वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
भगीरथस्तु तां गङ्गामानयामास कर्मभिः । तस्माद्भागीरथी गङ्गा कथ्यते वंशवित्तमैः ॥ १६९
[अ० ८८ श्लो० १६५-१९१] वायुपुराणम्। ३२३
(वैवस्वतमनुवंशवर्णनम् )
स तु ज्येष्ठो नरव्याघ्रः सगरस्याऽऽत्मसंभवः । असमञ्ज इति ख्यातो बर्हिकेतुर्महाबलः ॥ १६५
पौराणामाहिते युक्तः पित्रा निर्वासितः पुरा । तस्य पुत्रोऽंशुमान्नाम असमञ्जस्य वीर्यवान् ॥ १३६
तस्य पुत्रस्तु धर्मात्मा दिलीप इति विश्रुतः । दिलीपात्तु महातेजा वीरो जातो भगीरथः ॥ १३७
येन गङ्गा सरिच्छ्रेष्ठा विमानैरुपशोभिता । ईजानेन समुद्राद्वै दुहितृत्वेन कल्पिता ॥
अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ॥ १६८
भगीरथस्तु तां गङ्गामानयामास कर्मभिः । तस्माद्भागीरथी गङ्गा कथ्यते वंशवित्तमैः ॥ १६९
भगीरथसुतश्चापि श्रुतो नाम बभूव ह । नाभागास्तस्य दायादो नित्यं धर्मपरायणः ॥ १७०
अम्बरीषः सुतस्तस्य सिन्धुद्वीपस्ततोऽभवत् । एवं वंशपुराणज्ञा गायन्तीति परिश्रुतम् ॥ १७१
नाभागेरम्वरीषस्य भुजाभ्यां परिपालिता । बभूव वसुधाऽत्यर्थं तापत्रयविवर्जिता ॥ १७२
आयुतायुः सुतस्तस्य सिन्धुद्वीपस्य वीर्यवान् । आयुतायोस्तु दायाद ऋतुपर्णो महायशाः ॥ १७३
दिव्याक्षहृदयज्ञोऽसौ राजा नलसखो बली । नलौ द्वाविति विख्यातौ पुराणेषु दृढव्रतौ ॥ १७४
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः । ऋतुपर्णस्य पुत्रोऽभूत्सर्वकामो जनेश्वरः ॥ १७५
सुदासस्तस्य तनयो राजा हंसमुखोऽभवत् । सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥ १७६
ख्यातः कल्माषपादो वै नाम्ना मित्रसहश्च सः । वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके ॥
अश्मकं जनयामास इक्ष्वाकुकुलवृद्धये ॥ १७७
अश्मकस्योरकामस्तु मूलकस्तत्सुतोऽभवत् । अत्राप्युदाहरन्तीमं मूलकं वै नृपं प्रति ॥ १७८
स हि रामभयाद्राजा स्त्रीभिः परिवृतोऽवसत् । विवस्त्राणामिच्छन्वै नारीकवचमीश्वरः ॥ १७९
मूलकस्यापि धर्मात्मा राजा शतरथः स्मृतः । तस्माच्छतरथाज्जज्ञे राजा चैडिविडो बली ॥ १८०
आसीच्चैडिविडः श्रीमान्कृतशर्मा प्रतापवान् । पुत्रो विश्वमहत्तस्य पुत्रिकस्य व्यजायत ॥ १८१
दिलीप्तस्तस्य पुत्रोऽभूत्खट्वाङ्गद इति श्रुतिः । येन स्वर्गादिहाऽऽगम्य मुहूर्तं माप्य जीवितम् ॥
त्रयोऽभिसंहिता लोका बुद्ध्या सत्येन चैव हि ॥ १८२
दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत । अजः पुत्रो रघोश्चापि तस्माज्जज्ञे स वीर्यवान् ॥
राजा दशरथो नाम इक्ष्वाकुकुलनन्दनः ॥ १८३
रामो दाशरथिर्वीरो धर्मज्ञो लोकविश्रुतः । भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ॥ १८४
माधवे लवणं हत्वा गत्वा मधुवनं च तत् । शत्रुघ्नेन पुरी तत्र मधुरा संनिवेशिता ॥ १८५
सुबाहुः शूरसेनश्च शत्रुघ्नसहितावुभौ । पालयामासतुः सुतौ वैदेह्यौ मधुरां पुरीम् ॥ १८६
अङ्गदश्चन्द्रकेतुश्च लक्ष्मणस्याऽऽत्मजावुभौ । हिमवत्पर्वताभ्यासे स्फीतौ जनपदो तयोः ॥ १८७
अङ्गदस्याङ्गदीया तु देशे कारपथे पुरी । चन्द्रकेतोस्तु मल्लस्य चन्द्रवक्त्रा पुरी शुभा ॥ १८८
भरतस्याऽऽत्मजौ वीरौ तक्षः पुष्कर एव च । गान्धारविषये सिद्धे तयोः पुर्यौ महात्मनोः ॥ १८९
तक्षस्य दिक्षु विख्याता रम्या तक्षशिला पुरी । पुष्करस्यापि वीरस्य विख्याता पुष्करावती ॥ १९०
गाथां चैवात्र गायन्ति ये पुराणविदो जनाः । रामे निबद्धास्तत्त्वार्था माहात्म्यात्तस्य धीमतः ॥ १९१
| ३२४ | श्रीमद्वैपायनमुनिप्रणीतम्– | [अ० ८८ - श्लो० १९२-२१५] |
|---|
( वैवस्वतमनुवंशवर्णनम )
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः । आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥ १९२
दश वर्षसहस्राणि रामो राज्यमकारयत् । ऋक्सामयजुषां घोषो ज्याघोषश्च महास्वनः ॥ १९३
अविच्छिन्नो भवद्राष्ट्रे दीयतां भुज्यतामिति । जनस्थाने वसन्कार्यं त्रिदशानां चकार सः ॥ १९४
तमागस्कारिणं पूर्वं पौलस्त्यं मनुजर्षभः । सीतायाः पदमन्विच्छन्निजघान महायशाः ॥ १९५
सत्त्ववान्गुणसंपन्नो दीप्यमानः स्वतेजसा । अति सूर्यं च वह्निं च रामो दाशरथिर्बभौ ॥ १९६
एवमेव महाबाहुरिक्ष्वाकुकुलनन्दनः । रावणं सगणं हत्वा दिवमाचक्रमे विभुः ॥ १९७
श्रीरामस्याऽऽत्मजो जज्ञे कुश इत्यभिधीयते । लवश्चान्यो महावीर्यस्तयोर्देशौ निबोधत ॥ १९८
कुशस्य कोशला राज्यं पुरी चाऽपि कुशस्थली । रम्या निवेशिता तेन विन्ध्यपर्वतसानुषु ॥ १९९
उत्तराकोशले राज्यं लवस्य च महात्मनः । श्रावस्ती लोकविख्याता कुशवंशं निबोधत* ॥ २००
कुशस्य पुत्रो धर्मात्मा ह्यतिथिः सुप्रियातिथिः । अतिथेरपि विख्यातो निषधो नाम पार्थिवः ॥ २०१
निषधस्य नलः पुत्रो नमः पुत्रा नलस्य तु । नभसः पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥ २०२
क्षेमधन्वसुतो राजा देवानीकः प्रतापवान् । आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ २०३
अहीनगोस्तु दायादः पारियात्रो महायशः । दलस्तस्याऽऽत्मजाश्चापि तस्माज्जज्ञे बलो नृपः ॥ २०४
औङ्को नाम स धर्मात्मा बलपुत्रो बभूव ह । वज्रनाभसुतस्तस्य शङ्खनस्तस्य चाऽऽत्मजः ॥ २०५
शङ्खनस्य सुतो विद्वान्ध्युषिताश्व इति श्रुतः । ध्युषिताश्वसुतश्चापि राजा विश्वसहः किल ॥ २०६
हिरण्यनाभकौशल्यो वशिष्ठस्तत्सुतोऽभवत् । पौत्रस्य जैमिनेः शिष्यः स्मृतः सर्वेषु शर्मसु ॥ २०७
शतानि संहितानां तु पञ्च योऽधीतवांस्ततः । तस्मादधिगतो योगो याज्ञवल्क्येन धीमता ॥ २०८
पुष्यस्तस्य सुतो विद्वान्ध्रुवसंधिश्च तत्सुतः । सुदर्शनस्तस्य सुतः अभिवर्णः सुदर्शनात् ॥ २०९
अग्निवर्णस्य शीघ्रस्तु शीघ्रकस्य मनुः स्मृतः । मनुस्तु योगमास्थाय कलापग्राममास्थितः ॥
एकोनविंशप्रयुगे क्षत्रप्रवर्तकः प्रभुः ॥ २१०
प्रसुश्रुतो मनोः पुत्रः सुसंधिस्तस्य चाऽऽत्मजः । सुसंधेश्च तथा मर्षः सहस्वान्नाम नामतः ॥ २११
आसीत्सहस्वतः पुत्रो राजा विश्रुतवानिति । तस्याऽऽसीद्विश्रुतवतः पुत्रो राजा बृहद्बलः ॥ २१२
एते इक्ष्वाकुदायादा राजानः प्रायशः स्मृताः । वंशे प्रधाना ये तेऽस्मिन्प्राधान्येन तु कीर्तिताः ॥ २१३
पठन्सम्पूगिमां सृष्टिमादित्यस्य विवस्वतः । प्रजावानेति सायुज्यं मनोर्वैवस्वतस्य सः ॥ २१४
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिकृद्स्य च । विपाप्मा विरजश्चैव आयुष्मान्भवतेऽच्युतः ॥
- अपुत्रो लभते पुत्रं दीर्घायुः परमां गतिम् ॥ २१५ .
इति श्रीमहापुराणे वायुप्रोक्त इक्ष्वाकुवंशानुकीर्तनं नामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥
आदितः श्लोकानां समष्ट्यङ्काः–७९३५
*कुशस्थ कोशलाराज्यं लवस्य च महात्मन इत्यर्थं घ. पुस्तके । +नास्त्यर्थमिदं क. ग. घ. ङ्. पुस्तकेषु ।
〔अ०८५ श्लो० १–२२〕
(वैवस्वतमनुवंशकीर्तनम्)
वायुपुराणम् ।
३२५
अथ नवाशीतितमोऽध्यायः ।
वैवस्वतमनुवंशकीर्तनम् ।
सूत उवाच--
अनुजस्य विकुक्षैस्तु निमेर्वंशं निबोधत । योऽसौ निवेशयामास परं देवपुरोपमम् ॥ १
जयन्तामिति विख्यातं गौतमस्याऽऽश्रमाभितः । यस्यान्यवाये जज्ञे वै जनकादृषिसत्तमात् ॥ २
नेमिर्नाम सुधर्मात्मा सर्वसत्त्वनमस्कृतः । आसीत्पुत्रो महाराज्ञ* इक्ष्वाकोर्भूरितेजसः ॥ ३
स शापेन वसिष्ठस्य विदेहः समपद्यत । तस्य पुत्रो मिथिर्नाम जनितः पर्वभिस्त्रिभिः ॥ ४
अरण्यां मथ्यमानायां प्रादुर्भूतो महायशाः । नाम्ना मिथिरितिख्यातो जननाज्जनकोऽभवत् ॥ ५
+मिथिर्नाम महावीर्यो येनासौ मिथिलाऽभवत् । राजासौ जनको नाम जनकाच्चाप्युदावसुः ॥ ६
उदावसोः सुधर्मात्मा जनितो नन्दिवर्धनः । नन्दिवर्धनतः शूरः सुकेतुर्नाम धार्मिकः ॥ ७
सकेतोरापि धर्मात्मा देवरातो महाबलः । देवरातस्य धर्मात्मा बृहदुत्थ इति श्रुतिः॥ ८
बृहदुत्थस्य तनयो महावीर्यः प्रतापवान् । महावीर्यस्य धृतिमान्सुधृतिस्तस्य चाऽऽत्मजः ॥ ९
सुधृतेरपि धर्मात्मा धृष्टकेतुः परंतपः । धृष्टकेतुसुतश्चापि हर्यश्वो नाम विश्रुतः ॥ १०
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतित्वकः । प्रतित्वकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥ ११
पुत्रः कीर्तिरथस्यापि देवमीढ इति श्रुतः । देवमीढस्य विबुधो विबुधस्य सुतो धृतिः ॥ १२
महाधृतिसुतो राजा कीर्तिराजः प्रतापवान् । कीर्तिराजात्मजो विद्वान्महारोमेति विश्रुतः ॥ १३
महारोम्णस्तु विख्यातः स्वर्णरोमा व्यजायत । स्वर्णरोमात्मजश्चापि ह्रस्वरोमाऽभवन्नृपः ॥ १४
ह्रस्वरोमात्मजो विद्वान्सीरध्वज इति श्रुतिः । उद्भिन्ना कृषता येन सीता राज्ञा यशस्विनी ॥
रामस्य महिषी साध्वी सुव्रताऽतिपतिव्रता ॥ १५
शांशपायन उवाच--
कथं सीता समुत्पन्ना कृष्यमाणा यशस्विनी । किमर्थं चाकृषद्राजा क्षेत्रं यस्मिन्बभूव सा ॥ १६
सूत उवाच--
अग्निक्षेत्रे कृष्यमाणे अश्वमेधे महात्मनः । विधिना सुप्रयुक्तेन तस्मात्सा तु समुत्थिता ॥ १७
सीरध्वजात्तु जातस्तु भानुमान्नाम मैथिलः । भ्राता कुशध्वजस्तस्य स काश्याधिपतिर्नृपः ॥ १८
तस्य भानुमतः पुत्रः प्रद्युम्नश्च प्रतापवान् । मुनिस्तस्य सुतश्चापि तस्मादूर्जवहः स्मृतः ॥ १९
ऊर्जवाहात्सुतद्वाजः शकुनिस्तस्य चाऽऽत्मजः । स्वागतः शकुनेः पुत्रः सुवर्चस्तत्सुतः स्मृतः ॥ २०
श्रुतो यस्तस्य दायादः सुश्रुतस्तस्य चाऽऽत्मजः । सुश्रुतस्य जयः पुत्रो जयस्य विजयः सुतः ॥ २१
विजयस्य ऋतः पुत्र ऋतस्य सुनयः स्मृतः । सुनयाद्वीतहव्यस्तु वीतहव्यात्मजो धृतिः ॥ २२
* अत्र समासान्ताभाव आर्षः । + इदमर्धं नास्ति ख. घ. पुस्तकयोः ।
३२६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८९-९० श्लो०२३-१।२१]
(सोमजन्मकथनम्)
धृतेस्तु बहुलाश्वोऽभूद्बहुलाश्वसुतः कृतिः। तस्मिन्संतष्ठते वंशो जनकानां महात्मनाम्॥
इत्येते मैथिलाः प्रोक्ताः सोमस्यापि निबोधत ॥ २३
इति महापुराणे वायुप्रोक्ते मैथिलवंशानुकीर्तनं नाम नवाशीतितमोऽध्यायः॥ ८९ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७१९८
अथ नवतितमोऽध्यायः।
तत्र सोमजन्मविवरणम्।
सूत उवाच--
पिता सोमस्य वै विप्रा जज्ञेऽत्रिर्भगवानृषिः। तत्रात्रिः सर्वलोकानां तस्थौ स्वेनमये धृतः॥ १
कर्मणा मनसा वाचा शुभान्येव समाचरन्। काष्ठकुड्यशिलाभूत ऊर्ध्वबाहुर्महाद्युतिः॥ २
सुदुश्चरं नाम तपो येन तप्तं महत्पुरा। त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम्॥ ३
तस्योर्ध्वरेतसस्तत्र स्थितस्यानिमिषस्पृहा। सोमत्वं तनुरापेदे महाबुद्धिः स वै द्विजः॥ ४
ऊर्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः। सोमः सुस्राव नेत्राभ्यां दश वा द्योतयान्दिशः॥ ५
तं गर्भं विधिनाऽऽदिष्टा दश देव्यो दधुस्तदा। समेत्य धारयामासुर्नच तास्तमशक्नुवन्॥ ६
स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः। यथाऽवभासयँल्लोकांशीतांशुः सर्वभावनः॥ ७
यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः। ततः स ताभिः शीतांशुर्निपपात वसुंधराम्॥ ८
पतन्तं सोममालोक्य ब्रह्मा लोकपितामहः। रथमारोपयामास लोकानां हितकाम्यया॥ ९
स हि देवमयो विप्रा धर्मार्थी सत्यसंगरः। युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम्॥ १०
तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि। तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त विश्रुताः॥ ११
तत्रैवाङ्गिरसस्तस्य भृगोश्चैवाऽत्मजस्तथा। ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि॥ १२
ततः संस्तूयमानस्य तेजः सोमस्य भास्वतः। आप्यायमानं लोकांस्त्रीन्भावयामास सर्वशः॥ १३
स तेन रथमुख्येन सागरान्तां वसुंधराम्। त्रिःसप्तकृत्वो विपुलश्चकाराभिप्रदक्षिणम्॥ १४
तस्य यच्चापि तत्तेजः पृथिवीमन्वपद्यत। ओषध्यस्ताः समुद्भूतास्तेजसा संज्वलन्त्युत॥ १५
ताभिर्धारयत्ययं लोकान्प्रजाश्चापि चतुर्विधाः। पोष्टा हि भगवान्सोमो जगतो हि द्विजोत्तमाः॥ १६
स लब्धतेजास्तपसा संस्तवैस्तैश्च कर्मभिः। तपस्तेपे महाभागः पद्मानां दशतीर्दश॥ १७
हिरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत्। विभुस्तासां भवेत्सोमः प्रख्यातः स्वेन कर्मणा॥ १८
ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः। बीजौषधिषु विप्राणामपां च द्विजसत्तमाः॥ १९
सोऽभिषिक्तो महातेजा महाराज्येन राजराट्। लोकानां भावयामास स्वभावाश्चपतां वरः॥ २०
सप्तविंशतिरिन्दोस्तु दाक्षायण्यो महाव्रताः। ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः॥ २१
[अ० ९० श्लो० २२-४९] वायुपुराणम् । ३२७
( सोमजन्मकथनम् )
स तत्प्राप्य महद्राज्यं सोमः सोमवतां प्रभुः । समा जज्ञे राजसूयं सहस्रशतदक्षिणम् ॥ २२
हिरण्यगर्भोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान् । सदस्यस्तत्र भगवान्हरिर्नारायजः प्रभुः ॥
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥ २३
दक्षिणामददत्सोमस्त्रींल्लोकानिति नः श्रुतम् । तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यण वै द्विजाः ॥
तं सिनी च कुहूश्चैव वपुः पुष्टिः प्रभा वसुः । कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥
प्राप्यावभृथमव्ययः सर्वदेवर्षिपूजितः । अतिराजातिराजेन्द्रो दशधाऽतापयाद्दिशः ॥ २६
तदा तत्प्राप्य दुष्प्रापमैश्वर्यमृषिसंस्तुतम् । स विभ्रममतिर्वीमा विनयोऽविनयाहतः ॥ २७
बृहस्पतेः स वै भार्यां तारां नाम यशस्विनीम् । जहार सहसा सर्वानवमत्याङ्गिरःसुतान ॥ २८
स याचमानो देवैश्च तथा देवर्षिभिश्च ह । नैव व्यसर्जयत्तारां तस्मायाङ्गिरसे तदा ॥ २९
लशना तस्य जग्राह पार्ष्णिमाङ्गिरसो द्विजाः । स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पते ॥ ३०
तेन स्नेहेन भगवान्रुद्रस्तस्य बृहस्पतेः । पार्ष्णिग्राहोऽभवद्देवः प्रगृह्याऽऽजगवं धनुः ॥ ३१
तेन ब्रह्मर्षिमुख्येभ्यः परमास्त्रं बहात्मना । उद्दिश्य देवानुत्सृष्टं येनेषां नाशितं यशः ॥ ३२
तत्र तद्युद्धमभवत्प्रत्यक्षं तारकामयम् । देवानां दानवानां च लोकक्षयकरं महत् ॥ ३३
तत्र शिष्टास्त्रयो देवास्तुषिताश्चैव ये स्मृताः । ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् ॥ ३४
ततो निवार्यौशनसं रुद्रं ज्येष्ठं च शंकरम् । ददावाङ्गिरसे तारां स्वयमव पितामहः ॥ ३५
अन्तर्वत्नी च तां दृष्ट्वा तारां ताराधिपाननाम् । गर्भमुत्सृजसे न त्वं विप्रः प्राह बृहस्पतिः ॥ ३६
मदीयायां तनौ योनौ गर्भो धार्यः कथं च न । अथो नावसृजत्तं तु कुमारं दस्युहन्तमम् ॥ ३७
ईषिकास्तम्बमासाद्य ज्वलन्तमिव पावकम् । जातमात्रोऽथ भगवान्देवानामाक्षिपद्वपुः ॥ ३८
ततः संशयमापन्नास्तारामकथयन्सुरः । सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥ ३९
ह्रियमाणा यदा देवानाऽऽह सा साध्वसाधु वा । तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ॥ ४०
तं निवार्य तदा ब्रह्मा तारां चन्द्रस्य शंस यः । यदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम् ॥ ४१
सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम् । सोमस्येति महात्मानं कुमारं दस्युहन्तमम् ॥ ४२
ततः सुतमुपाघ्राय सोमो दाता प्रजापतिः । बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ॥ ४३
मतिपूर्वं च गमने समभ्युत्तिष्ठते बुधैः । उत्पादयामास तदा पुत्रं वै राजपुत्रिका ॥ ४४
तस्य पुत्रो महातेजा बभूवैलः पुरूरवाः । उर्वश्यां जज्ञिरे तस्य पुत्राः षट्सुमहौजसः ॥ ४५
प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा । ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः ॥
जगाम शरणायाथ पितरं सोऽत्रिमेव तु ॥ ४६
तस्य तत्पापशमनं चकारात्रिर्महायशाः । स राजयक्ष्मणा मुक्तः श्रिया जज्वल सर्वशः ॥ ४७
एतत्सोमस्य वै जन्म कीर्तितं द्विजसत्तमाः । वंशं तस्य द्विजश्रेष्ठाः कीर्त्यमानं निबोधत ॥ ४८
धन्यमारोग्यमायुष्यं पुण्यं कल्मषशोधनम् । सोमस्य जन्म श्रुत्वैव सर्वपापैः प्रमुच्यते ॥ ४९
इति श्रीमहापुराणे वायुप्रोक्ते सोमोत्पत्तिकथनं नाम नवतितमोऽध्यायः ॥ ९० ॥
आदितः श्लोकानां समष्ट्यङ्कः-८००७
३२८ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ९०-९१ श्लो० १-२३]
(चन्द्रवंशकथनम्)
अथैकनवतितमोऽध्यायः ।
चन्द्रवंशकीर्तनम् ।
सूत उवाच--
सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः । तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ १
ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः । आहर्ता चाग्निहोत्रस्य यज्वनां च ददौ महीम् ॥ २
सत्यवाक्कर्मबुद्धिश्च कान्तः संवृतमैथुनः । अतीव पुत्रो लोकेषु रूपेणाप्रतिमोऽभवत् ॥ ३
तं ब्रह्मवादिनं दान्तं धर्मज्ञं सत्यवादिनम् । उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ ४
तया सहावसद्राजा दश वर्षाणि चाष्ट च । सप्त षट् सप्त चाष्टौ च दश चाष्टौ च वीर्यवान् ॥ ५
वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे । अलकायां विशालायां नन्दने च वनोत्तमे ॥ ६
गन्धमादनपादेषु मेरुशृङ्गे नगोत्तमे । उत्तरांश्च कुरून्प्राप्य कलापग्राममेव च ॥ ७
एतेषु वनमुख्येषु सुरैराचरितेषु च । उर्वश्या सहितो राजा रेमे परमया मुदा ॥ ८
ऋषय ऊचुः--
गन्धर्वी चोर्वशी देवी राजानं मानुषं कथम् । देवानुत्सृज्य संप्राप्ता तन्नो ब्रूहि बहुश्रुत ॥ ९
सूत उवाच--
ब्रह्मशापाभिभूता सा मानुषं समुपस्थिता । ऐलं तु तं वरारोहा समयेन व्यवस्थिता ॥ १०
आत्मनः शापमोक्षार्थं नियमं सा चकार तु । अनग्नदर्शनं चैव अकामात्सह मैथुनम् ॥
द्वौ मेषौ शयनाभ्यासे स तावदद्यवतिष्ठते । घृतमात्रं तथाऽऽहारः कालमेकं तु पार्थिव ॥ ११
यद्येष समयो राजन्यावत्कालश्च ते दृढम् । तावत्कालं तु वत्स्यामि एष नः समयः कृतः ॥ १२
तस्यास्तं समयं सर्वं स राजा पर्यपालयत् । एवं सा चावसत्तस्मिन्पुरूरवसि भामिनी ॥ १३
वर्षाण्यथ चतुःषष्टिं तद्भक्त्या शापमोहिता । उर्वशी मानुषे प्राप्ता गन्धर्वाश्चिन्तयान्विताः ॥ १४
गन्धर्वा ऊचुः---
चिन्तयध्वं महाभागा यथा सा तु वराङ्गना । आगच्छेत्तु पुनर्देवानुर्वशी स्वर्गभूषणा ॥ १५
ततो विश्वावसुर्नाम तत्राऽऽह वदतां वरः । तया तु समयस्तत्र क्रियमाणे मतोऽनघः ॥ १६
समयव्युत्क्रमात्सा वै राजानं त्यक्ष्यते यथा । तदहं वच्मि वः सर्वं यथा त्यक्ष्यति सा नृपम् ॥ १७
ससहायो गमिष्यामि युष्माकं कार्यसिद्धये । एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ॥ १८
स निशायामथाऽऽगम्य मेषमेकं जहार वै । मातृवद्वर्तते सा तु मेषयोश्चारुहासिनी ॥ १९
गन्धर्वागमनं ज्ञात्वा शयनस्था यशस्विनी । राजानमब्रवीत्सा तु पुत्रो मेऽपह्रियतेति वै ॥ २०
एवमुक्तो विनिश्चित्य नग्नस्तिष्ठति वै नृपः । नग्नं द्रक्ष्यति मां देवी समयो वितथो भवेत् ॥ २१
ततो भूयस्तु गन्धर्वा द्वितीयं मेषमाददुः । द्वितीयेऽपहृते मेषे ऐलं देवी तमब्रवीत् ॥ २२
पुत्रौ मम हतौ राजन्ननाथाया इव प्रभो । एवमुक्तस्तदोत्थाय नग्नो राजा प्रधावितः ॥ २३
[ अ० ९१ श्लो० २४-५३ ] वायुपुराणम् । ३२९
( चन्द्रवंशकथनम् )
मेषाभ्यां पदवीं राजन्गन्धर्वैर्व्युत्थितामथ । उत्पादिता तु महती माया तद्भवं महत् ॥ २४
प्रकाशिता तु सहसा ततो नग्नमवेक्ष्य सा । नग्नं दृष्ट्वा तिरोभूता अप्सरा कामरूपिणी ॥ २५
तिरोभूतां तु तां ज्ञात्वा गन्धर्वास्तत्र तावुभौ । मेषौ त्यक्त्वा च ते सर्वे तत्रैवान्तर्हिताऽभवन्* ॥ २६
उत्सृष्टावुरणौ दृष्ट्वा राजाऽऽगृह्याऽऽगतः प्रभुः । अपश्यंस्तां तु वै राजा विललाप सुदुःखितः ॥ २७
चचार पृथिवीं चैव मार्गमाणस्ततस्ततः । (+ भ्रममाणः सुदुःखेन विललाप जगत्पतिः ॥ २८
वनेषु सरितां कूलेष्वालयेषु महेषु च । विचचार गिरिश्चेको निर्झरोपवनेषु च ॥ २९
खेटखर्वटवाटीषु नगरे नगरे तथा । पप्रच्छ सकलान्सत्वान्विषादन्निदमब्रवीत् ॥ ३०
किं न पश्यसि रे मूढं मदमूढं विरुध्य माम् । क्व गताऽसि वरारोहे धिके (ङ्मे) जीवितमीदृशम् ॥ ३१
अथापश्यच्च तां राजा कुरुक्षेत्रे महाबलः ॥ ३१
प्लक्षतीर्थे पुष्कारण्यां विगाढेनाम्बुनाऽऽप्लुताम् । क्रीडन्तीमप्सरोभिश्च पञ्चाभिः सह शोभनाम् ॥ ३२
अपश्यत्सा ततः सुभ्रू राजानमविदूरतः । उर्वशी ताः सखीः प्राह अयं स पुरुषोत्तमः ॥ ३३
यस्मिन्नहमवासीति ? दर्शयामास तं नृपम् । तत आविर्बभूवुस्ताः पञ्चचूडाप्सरास्तु ताः ॥ ३४
दृष्ट्वा तु राजा तां प्रीतः प्रलापान्कुरुन्ते बहून् । आयाहि तिष्ठ मनसा घोरे वचसि तिष्ठ हे ॥ ३५
एवमादीनि सूक्ष्माणि परस्परमभाषत । उर्वशी त्वब्रवीच्चैलं सगर्भाऽहं त्वया प्रभो ॥ ३६
संवत्सरात्कुमारस्ते भविता नैव संशयः । निशामेकां तु वै राजा अवसत्तु तया सह ॥ ३७
समहृष्टो जगामाथ स्वपुरं तु महामशाः । गते संवत्सरे राजा उर्वशीं पुनरागमत् ॥ ३८
उषित्वा तु तया सार्धमेकरात्रं महामनाः । कामातँश्चाब्रवीद्दीनो भव नित्यं ममेति वै ॥ ३९
उर्वश्यथाब्रवीच्चैनं गन्धर्वास्ते वरं ददुः । तं वृणीष्व महाराज ब्रूहि चैतांस्त्वमेव हि ॥ ४०
वृणे नित्यं हि सालोक्यं गन्धर्वाणां महात्मनाम् । तथेत्युक्त्वा वरं वत्रे मन्धर्वाश्च तथाऽस्त्विति ॥
स्थालीमग्नेः पूरयित्वा गन्धर्वाश्च तमब्रुवन् । अनेन इष्ट्वा लोकं तं प्राप्स्यसि र्वं नराधिप ॥ ४२
तमादाय कुमारं तु नगरायोपचक्रमे । निक्षिप्य तमरणयां च सुपुत्रस्तु गुहान्यर्यां ॥ ४३
पुनरादाय दृश्यामिभश्वत्थं तत्र दृष्टवान् । समीपत्तस्तु तं दृष्ट्वा ह्यश्वत्थं तत्र विस्मितः ॥ ४४
गन्धर्वेभ्यस्तथाऽऽख्यातुमग्निना गां गतस्तु सः । श्रुत्वा तमर्थमखिलमरणं तु समादिशत् ॥ ४५
अश्वत्थादरणिं कृत्वा मथित्वाऽग्निं यथाविधि । तेनेष्ट्वा तु सलोकं नः प्राप्स्यासि त्वं नराधिप ॥ ४६
मथित्वाऽग्निं त्रिधा कृत्वा ह्ययजत्स नराधिपः । इष्ट्वा यज्ञैर्बहुविधैर्गतस्तेषां सलोकताम् ॥ ४७
वासार्थं च स गन्धर्वैस्त्रेतायां स महारथः । एकोऽग्निः पूर्वमासीद्वै ऐलस्त्रींस्तानकल्पयत् ॥ ४८
एवंप्रभावो राजाऽऽसीदैलस्तु द्विजसत्तमाः । देशे पुण्यतमे चैव महर्षिभिरलंकृते ॥ ४९
राज्यं स कारयामास प्रयागे पृथिवीपतिः । उत्तरे यामुने तीरे प्रतिष्ठाने महायशाः ॥ ५०
तस्य पुत्रा बभूवुर्हि षडिन्द्रोपमतेजसः । गन्धर्वलोके विदिता आयुर्धीमानमावसुः ॥ ५१
विश्वायुश्च शतायुश्च गतायुश्चोर्वशीसुताः । अमावसोतु वै जातो भीमो राजाऽथ विश्वाजित् ॥ ५२
श्रीमान्भीमस्य दायादो राजाऽऽसीत्काञ्चनप्रभः । विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः ॥ ५३
* अत्र संधिराषः । + धनुश्चिह्नान्तर्गतग्रन्थः ख पुस्तके विद्यते ।
४२