सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

शाल्मलिविपुलस्कन्धस्तस्य नाम्ना स उच्यते । शाल्मलिस्तु समुद्रेण सुरोदेन समन्ततः ॥

१४८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०४९श्लो०४५-७३]
( भुवनविन्यासः )

शाल्मलिविपुलस्कन्धस्तस्य नाम्ना स उच्यते । शाल्मलिस्तु समुद्रेण सुरोदेन समन्ततः ॥
विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ॥ ४५
उत्तरेषु तु धर्मज्ञा द्वीपेषु शृणुत प्रजाः । यथाश्रुतं यथान्यायं ब्रुवतो मे निबोधत ॥ ४६
कुशद्वीपं प्रवक्ष्यामि चतुर्थं तं समासतः । सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ॥ ४७
सप्तैव गिरयस्तत्र वर्ण्यमानान्निबोधत । शाल्मलस्य तु विस्ताराद्विगुणेन समन्ततः ॥ ४८
कुशद्वीपे तु विज्ञेयः पर्वतो विद्रुमोच्चयः । द्वीपस्य प्रथमस्तस्य द्वितीयो हेमपर्वतः ॥ ४९
तृतीयो द्युतिमान्नाम जीमूतसदृशो गिरिः । चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ॥ ५०
षष्ठो हरिगिरिर्नाम सप्तमो मन्दरः स्मृतः । मन्दा इति ह्यपां नाम मन्दरो धारणादपाम् ॥ ५१
तेषामन्तरविष्कम्भो द्विगुणः परिवारितः । उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ॥ ५२
तृतीयं स्वैरथाकारं चतुर्थं लवणं स्मृतम् । पञ्चमं धृतिमद्धर्षं षष्ठं वर्षं प्रभाकरम् ॥
सप्तमं कपिलं नाम सप्तैते वर्षपर्वताः ॥ ५३
एतेषु देवगन्धर्वाः प्रभासु जगदीश्वराः । विहरन्ति रमन्ते च दृश्यमानास्तु वर्षशः ॥ ५४
न तेषु दस्यवः सन्ति म्लेच्छजात्यस्तथैव च । गौरप्रायो जनः सर्वः क्रमाच्च म्रियते तथा ॥ ५५
तत्रापि नद्यः सप्तैव धुतपापाः शिवास्तथा । पवित्रा संततिश्चैव द्युतिगर्भा मही तथा ॥ ५६
अन्यास्ताभ्योऽपरिज्ञाताः शतशोऽथ सहस्रशः । अभिगच्छन्ति ताः सर्वा यतो वर्षति वासवः॥ ५७
घृतोदेन कुशद्वीपो बाह्यतः परिवारितः । विज्ञेयः स तु विस्तारात्कुशद्वीपसमेन तु ॥ ५८
इत्येष संनिवेशो वः कुशद्वीपस्य वर्णितः । क्रौञ्चद्वीपस्य विस्तारं वक्ष्याम्यहमतः परम् ॥ ५९
कुशद्वीपस्य विस्ताराद्विगुणः स तु वै स्मृतः । घृतोदकसमुद्रो वै क्रौञ्चद्वीपेन संवृतः ६०
तस्मिन्द्वीपे नगश्रेष्ठः क्रौञ्चस्तु प्रथमो गिरिः । क्रौञ्चात्परो वामनको वामनादन्धकारकः ॥ ६१
अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः । दिवावृतः परश्चापि द्विन्दो गिरिरुच्यतेः ॥ ६२
द्विविन्दात्परतश्चापि पुण्डरीको महागिरिः । पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः ॥ ६३
एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः । बहुवृक्षफलोपेता नाना वृक्षलतावृताः ॥ ६४
परस्परेण द्विगुणा विष्कम्भाद्वर्षपर्वताः । वर्षाणि तत्र वक्ष्यामि नामतस्तु निबोधत ॥ ६५
क्रौञ्चस्य कुशलो देशो वामनस्य मनोजुगः । मनोजुगात्परश्चोष्णस्तृतीयो देश उच्यते ॥ ६६
उष्णात्परः प्रावरकः प्रावरादन्धकारकः । अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ॥ ६७
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः । सिद्धचारणसंकीर्णो गौरप्रायो जवः स्मृतः ॥ ६८
तत्रापि नद्यः सप्तैव प्रतिवर्षं स्मृतः शुभाः । गौरी कुमुद्वती चैव संध्या रात्रिर्मनोजवा ॥
ख्यातिश्च पुण्डरीका च गङ्गा सप्तविधा स्मृता ॥ ६९
तासां समुद्रगाश्चान्या नद्यो यास्तु समीपगाः । अनुगच्छन्ति ताः सर्वा विपुलाः सुबहूदकाः । । ७०
क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु । आवृतः सर्वतः श्रीमान्क्रौञ्चद्वीपसमेन तु ॥ ७१
प्लक्षद्वीपादयो ह्येते समासेन प्रकीर्तिताः । तेषां निसर्गो द्वीपानामानुपूर्व्येण सर्वशः ॥ ७२
न शक्यं विस्तराद्वक्तुमपि वर्षशतैरपि । निसर्गोऽयं प्रजानां तु संहारो यश्च तासु वै ॥ ७३

[अ० ४९ श्लो० ७४-९९] वायुपुराणम् १४९

(भुवनविन्यासः)

अत ऊर्ध्वं प्रवक्ष्यामि शाकद्वीपस्य यो विधिः । शाकद्वीपस्य कृत्स्नस्य यथावदिह निश्चयात् ॥
शृणुध्वं वै यथातत्त्वं ब्रुवतो मे यथार्थवत् ॥ ७४
क्रौञ्चद्वीपस्य विस्ताराद्विगुणस्तस्य विस्तरः । परिवार्य समुद्रं स दधिमण्डोदकं स्थितः ॥ ७५
तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः । कुत एव तु दुर्भिक्षं जराव्याधिभयं कुतः ॥ ७६
तत्रापि पर्वताः शुभ्राः सप्तैव परिभूषिताः । रत्नाकरास्तथा नद्यस्तासां नामानि मे शृणु ॥ ७७
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते । प्रागायातः ससौवर्ण उदयो नाम पर्वतः ॥ ७८
तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्ति च यान्ति च । तस्यापरेण सुमहाञ्जलधारो महागिरिः ॥ ७९
तस्मान्नित्यमुपादत्ते वासवः परमं जलम् । ततो वर्षं प्रभवति वर्षाकाले मजास्विह ॥ ८०
तस्यापरे रैवतको यत्र नित्यं प्रतिष्ठितः । रेवती दिवि नक्षत्रं पितामहकृतो गिरिः ॥ ८१
तस्यापरेण सुमहाञ्श्यामो नाम महागिरिः । तस्माच्छ्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल ॥ ८२
तस्यापरेण रजतो महानस्तो गिरिः स्मृतः । तस्यापरेणाऽऽम्बिकेयो दुर्गः शैलो हिमाचितः ॥ ८३
आम्बिकेयात्परो रम्यः सर्वौषधिसमन्वितः । स चैव केशरीत्युक्तो यतो वायुः प्रवायात ॥ ८४
शृणुध्वं नामतस्तानि यथावदनुपूर्वशः । उदयस्योदकं वर्षं जलदं नाम विश्रुतम् ॥ ८५
द्वितीयं जलधारस्य सुकुमारमिति स्मृतम् । रैवतस्य तु कौमारं श्यामस्य तु मणीचकम् ॥ ८६
अस्तस्यापि शुभं वर्षं विज्ञेयं कुसुमोत्तरम् । आम्बिकेयस्य मोदार्कं केसरेषु महाद्रुमम् ॥ ८७
द्वीपस्य परिमाणं च ह्रस्वदीर्घत्वमेव च । शाकद्वीपेन विख्याततस्य मध्ये वनस्पतिः ॥
शाको नाम महावृक्षस्तस्य पूजां प्रयञ्जते ॥ ८८
एतेन देवगन्धर्वाः सिद्धाश्च सह चारणैः । विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह ॥ ८९
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । तेषु नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः ॥
विद्धि नाम्नश्च (म्ना च) ताः सर्वा गङ्गास्ताः सप्तधा स्मृताः ॥ ९०
प्रथमा सुकुमारीति गङ्गा शिवजला तथा । अनुतप्ता च नाम्नैव नदी संपरिकीर्तिता ॥ ९१
कुमारी नामतः सिद्धा द्वितीया सा पुनः सती । नन्दा च पार्वती चैव तृतीया परिकीर्तिता ॥ ९२
शिवेतिका चतुर्थी स्यात्त्रिदिवा च पुनः स्मृता । इक्षुश्च पञ्चमी ज्ञेया तथैव च पुनः क्रतुः ॥ ९३
धेनुका च मृता चैव षष्ठी संपरिकीर्तिता । एताः सप्त महागङ्गाः प्रतिवर्षं शिवोदकाः ॥
भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम् ॥ ९४
अनुगच्छन्ति तास्त्वन्या नदीर्नद्यः सहस्रशः । बहूदकपरिस्रावा यतो वर्षति वासवः ॥ ९५
तासां तु नामधेयानि परिमाणं तथैव च । न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः ॥
ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ॥ ९६
शांशपायन विस्तीर्णो द्वीपोऽसौ चक्रसंस्थितः । नदीजलैः प्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः ॥ ९७
सर्वधातुविचित्रैश्च मणिविद्रुमभूषितैः । पुरैश्च विविधाकारैः स्फीतैर्जनपदैरपि ॥ ९८
वृक्षैः पुष्पफलोपेतैः समन्ताद्धनधान्यवान् । क्षीरोदेन समुद्रेण सर्वतः परिवारितः ॥
शाकद्वीपस्तु विस्तारात्समेन तु समन्ततः ॥ ९९

१५० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०४९-श्लो०१००-१२८]
(भुवनविन्यासः)

तस्मिञ्जनपदाः पुण्याः पर्वतान्तरिते शुभाः । वर्णाश्रमसमाकीर्णा देशास्ते सप्त वै स्मृताः॥ १००
न संकरश्च तेष्वस्ति वर्णाश्रमकृतः क्वचित् । धर्मस्य चाव्यभीचारादेकान्तसुखिताः प्रजाः ॥ १०१
न तेषु लोभो माया वा ईर्ष्याऽसूयाऽधृतिः कुतः । विपर्ययो न तेष्वस्ति एतत्स्वाभाविकं स्मृतम् ॥
करोत्पत्तिर्न तेष्वस्ति न दण्डो न च दण्डकाः । स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ॥ १०३
एतावदेव शक्यं वै तस्मिन्द्वीपे निवासिनाम् । पुष्करं सप्तमं द्वीपं प्रवक्ष्यामि निबोधत ॥ १०४
पुष्करेण तु द्वीपेन वृतः क्षीरोदको बहिः । शाकद्वीपस्य विस्ताराद्द्विगुणेन समन्ततः ॥ १०५
पुष्करे पर्वतः श्रीमानेक एव महाशिलः । चित्रैर्मणिमयैः शैलैः शिखरैस्तु समुच्छ्रितैः ॥ १०६
द्वीपस्य तस्य पूर्वार्धे चित्रसानुः स्थितो महान् । परिमण्डलसहस्राणि विस्तीर्णः पञ्चविंशतिः ॥ १०७
ऊर्ध्वं चैव चतुस्त्रिंशत्सहस्राणि समाचितः । द्वीपार्धस्य परिस्तोमः पर्वतो मानसोत्तमः ॥ १०८
स्थितो बेलासमीपे तु नवचन्द्र इवोदितः । योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ॥ १०९
तावदेव स विस्तीर्णः सर्वतः परिमण्डलः । स एवं द्वीपपक्षार्धे मानसः पृथिवीधरः ॥ ११०
एक एव महासानुः संनिवेशद्विधा कृतः । स्वादूदकेनोदधिना सर्वतः परिवारितः ॥ १११
पुष्करद्वीपविस्ताराद्विस्तीर्णोऽसौ समन्ततः । तस्मिन्द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ॥
अभितो मानसस्याथ पर्वतस्यानुमण्डलौ ॥ ११२
महावीतं तु यद्वर्षं बाह्यतो मानसस्य तत् । तस्यैवाभ्यन्तरे यत्तु धातकीखण्डमुच्यते ॥ ११३
दश वर्षसहस्राणि तत्र जीवन्ति मानवाः । आरोग्यसुखभूयिष्ठा मानसीं सिद्धिमास्थिताः ॥ ११४
सममायुश्च रूपं च तस्मिन्वर्षद्वये स्थितम् । अधमोत्तमौ न तेष्वास्तां तुल्यास्ते रूपशीलतः ॥ ११५
न तत्र वञ्चको नेर्ष्या न स्तेया(यं) न भयं तथा । निग्रहो न च दण्डोऽस्ति न लोभो न परिग्रहः ॥
सत्यानृत्यं न तत्रास्ति धर्माधर्मौ तथैव च । वर्णाश्रमाणां वार्ता वा पाशुपाल्यं वणिक्क्रिया ॥ ११७
त्रयी विद्या दण्डनीतिः शुश्रूषा शल्यमेव च । वर्षद्वये सर्वमेतत्पुष्करस्य न विद्यते ॥ ११८
न तत्र नद्यो वर्षे च शीतोष्णं वा न विद्यते । उद्भिज्ञान्युदकान्यत्र गिरिमप्र(स्र)वणानि च ॥ ११९
उत्तराणां कुरूणां च तुल्यकालो जनः सदा । सर्वत्र सुसुखस्तत्र जरामृत्युविवर्जितः ॥ १२०
इत्येष धातकीखण्डे महावीते तथैव च । आनुपूर्व्याद्विधिः कृत्स्नः पुष्करस्य प्रकीर्तितः ॥ १२१
स्वादूदकेनोदधिना पुष्करः परिवारितः । विस्तारान्मण्डलाच्चैव पुष्करस्य तथैव च ॥ १२२
एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृता । द्वीपस्यानन्तरो यस्तु समुद्रस्तत्समस्तु सः ॥ १२३
एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परात् । अपां चैव समुद्रेकात्समुद्रा इति संज्ञिताः ॥ १२४
ऋषयो निवसन्त्यस्मिन्प्रजा यस्माच्चतुर्विधाः । तस्माद्वर्षमिति प्रोक्तं प्रजानां सुखदं तु तत् ॥ १२५
ऋष इत्येव ऋषिणो वृषः शक्तिप्रबन्धने । रतिप्रबन्धनात्सिद्धं वर्षत्वं तेन तेषु तत् ॥ १२६
शुक्लपक्षे चन्द्रवृद्धौ समुद्रः पूर्यते सदा । पक्षीयमाणे बहुले क्षीयतेऽस्तमिते खगे ॥ १२७
• आपूय्र्यमाण उदधिः स्वत एवाभिपूय्र्यते । ततोऽपक्षीयमाणोऽपि स्वात्मनैवापकृष्यते ॥ १२८

[अ० ४९ श्लो० १२९-१५३] वायुपुराणम्। १५१

( भुवनविन्यासः )
उखास्थमग्निसंयोगाज्जलंमुद्रिच्यते यथा । तथा महोदधिगतं तोयमुद्रिच्यते ततः ॥ १२९
अन्यूना ह्यतिरिक्ताश्च वर्धन्त्यापो हसन्ति च । उदयास्तमितेश्वेन्दोः पक्षयोः शुक्लकृष्णयोः ॥
क्षयवृद्धिंरवमुदधेः सोमवृद्धिक्षयात्पुनः ॥ १३०
दशोत्तराणि पञ्चैव अङ्गुलीनां शतानि तु । अपां वृद्धिः क्षयो दृष्टः समुद्राणां तु पर्वसु ॥ १३१
द्विरापत्वात्स्मृता द्वीपाः सर्वतश्चोदकावृताः । उदकस्याऽऽधानं यस्मात्तस्मादुधिरुच्यते ॥
अपर्वाणस्तु गिरयः पर्वाभिः पर्वताः स्मृताः । प्लक्षद्वीपे तु गोमेदः पर्वतस्तेन चोच्यते ॥ १३२
शाल्मलिः शाल्मलद्वीपे पूज्यते च महाद्रुमः । कुशद्वीपे कुशस्तम्बस्तस्य नाम्ना स उच्यते ॥ १३३
क्रौञ्चद्वीपे गिरिः क्रौञ्चो मध्ये जनपदस्य ह । शाकद्वीपे द्रुमः शाकस्तस्य नाम्ना स उच्यते ॥ १३४
न्यग्रोधः पुष्करद्वीपे तत्र तैः स नमस्कृतः । महादेवः पूज्यते तु ब्रह्मा त्रिभुवनेश्वरः ॥ १३५
तस्मिन्निवसति ब्रह्मा साध्यैः सार्धं प्रजापतिः । उपासते तत्र देवास्त्रयस्त्रिंशन्महर्षिभिः ॥
स तत्र पूज्यते चैव देवैर्देवोत्तमोत्तमः ॥ १३६
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधानि च । द्वीपेषु तेषु सर्वेषु प्रजानां हि क्रमात्त्विह ॥ १३७
सर्वशो ब्रह्मचर्येण सत्येन च दमेन च । आरोग्यायुः प्रमाणाद्धि द्विगुणं च समन्ततः ॥ १३८
एतस्मिन्पुष्करद्वीपे यदुक्तं वर्षकद्वयम् । गोपायति प्रजास्तत्र स्वयं सज्जनमण्डिताः ॥ १३९
ईश्वरो दण्डमुद्यम्य ब्रह्मा त्रिभुवनेश्वरः । सविष्णुः सशिवो देवः स पिता स पितामहः ॥ १४०
भोजनं चाप्रयत्नेन तत्र स्वयमुपस्थितम् । षड्रसं सुमहावीर्यं भुञ्जते च प्रजाः सदा ॥ १४१
परेण पुष्करस्याथ आवृत्त्यायः(यं) स्थितो महान् । स्वादूदकः समुद्रस्तु समन्तात्परिवेष्टितः ॥ १४२
परेण तस्य महती दृश्यते लोकसंस्थितिः । काञ्चनी द्विगुणा भूमिः सर्वा चैकशिलोपमा ॥ १४३
तस्मात्परेण शैलस्तु मर्यादान्ते तु मण्डलम् । प्रकाशाश्चाप्रकाशश्च लोकालोकः स उच्यते ॥ १४४
आलोकस्तस्य चार्वाक्तु निरालोकस्ततः परम् । योजनानां सहस्राणि दश तस्योच्च्छ्रयः स्मृतः ॥ १४५
तावांश्च विस्तस्तस्य पृथिव्यां कामगश्च सः । आलोके लोकशब्दस्तु निरालोके सलोकता ॥
लोकार्थं समतो लोको निरालोकस्तु बाह्यतः ॥ १४६
लोकविस्तारमात्रं तु आलोकः सर्वतो बहिः । परिच्छिन्नः समन्ताच्च उदकेनाऽऽवृतश्च सः ॥
निरालोकात्परश्चापि अण्डमावृत्य तिष्ठति ॥ १४७
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी । भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्तथा ॥ १४८
जनस्तपस्तथा सत्य एतावांलोकसंग्रहः । एतावानेव विज्ञेयो लोकान्तश्चैव तत्परः ॥ १४९
कुम्भस्थायी भवेद्याद्वक्प्रतीच्यां दिशि चन्द्रमाः । आदितः शुक्लपक्षस्य वपुरण्डस्य तद्विधम् ॥ १५०
अण्डानामहिशानां तु कोट्यो ज्ञेयाः सहस्रशः । तिर्यगूर्ध्वमधस्ताच्च कारणस्याव्ययात्मनः ॥
कारणैः प्राकृतैस्तत्र ह्यावृतं प्रतिसप्तभिः ॥ १५१
दशाधिक्येन चान्योन्यं धारयन्ति परस्परम् । परस्परावृताः सर्वे उत्पन्नाश्च परस्परात् ॥ १५२
अण्डस्यास्य समन्तात्तु संनिविष्टो घनोदधिः । समन्ताद्येन तोयेन धार्यमाणः स तिष्ठति ॥ १५३

१५२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०४१श्लो० १५४-१७८]
( भुवनविन्यासः )

बाह्यतो घनतोयस्य तिर्यगूर्ध्वानुमण्डलम् । धार्यमाणं समन्तात्तु तिष्ठते घनतेजसा ॥ १५४
अयोगुडनिभो वह्निः समन्तान्मण्डलाकृतिः । समन्ताद्धनवातेन धार्यमाणः स तिष्ठति ॥
घनवातस्तथाऽऽकाशं धारयाणस्तु तिष्ठति ॥ १५५
भूतादिश्च तथाऽऽकाशं भूताद्यं चाप्यसौ महान् । महान्व्याप्तो ह्यनन्तेन अव्यक्तेन तु धार्यते ॥
अनन्तमपरिव्यक्तं दशधा सूक्ष्म एव च । अनन्तमकृतात्मानमनादिधनं च तत् ॥ १५७
अतीत्य परतो घोरमनालम्बमनामयम् । नैकयोजनसाहस्रं विप्रकृष्टं तमोवृतम् ॥ १५८
तम एव निरालोकममर्यादमदेशिकम् । देवानामप्यविदितं व्यवहारविवर्जितम् ॥ १५९
तमसोऽन्ते च विख्यातमाकाशान्ते च भास्वरम् । मर्यादायामतस्तस्य शिवस्याऽऽयतनं महत् ॥
त्रिदशानामगम्यं तु स्थानं दिव्यमिति श्रुतिः । महतो देवदेवस्य मर्यादायां व्यवस्थितम् ॥ १६१
चन्द्रादित्यावतप्तास्तु ये लोकाः प्रथिता बुधैः । ते लोका इत्यभिहिता जगतश्च न संशयः ॥ १६२
रसातलतलात्सप्त सप्तैवोर्ध्वतलाः क्षितौ । सप्त स्कन्धास्तथा वायोः सप्तब्रह्मसदना द्विजाः ॥ १६३
आपातालाद्दिवं यावदत्र पञ्चविधा गतिः । प्रमाणमेतज्जगत एष संसारसागरः ॥ १६४
अनाद्यन्ता प्रथात्येवं नैकजातिसमुद्भवा । विचित्रा जगतः सा वै प्रवृत्तिरनवस्थिता ॥ १६५
यथैतद्द्योतिकं नाम निसर्गबहुविस्तरम् । अतीन्द्रियैर्महाभागैः सिद्धैरपि न लक्ष्यते ॥ १६६
पृथिव्यां चाग्निवायूनां महत्तस्तमसस्तथा । ईश्वरस्य तु देवस्य अनन्तस्य द्विजोत्तमाः ॥ १६७
क्षयो वा परिमाणं वा अन्तो वाऽपि न विद्यते । अनन्त एष सर्वत्र सर्वस्थानेषु पठ्यते ॥
तस्य चोक्तं मया पूर्वं तस्मिन्नामानुकीर्तने ॥ १६८
य एष शिवनाम्ना हि तद्वः कार्त्स्न्येन कीर्तितम् । स एष सर्वत्र गतः सर्वस्थानेषु पूज्यते ॥ १६९
भूमौ रसातले चैव आकाशे पवनेऽनले । अर्णवेषु स सर्वेषु दिवि चैव न संशयः ॥ १७०
तथा तपसि विज्ञेय एष एव महाद्युतिः । अनेकधा विभक्ताङ्गो महायोगी महेश्वरः ॥
सर्वलोकेषु लोकेश इज्यते बहुधा प्रभुः ॥ १७१
एवं परस्परोत्पन्ना धार्यन्ते च परस्परान् । आधाराधेयभावेन विकारास्ते विकारिणः ॥ १७२
पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम् । परस्पराधिकाश्चैव प्रविष्टाश्च परस्परम् ॥ १७३
यस्माद्विष्टाश्च तेऽन्योन्यं तस्मात्स्थैर्यमुपागताः । प्रागासन्द्यविशेषास्तु विशेषानान्योन्यवेशनात् ॥
पृथिव्याद्याश्च वाय्वन्ताः परिच्छिन्नास्त्यस्तु ते ॥ १७४
गुणापचयसारेण परिच्छेदो विशेषतः । शेषाणां तु परिच्छेदः सौम्यानेह विभाव्यते ॥ १७५
भूतेभ्यः परतस्तेभ्यो ह्यालोकः परतः स्मृतः । भूतान्यालोक आकाशे परिच्छिन्नानि सर्वशः ॥ १७६
पात्रे महति पात्राणि यथैवान्तर्गतानि तु । भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात् ॥
तथा ह्यालोक आकाशे भेदास्त्वन्तर्गता मताः ॥ १७७
कृत्स्नान्येतानि चत्वारि अन्योन्यस्याधिकानि तु । यावदेतानि भूतानि तावदुत्पत्तिरुच्यते ॥ १७८