वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पिनाकिने प्रसिद्धाय स्फीताय प्रस्तुताय च। सुमेधसेऽक्षमालाय दिग्वासाय शिखण्डिने ॥ १३२
[अ० २४ श्लो० १३२-१५५] वायुपुराणम्। ७३
(शार्वस्तवः)
पिनाकिने प्रसिद्धाय स्फीताय प्रस्तुताय च। सुमेधसेऽक्षमालाय दिग्वासाय शिखण्डिने ॥ १३२
चित्राय चित्रवर्णाय विचित्त्राय धराय च। चेकितानाय तुष्टाय नमस्त्वनिहिताय च ॥ १३३
नमः क्षान्ताय शान्ताय वज्रसंहननाय च। रक्षोघ्नाय मखघ्नाय शितिकण्ठोर्ध्वरेतसे ॥ १३४
अरिहाय कृतान्ताय तिग्मायुधधराय च। संमोदाय प्रमोदाय हरिण्यायैव ते नमः ॥ १३५
प्रणवप्रणवेशाय भक्तानां शर्मदाय च। मृगव्याधाय दक्षाय दक्षयज्ञहराय च ॥ १३६
सर्वभूताय भूताय सर्वेषातिशयाय च। पुरभेत्रे च शान्ताय सुगन्धाय वरैषवे ॥ १३७
पूष्णो दन्तविनाशाय भग्ननेत्रान्तकाय च। कणादाय वरिष्ठाय कामाङ्गदहनाय च ॥ १३८
रवेः करालचक्राय नागेन्द्रदमनाय च। दैत्यानामन्तकायाथो दिव्याक्रन्दकराय च ॥ १३९
श्मशानरतिनित्याय नमस्त्र्यम्बकधारिणे। नमस्ते प्राणपालाय धवमालाधराय च ॥ १४०
प्रहीणशोकैर्विविधैर्भूतैः परिवृताय च। नरनारीशरीराय देव्याः प्रियकराय च ॥ १४१
जटिने दण्डिने तुभ्यं व्यालयज्ञोपवीतिने। नमोऽस्तु नृत्यशीलाय वायनृत्यप्रियाय च ॥ १४२
मन्यवे गीतशीलाय सुगीतं गायते नमः। कटककराय भीमाय चोग्ररूपधराय च ॥ १४३
बिभीषणाय भीमाय भगप्रमथनाय च। सिद्धसंघातगीताय महाभागाय वै नमः ॥ १४४
नमो मुकाट्टहासाय क्ष्वेडितास्फोटिताय च। नदते कूर्दते चैव मनः प्रमुदिताय च ॥ १४५
नमोऽद्भुताय स्वपते धावते प्रस्थिताय च। ध्यायते जृम्भते चैव तुदते द्रवते नमः ॥ १४६
चलते क्रीडते चैव लम्बोदरशरीरिणे। नमस्कृताय कम्पाय मुण्डाय विकराय च ॥ १४७
नम उन्मत्तवेषाय किंकिणीकाय वै मनः। नमो विकृतवेषाय क्रूरोयामर्ष णाय च ॥ १४८
अपमेयाय दीप्ताय दीप्तये निर्गुणाय च। नमः प्रियाय वादाय मुद्रामणिधराय च ॥ १४९
(*नमस्तोकाय तनवे गुणैरप्रतिमाय च। नमो गणाय गुह्याय गम्याय गमनाय च ॥) १५०
लोकधात्री त्वियं भूमिः पादौ सज्जनसेवितौ। सर्वेषां सिद्धयोगानामाधिष्ठानं तवोदरम् ॥ १५१
मध्येऽन्तरिक्षं विस्तीर्णं तारागणविभूषितम्। तारापथ इवाऽऽभाति श्रीमान्हारस्त्ववोरसि ॥ १५२
दिशो दश भुजास्ते वै केयूराङ्गदभूषिताः। विस्तीर्णपरिणाहश्च नीलाम्बुदचयोपमः ॥ १५३
कण्ठस्ते शोभते श्रीमान्हेमसूत्रविभूषितः। दंष्ट्राकरालदुर्धर्षमनौपम्यं सुखं तव ॥ १५४
पद्ममालाकृतोष्णीषं शीर्षण्यां शोभते कथम्। दीप्तिः सूर्ये वपुश्चन्द्रे स्थैर्यं भूर्शनिलो बले ॥ १५५
* धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति।
१०
७४ | श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० २४-२५ श्लो० १५६-१६५।१-६]
--- | ( मधुकैटभोत्पत्तिविनाशवर्णनम् )
तष्ण्यमग्नौ प्रभा चन्द्रे खे शब्दः शैत्यमप्सु च । अक्षरोत्तमनिष्प(स्प)न्दान्गुणनेतान्विदुर्बुधाः ॥ १५६
जपो जप्यो महायोगी महादेवो महेश्वरः । पुरेशयो गुहावासी खेचरो रजनीचरः ॥ १५७
तपोनिधिर्गुहगुरुर्नन्दनो नन्दिवर्धनः । हयशीर्षो धराधाता विधाता भूतवाहनः ॥ १५८
बौद्धव्यो बोधनो नेता धूर्वहो दुष्पकम्पकः । वृहद्रथो भीमकर्म वृहत्कीर्तिर्धनंजयः ॥ १५९
घण्टाप्रियो ध्वजी छत्री पताकाध्वजिनीपतिः । कवची पट्टिशी शङ्खी पाशहस्तः परश्वभृत् ॥ १५९
अगस्त्वमनघः शूरो देवराजारिमर्दनः । त्वां प्रसाद्य पुरास्माभिर्द्विषन्तो निहता युधि ॥ १६०
अभिस्त्वं चार्वणान्सर्वान्पिबन्नेव न तृप्यसे । कोषागारः प्रसन्नात्मा कामहा कामदः प्रियः ॥
ब्रह्मण्यो ब्रह्मचारी च गोधनस्त्वं शिष्टपूजितः । वेदानामव्ययः कोशस्त्वया यज्ञः मकल्पितः ॥ १६१
हव्यं च वेदं वहति वेदोक्तं हव्यवाहनः । प्रीते त्वयि महादेव वयं प्रीता भवामहे ॥ १६२
भवानीशोऽनादिमान्धामराशिर्ब्रह्मा लोकानां त्वं कर्ता त्वादिसर्गः ।
सांख्याः प्रकृतिभ्यः परं त्वां विदित्वाऽक्षीणध्यानास्ते न मृत्युं विशन्ति ॥ १६३
योगेन त्वां ध्यानिनो नित्ययुक्ता ज्ञात्वा भोगान्संत्यजन्ते पुनस्तान् ॥
येऽन्ये मर्त्यास्त्वां प्रपन्ना विशुद्धास्ते कर्मभिर्दिव्यभोगान्भजन्ते ॥ १६४
अप्रमेयस्य तत्त्वस्य यथा विद्मः स्वशक्तितः । कीर्तितं तव माहात्म्यमपारं परमात्मनः ॥
शिवो नो भव सर्वत्र योऽसि सोऽसि नमोऽस्तु ते ॥ १६५
इति श्रीमहापुराणे वायुप्रोक्ते शार्वस्तवो नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
आदितः श्लोकानां समष्ट्यङ्काः- १८३६
अथ पञ्चविंशोऽध्यायः ।
मधुकैटभोत्पत्तिविनाशवर्णनम् ।
सूत उवाच--
संपिबन्निव तौ दृष्ट्वा मधुपिङ्गायतेक्षणः । प्रहृष्टवदनोऽत्यर्थमभवच्च स्वकीर्तनात् ॥ १
उमापतिर्विरूपाक्षो दक्षयज्ञविनाशनः । पिनाकी खण्डपरशुर्भूतप्रान्ताक्षिलोचनः ॥ २
ततः स भगवान्देवः श्रुत्वा वाक्यामृतं तयोः । जानन्नपि महाभागः प्रीतिपूर्वमथाब्रवीत् ॥ ३
कौ भवन्तौ महात्मानौ परस्परहितैषिणौ । समेतावम्बुजाभाक्षौ तस्मिन्घोरे जलप्लवे ॥ ४
तावूचतुर्महात्मानौ संनिरीक्ष्य परस्परम् । भगवन्किंच तथ्येन विज्ञातेन त्वया विभो ॥
कुत्र वा सुखमानन्त्यमिच्छाचारमृते त्वया ॥ ५
* तयोस्तद्वचनं श्रुत्वा ह्यभिनन्द्यानुमान्य च । उवाच भगवान्देवो मधुरश्लक्ष्णया गिरा ॥
भो भो हिरण्यगर्भ त्वां त्वां च कृष्ण वदाम्यहम् ॥ ६
* इदमर्धं नास्ति क. पुस्तके ।