शैलराजानं नैकानिर्झरकन्दरम् ॥ २८
तस्य धातुविचित्रेषु कूटेषु बहुविस्तराः । अष्टौ पुर्या सुदीर्णाश्च दानवानां महात्मनाम् ॥ २९
वञ्जरके पर्वते चापि अनेकाशिखरोदरैः । उदीर्णा राक्षसावासा नरनारीसमाकुलाः ॥ ३०
नलिका नाम ते घोरा राक्षसाः कामरूपिणः । तत्र तेऽभिरता नित्यं महाबलपराक्रमाः ॥ ३१
[अ० ३९श्लो० ३२-६२] वायुपुराणम् । १२३
( भुवनविन्यासः )
महानीलेऽपि शैलेन्द्रे पुराणि दश पञ्च च । हयाननानां विख्याताः किंनराणां महात्मनाम् ॥ ३२
देवसेनो महाबाहुर्बलमिन्द्रादयस्तथा । तत्र किंनरराजानो दश पञ्च च गर्विताः ॥ ३३
सुवर्णपार्श्वाः प्रायेण नानावर्णसमाकुलैः । बिलप्रवेशैर्नगरैः शैलेन्द्रः सोऽभ्यलंकृतः ॥ ३४
अतिदारुणा दृष्टिविषा ह्यग्निकोपा दुरासदाः । महोरगशतास्तत्र सुवर्णवशवर्तिनः ॥ ३५
सुनागेऽपि महाशैले दैत्यावासाः सहस्रशः । हर्म्यप्रासादकालिलाः प्रांशुप्राकारतोरणाः ॥ ३६
वेणुमन्ते महाशैले विद्याधरपुरत्रयम् । त्रिंशद्योजनाविस्तीर्णं पञ्चाशद्योजनायतम् ॥ ३७
उलूको रोमशश्चैव महानेत्रश्च वीर्यवान् । विद्याधरवरास्तत्र शक्रतुल्यपराक्रमाः ॥ ३८
वैकङ्के शैलशिखरे स्रन्तःकन्दरनिर्झरे । महोच्चशृङ्गे रुचिरे रत्नधातुविचित्रिते ॥ ३९
तत्राऽऽस्ते गरुडिर्नित्यमुरगारिर्दुरासदः । महावायुजवश्चण्डः सुग्रीवो नाम वीर्यवान् ॥ ४०
महाप्रमाणैर्विक्रान्तैर्महाबलपराक्रमैः । स शैलो ह्यावृतः सर्वः पक्षिभिः पन्नगारिभिः ॥ ४१
करञ्जेऽभिरतो नित्यं साक्षाद्भूतपतिः प्रभुः । वृषभाङ्को महादेवः शंकरो योगिनां प्रभुः ॥ ४२
नानोपषधरैर्भूतैः प्रमथैश्च दुरासदैः । करञ्जे सानवः सर्वे ह्यवकीर्णाः समन्ततः ॥ ४३
वसुधारे वसुमतः वसूनाममितौजसाम् । अष्टावायतनान्याहुः पूजितानि महात्मनाम् ॥ ४४
रत्नधातौ गिरिवरे सप्तर्षीणां महात्मनाम् । सप्ताश्रमाणि पुण्यानि सिद्धावासयुतानि च ॥ ४५
महाप्रजापतेः स्थानं हेमशृङ्गे नगोत्तमे । चतुर्वक्त्रस्य देवस्य सर्वभूतनमस्कृतम् ॥ ४६
गजशैले भगवतो नानाभूतगणावृताः । रुद्राः प्रमुदिता नित्यं सर्वभूतनमस्कृताः ॥ ४७
सुमेधे धातुचित्राढ्ये शैलेन्द्रे मेघसंनिभे । नैकोदरदरीवन्पिनिकुञ्जैश्र्चोपशोभिते ॥ ४८
आदित्यानां वसूनां च रुद्राणां चामितौजसाम् । तत्राऽऽयतनविन्यासा रम्याश्चैवाश्विनोरपि ॥ ४९
स्थानानि सिद्धैर्देवानां स्थापितानि नगोत्तमे । तत्र पूजापरा नित्यं यक्षगन्धर्वकिंनराः ॥ ५०
गन्धर्वनगरी स्फीता हेमकक्षे नगोत्तमे । अशीत्यमरपुर्याभा महाप्राकारतोरणा ॥ ५१
सिद्धा ह्यप्तना नाम गन्धर्वा युद्धशालिनः । येषामधिपतिर्देवो राजराजः कपिञ्जलः ॥ ५२
अनले राक्षसावासाः पञ्चकूटेऽपि दानवाः । ऊर्जिता देवरिपवो महाबलपराक्रमाः ॥ ५३
शतशृङ्गे पुरशतं यक्षाणाममितौजसाम् । ताम्राभे काद्रवेयस्य तक्षकस्य पुरोत्तमम् ॥ ५४
विशाखे पर्वतश्रेष्ठे नैकवप्रदरीशुभे । गुहानिरतवासस्य गुहस्याऽऽयतनं महत् ॥ ५५
श्वेतोदरे महाशैले महाभवनमण्डिते । पुरं गरुडपुत्रस्य सुनाभस्य महात्मनः ॥ ५६
पिशाचके गिरिवरे हर्म्यं प्रासादमण्डितम् । यक्षगन्धर्वचरितं कुबेरभवनं महत् ॥ ५७
हरिकूटे हरिर्देवः सर्वभूतनमस्कृतः । प्रभावात्तस्य शैलोऽसा महानामः प्रकाशते ॥ ५८
कुमुदे किंनरावासा अञ्जने च महोरगाः । कृष्णे गन्धर्वनगरा महाभवनशालिनः ॥ ५९
पाण्डुरे चारुशिखरे महाप्राकारतोरणे । विद्याधरपुरं बत्र महाभवनशालिनम् ( ? ) ॥ ६०
सहस्रशिखरे शैले दैत्यानामुग्रकर्मणाम् । पुराणि समृद्धीर्णानां सहस्रं हेममालिनाम् ॥ ६१
मुकुटे पन्नगावासा अनेकाः पर्वतोत्तमाः । पुष्पके वै मुनिगणा नित्यमेव मुदा युताः ॥ ६२
१२४ श्रीमद्द्वैपायनमुनिप्रणीतम्– [अ० ३९-४० श्लो० ६३-६४-१-१८]
( भुवनविन्यासः )
वैवस्वतस्य सोमस्य वायोर्नागाधिपस्य च सुपक्षे पर्वतवरे चत्वार्यायतनानि च ॥ ६३
गन्धर्वैः किंनरैर्यक्षैर्नागैर्विद्याधरोत्तमैः । सिद्धैर्हितेषु स्थानेषु नित्यमिष्टः प्रपूज्यते ॥ ६४
इतिश्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
आदितः श्लोकानां समष्ट्यङ्काः–२९८८
अथ चत्वारिंशोऽध्यायः ।
भुवनविन्यासः ।
सूत उवाच—
मर्यादापर्वते शुभ्रे देवकूटे निबोधत । विस्तीर्णे शिखरे तस्य कूटे गिरिवरस्य ह ॥ १
समन्ताद्योजनशतं महाभवनमण्डितम् । जन्मक्षेत्रं सुपर्णस्य वैनतेयस्य धीमतः ॥ २
नैकेर्महापक्षिगणैर्गरुडैः शीघ्रविक्रमैः । संपूर्णवीर्यसंपन्नैर्दमनैरुरगारिभिः ॥ ३
पक्षिराजस्य भवनं प्रथमं तन्महात्मनः । महावायुप्रवेगस्य शाल्मलिद्वीपवासिनः ॥ ४
तस्यैव चारुमूर्ध्वंस्तु कूटेषु च महर्षिषु । दक्षिणेपु विचित्रेषु समस्वपि तु शोभिनः ॥ ५
[*संध्याआभाः समुदिता रुक्मप्राकारतोरणाः । महाभवनमालाभिः शोभिता देवनिर्मिताः ॥ ६
त्रिंशद्योजनविस्तीर्णाश्चत्वारिंशत्तमायताः । सप्त गन्धर्वनगरा नरनारीसमाकुलाः ॥ ७
आग्नेया नाम गन्धर्वा महाबलपराक्रमाः । कुबेरानुचरा दीप्तास्तेषां ते भवनोत्तमाः ॥ ८
तस्य चोत्तरकूटेषु भुवनस्य महागिरेः । हर्म्यप्रासादबद्धं च उद्यानवनशोभितम् ॥ ९
पुरमाशीविषैः पूर्णं महाप्राकारतोरणम् ] । वादित्रशतनिर्घोषैरानान्दितवनान्तरम् ॥ १०
दुष्प्रसहममित्राणां त्रिंशद्योजनमण्डलम् । नगरं सैंहिकेयानामुदीर्णं देवविद्विषाम् ॥ ११
सिद्धदेवर्षिचरितं देवकूटे निबोधत ॥
द्वितीये द्विजशार्दूला मर्यादापर्वते शुभे । महाभवनमालाभिर्नानावर्णाभिरावृतम् ॥ १२
सुवर्णमणिचित्राभिरनेकाभिरलंकृतम् । विशालरथ्यं दुर्धर्षं नित्यं प्रमुदितं शिवम् ॥ १३
नरनारीगणाकीर्णं प्रांशुप्राकारतोरणम् । षष्टियोजनाविस्तीर्णं शतयोजनमायतम् ॥ १४
नगरं कालकेयानामसुराणां दुरासदम् । देवकूटतटे रम्ये संनिविष्टं सुदुर्जयम् ॥ १५
महाभ्रचयसंकाशं सुनासं नाम विश्रुतम् ॥
तस्यैव दक्षिणे कूटे विंशद्योजनविस्तरम् । द्विषष्टियोजनायामं हेमप्राकारतोरणम् ॥ १६
हृष्टपुष्टावलिप्तानामावासाः कामरूपिणाम् । औत्कचानां प्रमुदितं राक्षसानां महापुरम् ॥ १७
मध्यमे तु महाकूटे देवकूटस्य वै गिरेः । सुवर्णमणिपाषाणैश्चित्रैः श्लक्ष्णतरैः शुभैः ॥ १८
शाखाशतसहस्राढ्यैर्नैकारोहसमाकुलम् ॥
* धनुश्चिह्नान्तर्गतग्रन्थः ग. पुस्तके नास्ति ।