सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

एवमेकमिदं वर्षं बहुद्वीपमिहोच्यते । समुद्रजलसंभिन्नं खण्डं खण्डीकृतं स्मृतम् ॥ ४२

१४६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ४८-४९ श्लो० ४१-४३। १-१८]
( भुवनविन्यासः)

एवं षडेते कथिता अनुद्वीपाः समन्ततः । भारतद्वीपदेशो वै दक्षिणे बहुविस्तरः ॥ ४१
एवमेकमिदं वर्षं बहुद्वीपमिहोच्यते । समुद्रजलसंभिन्नं खण्डं खण्डीकृतं स्मृतम् ॥ ४२
एवं चतुर्महाद्वीपः सान्तरद्वीपमण्डितः । सानुद्वीपः समाख्यातो जम्बूद्वीपस्य विस्तरः ॥ ४३
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३५४५
अथैकोनपञ्चाशत्तमोऽध्यायः ।
भुवनविन्यासः ।

सूत उवाच-
प्लक्षद्वीपं प्रवक्ष्यामि यथावदिह संग्रहात् । शृणुतेमं यथातत्त्वं ब्रुवतो मे द्विजोत्तमाः ॥ १
जम्बूद्वीपस्य विस्ताराद्द्विगुणस्तस्य विस्तरः । विस्तारात्त्रिगुणश्चास्य परिणाहः समन्ततः ॥
तेनाऽऽवृतः समुद्रोऽयं द्वीपेन लवणोदकः ॥ २
तत्र पुण्या जनपदाश्चिराच्च म्रियते प्रजा । कुत एव हि दुर्भिक्षं जराव्याधिभयं कुतः ॥ ३
तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषणाः । रत्नाकरास्तथा नद्यस्तासां नामानि वक्ष्यते( च्म्यहम् )
प्लक्षद्वीपादिषु त्वेषु सप्त सप्तसु सप्तसुः । ऋज्वायताः परिदिशं निविष्टाः पर्वता सदा ॥ ५
प्लक्षद्वीपे तु वक्ष्यामि सप्तद्वीपामहाचलान् । गोमेदकोऽत्र प्रथमः पर्वतो मेघसंनिभः ॥
ख्यायते तस्य नाम्ना वै वर्षं गोमेदकं तु तत् ॥ ६
द्वितीयः पर्वतश्चन्द्रः सर्वौषधिसमन्वितः । अधिभ्याममृतस्यार्थे ओषध्यस्तत्र संस्थिताः ॥ ७
तृतीयो नारदो नाम दुर्गशैलो महोच्छ्रयः । तत्राचले समुत्पन्नौ पूर्वं नारदपर्वतौ ॥ ८
चतुर्थस्तत्र वै शैलो दुन्दुभिर्नाम नामतः । शब्दमृत्युः पुरा तस्मिन्दुन्दुभिस्ताडितः सुरैः ॥
रज्जुदारो रज्जुमयः शाल्मलग्र्थासुरान्तकृत् ॥ ९
पञ्चमः सोमको नाम देवैर्ह्यमृतं पुरा । संभृतं त्त हतं चैव मातुरर्थे गरुत्मता ॥ १०
षष्ठस्तु सुमना नाम स एवर्षभ उच्यते । हिरण्याक्षो वराहेण तस्मिञ्छेले निषूदितः ॥ ११
वैभ्राजः सप्तमस्तत्र भ्राजिष्णुः स्फाटिको महान् । यस्माद्विभ्राजतेऽर्चिर्भिर्वैभ्राजस्तेन स स्मृतः १२
तेषां वर्षाणि वक्ष्यामि नामतस्तु यथाक्रमम् । गोमेदं प्रथमं वर्षं नाम्ना शान्तभयं स्मृतम् ॥ १३
चन्द्रस्य शिखरं नाम नारदस्य सुखोदयम् । आनन्दं दुन्दुभेर्वर्षं सोमकस्य शिवं स्मृतम् ॥
क्षेमकमृषभस्यापि वैभ्राजस्य ध्रुवं तथा ॥ १४
एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः । विहरन्ति रमन्ते च दृश्यमानास्तु तैः सह ॥ १५
तेषां नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः । नामतस्ताः प्रवक्ष्यामि सप्त गङ्गा महानदीः ॥ १६
(*अनुतप्ता सुतप्तैव निष्पापा मुदिता क्रतुः । अमृता सुकृता चैव सप्तैताः सरितां वराः ) ॥ १७
अभिगच्छन्ति ता नद्यस्ताभ्यश्चान्याः सहस्रशः । बहूदकाश्चौघवत्यो यतो वर्षति वासवः ॥ १८


* धनुश्चिह्नार्न्तर्गतग्रन्थः क. पुस्तके नास्ति ।

[अ० ४-श्लो० १९-४४] वायुपुराणम्। १४७

( भुवनविन्यासः )

ता पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते। शुभाः शान्तवहाश्चैव प्रमोदा ये च ते शिवाः ॥ १९
आनन्दाश्च ध्रुवाश्चैव क्षेमकाश्च शिवैः सह। वर्णाश्रमाचारयुक्ताः प्रजास्तेष्वथ सर्वशः ॥ २०
सर्वेष्वरोगाः सुबलाः प्रजास्त्वामयवर्जिताः। अधःसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी न च ॥ २१
न तत्रास्ति युगावस्था चतुर्युगकृता काचित्। त्रेतायुगसमः कालः सर्वदा तत्र वर्तते ॥ २२
प्लक्षद्वीपादिषु ज्ञेयः पञ्चस्वेतेषु सर्वशः। देशस्यानुविधानेन कालस्यानुविधाः स्मृताः ॥ २३
पञ्च वर्षसहस्राणि तेषु जीवन्ति मानवाः। सुरूपाश्च सुवेषाश्च अरोगा बलिनस्तथा ॥ २४
सुखमायुर्बलं रूपमारोग्यं धर्म एव च। प्लक्षद्वीपादिषु ज्ञेयं शाकद्वीपान्तकेषु च ॥ २५
प्लक्षद्वीपः पृथुः श्रीमान्सर्वतो धनधान्यवान्। दिव्योषाधिफलोपेतः सर्वौषधिवनस्पतिः ॥ २६
आवृतः पशुभिः सर्वैर्गामा(भ्या)रण्यैः सहस्रशः। जम्बूवृक्षेण संख्यातस्तस्य मध्ये द्विजोत्तमाः ॥
प्लक्षो नाम महावृक्षस्तस्य नाम्ना स उच्यते ॥ २७
स तत्र पूज्यते स्थाणुर्मध्ये जनपदस्य हि। स चापीक्षुरसोद्देशः प्लक्षद्वीपसमावृतः ॥ २८
प्लक्षद्वीपस्य चैवेह वैपुल्याद्विस्तरेण तु। इत्येष संनिवेशो वः प्लक्षद्वीपस्य कीर्तितः ॥ २९
आनुपूर्व्या समासेन शाल्मलं तं निबोधत ॥
ततस्तृतीयं द्वीपानां शाल्मलं द्वीपमुत्तमम्। शाल्मलेन समुद्रस्तु द्वीपेनेक्षुरसोदिकः ॥ ३०
प्लक्षद्वीपस्य विस्ताराद्विगुणेन समावृतः ॥ ३१
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः। रत्नाकरास्तथा नद्यस्तेषु वर्षेषु सप्तसु ॥ ३२
प्रथमः सूर्यसंकाशः कुमुदो नाम पर्वतः। सर्वधातुमयैः शृङ्गैः शिलाजालसमुद्गतैः ॥ ३३
द्वितीयः पर्वतस्तस्य उन्नतो नाम विश्रुतः। हरितालमयैः शृङ्गैर्द्दिवमावृत्य तिष्ठति ॥ ३४
तृतीयः पर्वतस्तस्य वलाहक इति श्रुतः। जात्यञ्जनमयैः शृङ्गैर्द्दिवमावृत्य तिष्ठति ॥ ३५
चतुर्थः पर्वतो द्रोणो यत्रौषध्यो महाबलाः। विशल्यकरणी चैव मृतसंजीवनी तथा ॥ ३६
कङ्कस्तु दशमस्तत्र पर्वतः सुमहोदयः। दिव्यपुष्पफलोपेतो वृक्षवृत्तित्समावृतः ॥ ३७
षष्ठस्तु पर्वतस्तत्र महिषो मेघसंनिभः। यस्मिन्सोऽग्निर्निवसति महिषो नाम वारिजः ॥
सप्तमः पर्वतस्तत्र ककुद्मन्नाम भाष्यते। तत्र रत्नान्यनेकानि स्वयं वर्षति वासवः ॥ ३८
प्रजापतिमुपादाय प्राजापत्ये विधिः स्वयम् ॥
इत्येते पर्वताः सप्त शाल्मले मणिभूषिताः। तेषां वर्षाणि वक्ष्यामि सप्तैव तु शुभानि वै ॥ ३९
कुमुदात्प्रथमं श्वेतमुन्नतस्य तु लोहितम् ॥
बलाहकस्य जीमूतं द्रोणस्य हरितं स्मृतम्। कङ्कस्य वैयुतं नाम महिषस्य तु मानसम् ॥ ४०
ककुदः सुप्रभं नाय सप्तैतानि तु सप्तधा। वर्षाणि पर्वताश्चैव नदीस्तेषु निबोधत ॥ ४१
पानतोया वितृष्णा च चन्द्रा शुक्ला विमोचनी। निवृत्तिः सप्तमी तासां प्रतिवर्षं तु ताः स्मृताः ॥
तासां समीपगाश्चान्याः शतशोऽथ सहस्रशः। अशक्याः परिसंख्यातुं श्रद्धेयास्तु बुभूषता ॥ ४३
इत्येष संनिवेशो वः शाल्मलस्यापि कीर्तितः। प्लक्षवृक्षेण संख्यातस्तस्य मध्ये महाद्रुमः ॥ ४४