सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

( चतुराश्रमविभाग )

[अ०८श्लो०३६-६३] वायुपुराणम् । २५
( चतुराश्रमविभाग )

ततः सर्गे ह्यवष्टब्धे सिसृक्षोर्ब्रह्मणस्तु वै । प्रजास्ता ध्यायतस्तस्य सत्याभिध्यायिनस्तदा ॥ ३६
मिथुनानां सहस्रं तु सोऽसृजद्वै मुखात्तदा । जनास्ते ह्युपपद्यन्ते सत्त्वोद्रिक्ताः सुचेतसः ॥ ३७
सहस्रमन्यद्वक्षस्तो मिथुनानां ससर्ज ह । ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यशुष्मिणः ॥ ३८
सृष्ट्वा सहस्रमन्यत्तु द्वंद्दाना मुरुतः पुनः । रजस्तमोभ्यामुद्रिक्ता ईहाशीलास्तु ते स्मृताः ॥ ३९
पद्भ्यां सहस्रमन्यत्तु मिथुनानां ससर्ज ह । उद्रिक्तास्तमसा सर्वे निःश्रीका ह्यल्पतेजसः ॥ ४०
ततो वै हर्षमाणास्ते द्वंद्वोत्पन्नास्तु प्राणिनः । अन्योन्या हृच्छयाविष्टा मैथुनायोपचक्रमुः ॥ ४१
ततः प्रभृति कल्पेऽस्मिन्मिथुनोत्पत्तिरुच्यते । मासे(सि) मासे(स्या)र्तवं यद्यत्तत्तदासद्धि योषिताम् ॥ ४२
तस्मात्तदा न सुषुवुः सेवितैरपि मैथुनैः । आयुषोऽन्ते प्रसूयन्ते मिथुनान्येव ते सकृत् ॥ ४३
(*कुटकाः कुविकाश्चैव उत्पद्यन्ते मुमूर्षताः । ततः प्रभृति कल्पेऽस्मिन्मिथुनानां हि संभवः ॥ ४४
ध्याते तु मनसा तासां प्रजानां जायते सकृत् । ) शब्दादिविषयः शुद्धः प्रत्येकं पञ्चलक्षणः ॥ ४५
इत्येव मानसी पूर्वं प्राक्सृष्टिर्या प्रजापतेः । तस्यान्ववाये संभूता यैरिवं पूरिदं जगत् ॥ ४६
सरित्सरःसमुद्रांश्च सेवन्ते पर्वतानपि । तदा नात्यम्बुशीतोष्णा युगे तस्मिंश्चरन्ति वै ॥ ४७
÷पृथ्वीरसोद्भवं नाम आहारं ह्याहरन्ति वै । ताः प्रजाः कामचारिण्यो मानसी सिद्धिमास्थिताः ॥ ४८
धर्माधर्मौ न तास्वास्तां (+निर्विशेषाः प्रजास्तु ताः । तुल्यमायुः सुखं रूपं तासां तस्मिन्कृते युगे ॥४९
धर्माधर्मौ न तास्वास्तां ) कल्पादौ तु कृते युगे । स्वेन स्वेनाधिकारेण जज्ञिरे ते कृते युगे ॥ ५०
चत्वारि तु सहस्राणि वर्षाणां दिव्यसंख्यया । आद्यं कृतयुगं प्राहुः संध्यानां तु चतुःशतम् ॥ ५१
ततः सहस्रशस्तासु प्रजासु प्रथितास्वपि । न तासां प्रतिघातोऽस्ति न द्वंद्धं नापि च क्रमः ॥ ५२
पर्वतोदधिसंसेव्यो ह्यनिकेताश्रयास्तु ताः । विशोकाः सत्त्वबहुला एकान्तसुखितप्रजाः ॥ ५३
ता वै निकामचारिण्यो नित्यं मुदितमानसाः । पशवः पक्षिणश्चैव न तदाऽऽसन्न्सरीसृपाः । ५४
नोद्भिज्जा नारकाश्चैव ते ह्यधर्मप्रसूतयः । न मूलफलपुष्पं च नाऽऽर्तवमूतवो न च ॥ ५५
सर्वकामसुखः कालो नात्यर्थं ह्युष्णशीतता । ( ×मनोभिलाषिताः कामास्तासां सर्वत्र सर्वदा ॥ ५६
उत्तिष्ठन्ति पृथिव्यां वै ताभिर्ध्याता रसोत्थिताः) । बलवर्णकरी तासां सिद्धिः सा रोगनाशिनी ॥ ५७
असंस्कार्यैः शरीरैश्च प्रजास्ताः स्थिरयौवनाः । तासां विशुद्धात्संकल्पाज्जायन्ते मिथुनाः प्रजाः ॥५८
समं जन्म च रूपं च म्रियन्ते चैव ताः समम् । तदा सत्यमलोभश्च क्षमा तुष्टिः सुखं दमः ॥ ५९
निर्विशेषास्तु ताः सर्वा रूपायुःशीलचेष्टितैः । अबुद्धिपूर्वकं वृत्तं प्रजानां जायते स्वयम् ॥ ६०
अप्रवृत्तिः कृतयुगे कर्मणोः शुभपापयोः । वर्णाश्रमव्यवस्थाश्च न तदाऽऽसन्न संकरः ॥ ६१
अनिच्छोद्देषयुक्तास्ते वर्तयन्ति परस्परम् । तुल्यरूपायुषः सर्वा अधमोत्तमवर्जिताः ॥ ६२
सुखप्रायो ह्यशोकाश्च उत्पद्यन्ते कृते युगे । नित्यप्रहृष्टमनसो महासत्त्वा महाबलाः ॥ ६३


* धनुश्चिह्नान्तर्गतग्रन्थः ग. पुस्तके नास्ति । ÷इदमर्धं नास्ति ड. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति । × धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
४

२६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८श्लो०६४-९२]
( चतुराश्रमविभागः )

लाभालाभौ न तास्वास्तां मित्रामित्रे प्रियाप्रिये । मनसा विषयस्तासां निरीहाणां प्रवर्तते ॥ ६४
न लिप्सन्ति हि ताऽन्योन्यं नानुगृह्णन्ति चैव हि । ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते ॥ ६५
प्रवृत्तं द्वापरे यज्ञं(ज्ञो) दानं कलियुगे वरम् । सत्त्वं कृतं रजस्त्रेता द्वापरं तु रजस्तमौ ॥ ६६
कलौ तमस्तु विज्ञेयं युगवृत्तवशेन तु । कालः कृते युगे त्वेष तस्य संख्यां निबोधत ॥ ६७
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् । संध्यांशो तस्य दिव्यानि शतान्यष्टौ च संख्यया ॥ ६८
तदा तासां बभूवाऽऽयुर्न च क्लेशविपत्तयः । ततः कृतयुगे तस्मिन्संध्यांशे हि गते तु वै ॥ ६९
पादावशिष्टो भवति युगधर्मस्तु सर्वशः । संध्यायामप्यतीतायामन्तकाले युगस्य तु ॥ ७०
पादवश्वावशिष्टे तु संध्याधर्मो युगस्य तु । एवं कृते तु निःशेषे सिद्धिस्त्वन्तर्दधे तदा ॥ ७१
तस्यां च सिद्धौ भ्रष्टायां मानस्यामभवत्ततः । सिद्धिरन्या युगे तस्मिंस्त्रेतायामन्तरे कृता ॥ ७२
सर्गादौ या मयाऽष्टौ तु मानस्यो वै प्रकीर्तिताः । अष्टौ ताः क्रमयोगेन(ण)सिद्धयो यान्ति संक्षयम् ॥७३
कल्पादौ मानसी ह्येषा सिद्धिर्भवति सा कृते । मन्वन्तरेषु सर्वेषु चतुर्युगविभागशः ॥ ७४
वर्णाश्रमाचारकृतः कर्मसिद्धोद्भवः स्मृतः । संध्या कृतस्य पादेन संध्यापादेन चांशतः ॥ ७५
कृतसंध्यांशका ह्येते त्रींस्त्रीन्पादान्परस्परान् । हसन्ति युगधर्मैस्ते तपःश्रुतबलायुषैः ॥ ७६
ततः कृतांशे क्षीणे तु बभूव तदनन्तरम् । त्रेतायां युगमन्यत्तु कृतांशमृषिसत्तमाः ॥ ७७
तस्मिन्क्षीणे कृतांशे तु तच्छिष्टासु प्रजास्विह । कल्पादौ (*संप्रवृत्तायास्त्रेतायाः प्रमुखे तदा ॥ ७८
प्रणश्यति तदा सिद्धिः कालयोगेन नान्यथा । तस्यां सिद्धौ प्रणष्टायामन्या सिद्धिरवर्तत ॥ ७९
अपां सौक्ष्म्ये ) प्रतिगते तदा मेवात्मना तु तौ । मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् ॥ ८०
सकृदेव तया वृष्ट्या संयुक्ते पृथिवीतले । प्रादुरासंस्तदा तासां वृक्षास्तु गृहसंस्थिताः ॥ ८१
सर्वप्रत्युपभोगस्तु तासां तेभ्यः प्रजायते । वर्तयन्ति हि तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ॥ ८२
ततः कालेन महता तासामेव विपर्ययात् । रागलोभात्मको भावस्तदा ह्याकस्मिकोऽभवत् ॥ ८३
यत्तद्भवति नारीणां जीविन्ताते तदाऽऽर्तवम् । तदा तद्वै न भवति पुनर्युगबलेन तु ॥ ८४
तासां पुनः प्रवृत्तं तु मासे मासे तदार्तवम् । ततस्तेनैव योगेन वर्ततां मिथुने तदा ॥ ८५
तासां तत्कालभावित्वान्मासि मास्युपगच्छताम् । अकाले ह्यार्तवोत्पत्तिर्गर्भोत्पत्तिरजायत ॥ ८६
विपर्ययेण तासां तु तेन कालेन भाविना । प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसांस्थिताः ॥ ८७
प्रादुर्बभूवुस्तासां च वृक्षास्ते गृहसंस्थिताः । वस्त्राणि च प्रसूयन्ते फलान्याभरणानि च ॥ ८९
ततस्तेषु प्रणष्टेषु विभ्रान्ता व्याकुलेन्द्रियाः । आभिध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा ॥ ८८
तेष्वेव जायते तासां गन्धवर्णरसान्वितम् । अमाक्षिकं महावीर्यं पुटके पुटके मधु ॥ ९०
तेन ता वर्तयन्ति स्म सुखे त्रेतायुगस्य वै । हृष्टतुष्टास्तया सिद्ध्या प्रजा वै विगतज्वराः ॥ ९१
पुनः कालान्तरेणैव पुनर्लोभावृतास्तु ताः । वृक्षांस्तानपर्यगृह्णन्त मधु वा माक्षिकं बलात् ॥ ९२


* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।