सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

सप्तर्षयस्तथैवोर्ध्वमाध्रुवात्सप्तमस्तु यः । वातस्कन्धः परिवहस्तत्र तिष्ठन्तु मे सुताः ॥ १२०

२५० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६८-श्लो० १२०-१३५/१]
(कश्यपीयप्रजासर्गः)

सप्तर्षयस्तथैवोर्ध्वमाध्रुवात्सप्तमस्तु यः । वातस्कन्धः परिवहस्तत्र तिष्ठन्तु मे सुताः ॥ १२०
एतस्सर्वं चरन्त्येते काले काले ममाऽऽत्मजाः । त्वत्कृतेन च नाम्ना वै भवन्तु मरुतस्त्विमे ॥ १२१
ततस्तेषां तु नामानि मातापुत्रौ प्रचक्रतुः । तत्कृते कर्मभिश्चैव मरुतो वै पृथक्पृथक् ॥ १२२
सत्त्वज्योतिस्तथाऽऽदित्यः सत्यज्योतिस्तथाऽपरः । तिर्यग्ज्योतिश्च सज्ज्योतिर्ज्योतिष्मानपरस्तथा ॥ १२३
प्रथमस्तु गणः प्रोक्तो द्वितीयं मे निबोधत । ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ॥ १२४
सत्यमित्रोऽभिमित्रश्च हरिमित्रस्तथाऽपरः । गण एष द्वितीयस्तु तृतीयं मे निबोधत ॥ १२५
ऋतः सत्यो ध्रुवो धर्ता विधर्ताऽथ विधारयः । ध्वान्तश्चैव धुनिश्शैव ह्युग्रो भीदस्तथैव च ॥
अभियुः साक्षिपश्चैवमाह्वयश्च गणः स्मृतः ॥ १२६
ईदृक्चैव तथाऽन्यादृग्यादृक्च प्रतिकृत्तथा । ऋक्तथा समितिश्चैव संरम्भश्च तथा गणः ॥ १२७
ईदृक्च पुरुषश्चैव अन्यादृक्षाच्च चेतसः । समितासमिवृक्षाच्च प्रतिदृक्षाच्च वै गणाः ॥ १२८
(*मरुतिद्वसरतश्चैव तथा देवो दिशोऽपरः । यजुश्चैवानुदक्सामस्तथाऽन्यो मानुषीविशः ॥
दैत्या देवाः समाख्याताः सप्तैते सप्तका गणाः ॥ १२९
एते ह्येकोनपञ्चाशन्मरुतो नामतः स्मृताः । प्रसंख्यातास्तथा ताभ्यां दित्या चेन्द्रेण चैव हि ॥ १२.
कृत्वा तेषां तु नामानि दितिरिन्द्रमुवाच ह । वातस्कन्धं चरन्त्वेते मम पुत्राश्च पुत्रक ॥
विचरन्तु च भद्रं ते देवैः सह ममाऽऽत्मजाः ॥ १३०
तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरः । उवाच प्राञ्जलिर्भूत्वा मातर्भवतु तत्तथा ॥ १३१
सर्वमेतद्यथोक्तं ते भविष्यति न संशयः । देवभूता महात्मानः कुमारा देवसंमताः ॥
देवैः सह भविष्यन्ति यज्ञभाजस्तवाऽऽत्मजाः ॥ १३२
तस्माच्च मरुतो देवाः सर्वे चेन्द्रानुजामराः । विज्ञेयाश्चामराः सर्वे दितिपुत्रास्तपस्विनः ॥ १३३
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोधनौ । जग्मतुस्त्रिदिवं हृष्टौ शक्रोऽपि त्रिदिवं गतः ॥ १३४
मरुतां हि शुभं जन्म शृणुयाद्यः पठेत् वा । नावृतिभयमाप्नोति बह्वायुश्च भवत्युत ॥ १३५
इति महापुराणे वायुप्रोक्ते उपोद्घातपादे कश्यपीयप्रजासर्गे नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥

आदितः श्लोकानां समष्ट्यङ्काः--६२१२


अथाष्टषष्टितमोऽध्यायः ।

कश्यपीयप्रजासर्गः ।

सूत उवाच--
अत ऊर्ध्वं प्रवक्ष्यामि दनुपुत्रान्निबोधत । अभवन्दनुपुत्रास्तु वंशे ख्याता महासुराः ॥ १


* धनुश्चिह्नान्तर्गतग्रन्थः क. घ. पुस्तकेयोर्नास्ति ।

[अ० ६८ श्लो० २-२५] वायुपुराणम् । २५१

(कश्यपीयप्रजासर्गः)
विप्रचित्तिप्रधानास्ते शतं तीव्रपराक्रमाः । सर्वे लब्धवराश्चैव सुतप्ततपसस्तथा ॥ २
सत्यसंथाः पराक्रान्ताः क्रूरा मायाविनश्च ते । महाबला अयज्वानो सब्रह्मण्‍याश्च दानवाः ॥
कीर्त्यमानानन्मया सर्वान्प्राधान्येन निबोधत ॥ ३
द्विमूर्धा शङ्कुकर्णश्च तथा शङ्कुनिरामयः । शङ्कुकर्णो महाविश्चो गवेष्ठिर्दुन्दुभिस्तथा ॥ ४
अजामुखोऽथ भगवाञ्छिलो वामनसस्तथा । मरीचिरक्षकश्चैव महागर्ग्योऽङ्गिरावृतः ॥ ५
विक्षोभ्यश्च सुकेतुश्च सुवीर्यः सुहृदस्तथा । इन्द्रजिद्विश्वजिच्चैव तथा सुरविमर्दनः ॥ ६
एकचक्रः सुवाहश्च तारकश्च महाबलः । वैश्वानरः पुलोमा च प्रवीणोऽथ महाशिराः ॥ ७
स्वर्भानुर्वृषपर्वा च मुण्डकश्च महासुरः । धृतराष्ट्रश्च सूर्यश्च चन्द्र इन्द्रश्च तापनः ॥ ८
सूक्ष्मश्चैव निचन्द्रश्च ऊर्णनाभो महागिरिः । असिलोमा सुकेशश्च सदश्व बलको दश ॥ ९
तथा गगनमूर्धा च कुम्भनाभो महोदरः । प्रमोदाहश्च कुपथो हयग्रीवश्च वीर्यवान् ॥ १०
असुरश्च विरूपाक्षः सुपथोऽथ महासुरः । अजो हिरण्मयश्चैव शतमायुश्च शम्बरः ॥ ११
शरभः शलभश्चैव सूर्याचन्द्रमसावुभौ । असुराणां सुरावेतौ सुराणां सांप्रताविमौ ॥ १२
इति पुत्रा दनोर्वंशे प्रधानाः परिकीर्तिताः । तेषामपरिसंख्येयं पुत्रपौत्रायनन्तकम् ॥ १३
इत्येते त्वसुराः प्रोक्ता दैतेया दानवाश्च ये । स्वर्भानुस्तु स्मृतो दैत्यो ह्यनुभानुर्दैनोः सुतः ॥
इमे तु वंशानुगता दनोः पुत्रास्तु ये स्मृताः ॥ १४
एकाक्ष ऋषभोऽरिष्टः प्रलम्बन्रकवावपि । इन्द्रबाधनकेशी च मेरुः शंबोऽथ धेनुकः ॥ १५
गवेष्ठिश्च गवाक्षश्च तालकेतुश्च वीर्यवान् । एते मनुष्यधर्माणस्तु दनोः पुत्रा मया स्मृताः ॥ १६
दैत्यदानवसंघर्षे जाता भीमपराक्रमाः । सिंहिकायामथोत्पन्ना विप्रचित्तिसुतास्त्विमे ॥ १७
सैंहिकेया इति ख्याताश्चतुर्दश महासुराः । शतगालश्च बलवान्व्यासः शाम्बस्तथैव च ॥ १८

  • अनुलोमः शुचिश्चैव वातापिश्च सितांशुकः । हरकल्पः कालनाभो भौमश्च नरकस्तथा ॥ १९
    राहुर्ज्येष्ठस्तु तेषां वै चन्द्रसूर्यप्रतर्दनः । इत्येते सिंहिकापुत्रा देवैरपि दुरासदाः ॥ २०
    दारुणाभिजनाः क्रूराः सर्वे ब्रह्मद्विषश्च ते । दशान्यानि सहस्राणि सैंहिकेयो गणः स्मृतः ॥ २१
    निहतो जामदग्न्येन भार्गवेण बलीयसा । स्वर्भानोस्तु प्रभा कन्या पुलोम्नोऽथ शची सुता ॥ २२
    उपदानवीयमस्र्यापि शर्मिष्ठा वार्षपर्वणी । पुलोमा कालिका चैव वैश्वानरसुते उभे ॥ २३
    प्रभाया नहुषः पुत्रो जयन्तश्च शचीसुतः । पुरुं जज्ञेऽथ शर्मिष्ठा दुष्मन्तमुपदानवी ॥ २४
    वैश्वानरसुते ह्येते पुलोमाकालिके उभे । उभे ह्यपि तु ते कन्ये मारीचस्य परिग्रहे ॥ २५

+ एतदर्धस्थाने इदमर्धं ख. ग. घ. ङ. पुस्तकेषु ‘इल्वला नमुचिश्चैव वातापी दस्युयाजकः ’ इति ।

३५२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ६८-६९श्लो० २६-३९-१-७]
( कश्यपीयप्रजासर्गः )

ताभ्यां पुत्रसहस्राणि षष्टिर्दानवपुङ्गवाः । चतुर्दश तथाऽन्यानि हिरण्यपुरवासिनाम् ॥ २६
पौलोमाः कालकेयाश्च दानवाः सुमहाबलाः । अवध्या देवतानां ते निहताः सव्यसाचिना ॥ २७
मयस्य जाता ये पुत्राः सर्वे वीरपराक्रमाः । मायावी दुन्दुभिश्चैव वृषश्च महिषस्तथा ॥ २८
बालिको वज्रकर्णश्च कन्या मन्दोदरी तथा । दैत्यानां दानवानां च सर्ग एष प्रकीर्तितः ॥ २९
दनायुषायाः पुत्रास्तु स्मृताः पञ्च महाबलाः । अरूरुर्बलिजन्मौ च विरक्षश्च विषस्तथा ॥ ३०
अरूरोस्तनयः क्रूरो धुन्धुर्नाम महासुरः । निहतः कुवलाश्वेन उत्तङ्कवचनात्किल ॥ ३१
बलेः पुत्रौ महावीर्यौ तेजसाऽप्रतिमावुभौ । कुम्भिलश्चक्रवर्मा च स कर्णः पूर्वजन्मनि ॥ ३२
विरक्षस्यापि पुत्रौ द्वौ कालकश्च वरश्च तौ । विषस्य त्वभवन्पुत्राश्चत्वारः क्रूरकर्णिकः ॥
श्राद्धहा यज्ञहा चैव ब्रह्महा पशुहा तथा ॥ ३३
क्रान्ता दनायुषापुत्रा वृत्रस्यापि निबोधत । जज्ञिरे श्वसनाद्धोराद्दृष्टस्येन्द्रेण युध्यतः ॥ ३४
भर्त्तारो मनसा ख्याता राक्षसाः सुमहाबलाः । शतं तानि सहस्राणि महेन्द्रानुचराः स्मृताः ॥ ३५
सर्वे ब्रह्मविदः सौम्या धार्मिकाः सूक्ष्ममूर्तयः । प्रजास्वन्तर्गताः सर्वे निवसन्ति सुधार्मिकाः ॥ ३६
दैत्यानां दानवानां स सर्ग एष प्रकीर्तितः । प्रवाद्यजनयत्पुत्रान्यज्ञै वै गायनोत्तमान् ॥ ३७
सत्वः सत्त्वात्मकश्चैव कलापश्चैव वर्यवान् । क्रुतवीर्यो ब्रह्मचारी सुपाण्डुश्चैव सप्तमः ॥ ३८
पनश्चैव तरण्यश्च सुचन्द्रो दशमस्तथा । इत्येते देवगन्धर्वा विज्ञेयाः परिकीर्तिताः ॥ ३९
इति श्रीमहापुराणे वायुप्रोक्ते उपोद्घातपादे कश्यपीयप्रजासर्गो नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥

आदितः श्लोकानां समष्ट्यङ्काः—६१९१


अथ नवषष्टितमोऽध्यायः ।

कश्यपीयप्रजासर्गः ।

सूत उवाच--
गन्धर्वाप्सरसः पुण्या मौनेयाः परिकीर्तिताः । चित्रसेनोद्यसेनश्च ऊर्णायुरनघस्तथा ॥ १
धृतराष्ट्रः पुलोमा च सूर्यवर्चास्तथैव च । युगपत्तृणपत्कालिदितिश्चित्ररथस्तथा ॥ २
त्रयोदशो भ्रमिशिराः पर्जन्यश्च चतुर्दशः । कलिः पञ्चदशश्चैव नारदश्चैव षोडशः ॥
इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥ ३
चतुस्त्रिंशद्यवीयस्यस्तेषामप्सरसः शुभाः । अन्तरा दारवत्या च प्रियमुरुख्या सुरोत्तमा ॥ ४
मिश्रकेशी तथा चाशी वर्णिनी वाऽप्यलम्बुषा । मारीची पुत्रिका चैव विद्युद्वर्णा तिलोत्तमा ॥ ५
अद्रिका लक्षणा चैव देवी रम्भा मनोरमा । सुवरा च सुबाहुश्च पूर्णिता सुप्रतिष्ठिता ॥ ६
पुण्डरीका सुगन्धा च सुदन्ता सुरसा तथा । हेमा शारद्वती चैव सुवृत्ता कमला च या ॥ ७

[अ० ६९ श्लो० ८-३६] वायुपुराणम् । २५३

( कश्यपीयप्रजासर्गः )

सुभुजा हंसपादा च लौकिक्योऽप्सरसस्तथा । गन्धर्वाप्सरसो ह्येता मौनेयाः परिकीर्तिताः ॥ ८
गन्धर्वाणां दुहितरो मया याः परिकीर्तिताः । (*तासां नामानि सर्वासां कीर्त्यमानानि मे शृणु ॥
सुयशा प्रथमा तासां गान्धर्वी तदनन्तरम् । विद्यावती चारुमुखी सुमुखी च वरानना ) ॥ १०
तत्रेमे सुयशापुत्रा महाबलपराक्रमाः । प्रचेतसः सुता यक्षास्तेषां नामानि मे शृणु ॥ ११
कम्बलो हरिकेशश्च कपिलः काञ्चनस्तथा । मेघमाली तु यक्षाणां गण एष उदाहृतः ॥ १२
सुयशाया दुहितरश्चतस्रोऽप्सरसः स्मृताः । तासां नामानि वै सम्यग्ब्रुवतो मे निबोधत ॥ १३
लोहेयी त्वभवज्ज्येष्ठा भरता तदनन्तरम् । कृशाङ्गी च विशाला च रूपेणाप्रतिमा तथा ॥ १४
ताभ्योऽपरे यक्षगणाश्चत्वारः परिकीर्तिताः । उत्पादिता विशालेन विक्रान्तेन महात्मना ॥ १५
लोहेया भरतेयाश्च कृशाङ्गेयाश्च विश्रुताः । विशालेयाश्च यक्षाणां पुराणे प्रथिता गणाः ॥ १६
इत्येतैरसुरैर्धीरैर्महाबलपराक्रमैः । नैकैर्यक्षगणैर्व्याप्ता लोका लोकविदां वराः ॥ १७
गन्धर्वाश्चाथ वालेया विक्रान्तेन महात्मना । उत्पादिता महावीर्या महागन्धर्वनायकाः ॥ १८
विक्रमौदार्यसंपन्ना महाबलपराक्रमाः । तेषां नामानि वक्ष्यामि यथावदनुपूर्वशः ॥ १९
चित्राङ्गदो महावीर्यश्चित्रवर्मा तथैव च । चित्रकेतुर्महाभागः सोमदत्तोऽथ वीर्यवान् ॥ २०
तिस्रो दुहितरश्चैव तासां नामानि वक्ष्यते ( मे शृणु ) २१
प्रथमा त्वभ्रिका नाम कम्बला तदनन्तरम् । तथा वसुमती नाम रूपेणाप्रतिमौजसः ॥ २२
ताभ्यः परे कुमारेण गणा उत्पादितास्त्विमे । त्रयो गन्धर्वमुख्यानां (णां) विक्रान्ता युद्धदुर्मदाः ॥ २३
आभ्रेयाः काम्बलेयाश्च तथा वसुमतिसुताः । तैर्गणैर्विविधैर्व्याप्तमिमं लोकं चराचरम् ॥ २४
विद्यावन्तश्च तेनैव विक्रान्तेन महात्मना । उत्पादिता महाभागा रूपविद्याधनेश्वराः ॥ २५
तेषामुदीर्णवीर्याणां गन्धर्वाणां महात्मनाम् । नामानि कीर्त्यमानानि शृणुध्वं मे विवक्षतः ॥ २६
हिरण्यरोमा कपिलः सुलोमा मागधस्तथा । चन्द्रकेतुश्च वै गाङ्गो मोदश्चैव महाबलः ॥ २७
महविद्यावदातानां विक्रान्तानां तपस्विनाम् । इत्येवमादिर्हि गणो द्वे चान्ये च सुलोचने ॥ २८
शिवा च सुमनाश्चैव ताभ्यामपि महात्मना । उत्पादिता विश्ववसा विद्याचरणगोचराः ॥ २९
शैवेयाश्चैव विक्रान्तास्तथा सौमनसा गणाः । एतैर्य्याप्तमिमं लोकं विद्याधरगणैस्त्रिभिः ॥ ३०
एभ्योऽनेकानि जातानि अम्बरान्तरचारिणाम् । लोके गणशतान्येव विद्याधरविचेष्टितात् ॥ ३१
अश्वमुख्याश्च तेनैव विक्रान्तेन महात्मना । उत्पादिता ह्यश्वमुखाः किंनरांस्तान्निबोधत ॥ ३१
समुद्रसेनः कालिन्दो महानेत्रो महाबलः । सुवर्णघोषः सुग्रीवो महाघोषश्च वीर्यवान् ॥ ३२
इत्येवमादिर्हि गणः किंनराणां महात्मनाम् । हयाननानां विद्वाद्भिर्विस्तीर्णः परिकीर्त्यते ॥ ३३
तथा समुत्थितेनैव विक्रान्तेन महात्मना । उत्पादिता नरमुखाः किंनराः शांशपायनाः ॥ ३४
हरिषेणः सुषेणश्च वारिषेणश्च वीर्यवान् । रुद्रदत्तेन्द्रदत्तौ च चन्द्रद्रुममहाद्रुमौ ॥ ३५
बिन्दुश्च बिन्दुसारश्च चन्द्रवंशश्च किंनराः । इत्येते किंनराः श्रेष्ठा लोके ख्याताः सुशोभनाः ॥ ३६

* धनुश्चिह्नान्तर्गतग्रन्थो ग पुस्तके नास्ति ।

२५४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६९ श्लो० ३७-५८]
( कश्यपीयप्रजासर्गः )

नृत्यगीतप्रगल्भानामेतेषां द्विजसत्तमाः । लोके गणशतान्येव किंनराणां महात्मनाम् ॥ ३७
यक्षा यक्षोपशान्तश्च लौहेया रूपशालिनी । दुहिता सुरविन्देति प्रकाशा सिद्धसंमता ॥ ३८
उपायाकेतनस्याहि स्वयमुत्पादितो गणः । करालकेन भूतानां तेषां नामानि मे शृणु ॥ ३९
भूता भूतगणैर्ज्ञेया आवेशकनिवेशकाः । * सुतारः कालभवनानिर्देश कविदेशकाः ॥
इत्येवमादिर्हि गणो भूमिगोजरकः स्मृतः ॥ ४०
विज्ञेय इह लोकेऽस्मिन्भूतानां भूतनायकः । ये तूत्कृष्टा भवन्त्येषामम्बरान्तरचारिणाम् ॥
वृक्षायमात्रमाकाशं ते चरन्ति न संशयः ॥ ४१
तत्रेमे देवगन्धर्वाः प्रायेण कथिता मया । देवोपस्थानानिरता विज्ञेयास्ते यशस्विनः ॥ ४२
नारायणं सुरगुरुं विरजं पुष्करेक्षणम् । हिरण्यगर्भं च तथा चतुर्वक्त्रं स्वयंभुवम् ॥ ४३
शंकरं च महादेवमीशानं च जगत्प्रभुम् । इन्द्रपूर्वांस्तथाऽऽदित्यान् रुद्रांश्च वसुभिः सह ॥ ४४
उपतस्थुः सगन्धर्वा नृत्यगीतविशारदाः । त्रिदशाः सर्वलोकस्था निपुणा गीतवादिनः ॥ ४५
हंसो ज्येष्ठः कनिष्ठोऽन्यो मध्यमौ च हहा हूहूः । चतुर्थो धिषणश्चैव ततो वासिरुचिस्तथा ॥ ४६
षष्ठस्तु तुम्बुरुस्तेषां ततो विश्वावसुः स्मृतः । इमाश्चाप्सरसो दिव्या विहिताः पुण्यलक्षणाः ॥ ४७
सुषुवेऽष्टौ महाभागा वरिष्ठा देवपूजिताः । अनवद्यामनवद्यामन्वतां मदनाप्रियाम् ॥
अरूपां सुभगां भासीमरिष्ठाऽष्टौ व्यजायत ॥ ४८
मनोवती सुकेशा च तुम्बुरोस्तु सुते उभे । पञ्चचूडास्त्विमा दिव्या दैविक्योऽप्सरसो दश ॥ ४९
मेनका सहजन्या च पार्णिनी पुञ्जिकस्थला । घृतस्थला घृताची च विश्वाची पूर्वचित्त्यपि ॥
प्रम्लोचेत्यभिविख्याताऽनुम्लोचन्ती तथैव च ॥ ५०
अनादिनिधनस्याथ जज्ञे नारायणस्य या । ऊरोः सर्वानवद्याङ्गी उर्वश्येकादशी स्मृता ॥ ५१
मेनस्य मेनका कन्या ब्रह्मणो हृष्टचेतसः । सर्वाश्च ब्रह्मवादिन्यो महायोगाश्च ताः स्मृताः ॥ ५२
गणा अप्सरसां ख्याताः पुण्यास्ते वै चतुर्दश । ÷ आहूताः शोभयन्तश्च गणा ह्येते चतुर्दश ॥ ५३
ब्रह्मणो मानसाः कन्याः शोभयन्त्यो मनोः सुताः । वेगवन्तस्त्वरिष्ठाया ऊर्जायाश्चाभिसंभवा ॥ ५४
(× आयुष्मत्यश्च सूर्यस्य रश्मिजाताः सुभास्वराः । गर्भस्तेजश्च सोमस्य ज्ञेयास्ते कुरवः शुभाः ॥ ५५
यज्ञोत्पन्नाः शुभा नाम ऋक्सामान्यास्तु वह्नयः ) । वारिजा ह्यमृतोत्पन्ना अमृता नामतः स्मृताः ॥
वायुत्पन्ना सुदा नाम भूमिजाता भवास्तु वै । विद्युतश्च रुचो नाम मृत्योः कन्याश्च भैरवाः ५७
शोभयन्त्यश्च कामस्य गणाः प्रोक्ताश्चतुर्दश । सेन्द्रोपेन्द्रैः सुरगणै रूपातिशयनिर्मिताः ॥ ५८


* इदमर्धं नास्ति क. पुस्तके । + एतदर्धस्थानेऽयं ग्रन्थः-‘आहूताः शोभयन्तश्च वेगवत्यस्तथैव च । दुर्मयाश्च युवतयश्च तथा भेकुरयः शुभाः । वह्नयोत्यमृतात्सेदा भुवश्च रुचयस्तथा । भैरवाः शोभयन्त्यश्च गणा ह्येते चतुर्दश ' इति-ख. घ. पुस्तकयोः । × धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।