सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

नवस्वेतेषु वर्षेषु यथाभागस्थितेषु वै । भूतान्यूषुर्विष्ठानि गतिमन्ति ध्रुवाणि च ॥ ३६

[अ० ४६-४७ श्लो० ३३-३७।१-१६] वायुपुराणम् १४१

( भुवनविन्यासः )
रक्षःपिशाचा यक्षाश्च सर्वे हैमवताः स्मृतः। हेमकूटे तु गन्धर्वा विज्ञेयाः साप्सरोगणाः ॥ ३३
सर्वे नागास्तु निषधे शेषवासुकितक्षकाः। महामेरौ त्रयस्त्रिंशद्भवन्ते यज्ञियाः सुराः ॥
नीले तु वैडूर्यमये सिद्धब्रह्मर्षयोऽमलाः ॥ ३४
दैत्यानां दानवानां च श्वेतपर्वत उच्यते । शृङ्गवान्पर्वतः श्रेष्ठः पितॄणां प्रतिसंचरः ॥ ३५
नवस्वेतेषु वर्षेषु यथाभागस्थितेषु वै । भूतान्यूषुर्विष्ठानि गतिमन्ति ध्रुवाणि च ॥ ३६
तेषां विवृद्धिर्बहुला दृश्यते देवमानुषी । न शक्या परिसंख्यातुं श्रद्धेयाऽनुबुभूषता ॥ ३७

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३४२२


अथ सप्तचत्वारिंशोऽध्यायः ।

भुवनविन्यासः ।

सूत उवाच—
सव्ये हिमवतः पार्श्वे कैलासो नाम पर्वतः । तस्मिन्निवसति श्रीमान्कुबेरः सह रक्षसः ॥ १
अप्सरोगणसंयुक्तो मोदते ह्यलकाधिपः ॥ २
कैलासपादात्सम्भूतं पुण्यं शीतजलं शुभम् । मन्दं नाम्ना कुमुद्वन्तं शरदम्वुदसंनिभम् ॥ ३
तस्माद्दिव्या प्रभवति नदी मन्दाकिनी शुभा । दिव्यं च नन्दनं तत्र तस्यास्तीरे महद्वनम् ॥ ४
प्रागुत्तरेण कैलासाद्दिव्यसत्त्वौषधं गिरिम् । सुरधातुमयं चित्रं सुवर्णं पर्वतं प्रति ॥ ५
चन्द्रप्रभो नाम गिरिः स शुद्धो रत्नसंनिभः । तस्य पादे महद्दिव्यमच्छोदं नाम तत्सरः ॥ ६
तस्माद्दिव्या प्रभवति सच्छोदा नाम निम्नगा । तस्यास्तीरे महद्दिव्यं वनं चैत्ररथं स्मृतम् ॥ ७
तस्मिन्गिरौ निवसति मणिभद्रः सहानुगः । यक्षसेनापतिः क्रूरगुह्यकैः परिवारितः ॥ ८
पुण्या मन्दाकिनी चैव निम्नगाच्छोदिका तथा । महीमण्डलमध्येन प्रविष्टे ते महोदधिम् ॥ ९
कैलासाद्दक्षिणप्राच्यां शिवसत्त्वौषधिं गुरुम् । मनःशिलामयं दिव्यं पिशाचं पर्वतं प्रति ॥ १०
लोहितो हेमशृङ्गस्तु गिरिः सूर्यप्रभो महान् । तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः ॥ ११
तस्मात्पुण्यः प्रभवति लौहित्यः सदनो महान् । देवारण्यं विशोकं च तस्य तीरे महावनम् ॥ १२
तस्मिन्गिरौ निवसति यक्षो मणिवरो वशी । सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः ॥ १३
कैलासाद्दक्षिणे पार्श्वे क्रूरसत्त्वौषधं गिरिम् । वृत्रकायात्किलोत्पन्नमञ्जनं त्रिककुं प्रति ॥
सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः । तस्य पादे सरः पुण्यं मानसं सिद्धसेवितम् ॥ १४
तस्मात्प्रभवते पुण्या सरयूर्लोकभावनी । तस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम् ॥ १५
कुबेरानुचरस्तत्र प्रहेतुतनयो वशी । ब्रह्मपातो निवसति राक्षसोऽनन्तविक्रमः ॥
अन्तरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः ॥ १६

१४२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०४७श्लो०१७–४५]
( भुवनविन्यासः )

अपरेण तु कैलासान्मुख्यसत्त्वौषधिं गिरिम् । अरुणं पर्वतश्रेष्ठं रुक्मधातुमयं प्रति ॥ १७
भवस्य दयितः श्रीमान्पर्वतो मेघसंनिभः । शातकुम्भमयैः शुभ्रैः शिलाजालैः समावृतः ॥ १८
शतसंख्यैस्तापनीयैः शृङ्गैर्र्दिवमिवोल्लिखन् । सञ्जवान्स महादिव्यो दुर्गशैलो हिमाचितः ॥ १९
तस्मिन्गिरौ निवसति गिरिशो धूम्रलोहितः । तस्य पादात्प्रभवति शैलोदं नाम तत्सरः ॥ २०
तस्मात्प्रभवते दिव्या शैलोदा नाम निम्नगा । सा चक्षुःशीतयोर्मध्ये प्रविष्टा लवणोदधिम् ॥ २१
तस्यास्तीरे वनं दिव्यं विश्रुतं सुरभीति वै । अस्त्युरेण कैलासाच्छिवसत्त्वौषधो गिरिः ॥ २२
गौरो नाम गिरिस्तत्र हरितालमयः शुभः । हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥ २३
तस्य पादे महद्दिव्यं शुभं काञ्चनवालुकम् । रम्यं बिन्दुसरो नाम यत्र यातो भगीरथः ॥ २४
गङ्गानिमित्तं राजर्षिरुवास बहुलाः समाः । दिवं यास्यन्ति मे पूर्वे गङ्गातोयपरिप्लुताः ॥ २५
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता । सोमपादमसूता सा सप्तधा प्रतिपद्यते ॥ २६
यूपा मणिमयास्तत्र चितयश्च हिरण्मयाः । तत्रेष्ट्वा तु गतः शर्वं शक्रः सर्वैः सुरैः सह ॥ २७
दिवि च्छायापथो यस्तु अनुनक्षत्रमण्डलम् । दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा ॥ २८
अन्तरिक्षं दिवं चैव भावयन्ती भुवं गता । भवोत्तमाङ्गे पतिता संरुद्धा योगमायया ॥ २९
तस्या ये बिन्दवः केचित्क्रुद्धायाः पतिताः क्षितौ । कृतं बिन्दुसरस्तत्र ततो बिन्दुसरः स्मृतम् ॥ ३०
ततो निरुद्धा देवी सा भवेन स्मयता किल । चिन्तयामास मनसा शंकरक्षेपणं प्रति ॥ ३१
भित्त्वा विशामि पातालं स्रोतसाऽऽगृह्य शंकरम् । ज्ञात्वा तस्या अभिप्रायं क्रूरं देव्याश्चिकीर्षितम् ॥
तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम् । तस्या वलेपं तं बुद्ध्वा नद्याः क्रुद्धस्तु शंकरः ॥
निरुध्य तु शिरस्येनां वेगेन पतितां भुवि ॥ ३३
एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः । धमनीसंततं क्षीणं क्षुधापारिगतेन्द्रियम् ॥ ३४
अनेन तोषितंश्वाहं नद्यर्थं पूर्वमेव हि । बुद्ध्वाऽस्य वरदानं तु कोपं नियतवांस्तु सः ॥ ३५
ब्रह्मणो हि वचः श्रुत्वा प्रतिज्ञाधारणं प्रति । ततो विसर्जयामास संरुद्धां स्वेन तेजसा ।
नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः ॥ ३६
ततो विसर्ज्यमानायाः स्रोतस्तत्सप्ततां गतम् । त्रयः प्राचीमभिमुखं प्रतीचीं त्रय एव तु ॥ ३७
नद्याः स्रोतस्तु गङ्गायाः प्रत्यपद्यत सप्तधा । नलिनी ह्लादिनी चैव पावनी चैव प्राग्गता ॥ ३८
सीता चक्षुश्च सिन्धुश्च प्रतीचीं दिशमाश्रिताः । सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम् ॥ ३९
तस्माद्भागीरथी या सा प्रविष्टा लवणोदधिम् । सप्तैता भावयन्तहि हिमाह्वं वर्षमेव तु ॥ ४०
प्रसूताः सप्त नद्यस्ताः शुभा बिन्दुसरोद्भवाः । नानादेशान्भावयन्त्यो म्लेच्छप्रायांश्च सर्वशः ॥ ४१
उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः । सिरिन्धान्कुन्तलांश्चैवान्बर्बरान्यवसान्द्रुहान् ॥ ४२
रुषाणांश्च कुणिन्दांश्च अङ्गलौकवराय ये । कृत्वा द्विधा सिन्धुम॒रुं सीताऽगात्पश्चिमोदधिम् ॥ ४३
अथ चीनमरूंश्चैव तङ्गणान्सर्वमूलिकान् । सान्ध्रांस्तुषारांस्तम्पाकान्पह्ववान्दरदाञ्छकान् ॥
एताञ्जनपदांश्चक्षुः प्लावयन्ती गतोदधिम् ॥ ४४
दरदांश्च सकाश्मीरान्गान्धारान्वरपाण्डवान् । शिवपौरानिन्दहासांन्वदातींश्च विसर्जयान् ॥ ४५

[अ० ४७ श्लो० ४६-७३] वायुपुराणम्। १४३

(भुवनविन्यासः)

सैन्धवान्रन्ध्रकरकान्भ्रमराभीररोहकान्। शुनामुखांश्चोर्ध्वमनून्र्सिद्धचारणसेवितान् ॥ ४६
गन्धर्वान्किन्नरान्यरक्षांरक्षोविद्याधरोरगान्। कलापग्रामकांश्चैव पारदान्सगिणान्खसान् ॥ ४७
किरातांश्च पुलिन्दांश्च कुरून्समरतानपि। पञ्चालकाशिमात्स्यांश्च मगन्धाङ्गांस्तथैव च ॥ ४८
ब्रह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च। एताञ्जनपदानार्यान्गङ्गा भावयते शुभान् ॥ ४९
ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणोदधिम्। ततश्चाऽऽह्लादिनी पुण्या प्राचीनाभिमुखी ययौ ॥ ५०
प्लावयन्त्युपभोगांश्च निषादानां च जातयः। धीवरानृषिकांश्चैव तथा नीलमुखानपि ॥ ५१
केरलानुष्ट्रकर्णांश्च किरातानपि चैव हि। कालोदरान्विवर्णांश्च कुमारान्सुवर्णभूषितान् ॥ ५२
सा मण्डले समुद्रस्य तिरोभूताऽनुपूर्वतः। ततस्तु मावनी चैव प्राचीमेव दिशं गता ॥ ५३
अपथान्प्लावयन्तीह इन्द्रद्युम्नसरोऽपि च। तथा खरापथांश्चैव इन्द्रशङ्कुपथानपि ॥ ५४
मध्येनोद्यानमकरान्कुथप्रावरणान्ययौ। इन्द्रद्वीपसमुद्रे तु प्रविष्टा लवणोदधिम् ॥ ५५
ततश्च नलिनी चागात्प्राचीमाशां जवेन तु। तोमरान्प्लावयन्तीह हंसमार्गान्सहूहुकान् ॥ ५६
पूर्वान्देशांश्च सेवन्ती भित्त्वा सा बहुधा गिरीन्। कर्णप्रावरणांश्चैव प्राप्य चाश्वमुखानपि ॥ ५७
सिकतापर्वतमरून्गत्वा विद्याधरान्ययौ। नेमिमण्डलकोष्ठे तु प्रविष्टा सा महोदधिम् ॥ ५८
तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः। उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः ॥ ५९
वस्वोकसारातीरे तु वने सुरभिविश्रुते। हरिशृङ्गे तु वसति विद्वान्कौबेरको वशी ॥ ६०
यज्ञोपेतः स सुमहानामिनौजाः सुविक्रमः। तत्राऽऽगस्त्यैः परिवृतो विद्वद्भिर्ब्रह्मराक्षसैः ॥
कुबेरानुचरा ह्येते चत्वारस्तत्समाः स्मृताः ॥ ६१
एवमेव तु विज्ञेया ऋद्धिः पर्वतवासिनाम्। परस्परेण द्विगुणा धर्मतः कामतोऽर्थतः ॥ ६२
हेमकूटस्य पृष्ठे तु सायनं नाम तत्सरः। मनस्विनी प्रभवति तस्माज्ज्योतिष्मती च सा ॥ ६३
अवगाह्य ह्युभयतः समुद्रौ पूर्वपश्चिमौ। सरो विष्णुपदं नाम निषधे पर्वतोत्तमे ॥ ६४
तस्माद्द्वयं प्रभवति गान्धर्वी नत्वली च यः। मेरोः पश्चात्प्रभवति ह्रदश्चन्द्रप्रभो महान् ॥ ६५
तत्र जाम्बूनदी पुण्या यस्यां जाम्बूनदं शुभम्। पयोदं तु सरो नीले सुशुभ्रं पुण्डरीकवन् ॥ ६६
पुण्डरीका पयोदा च तस्मान्नद्यौ पिनिर्गते। श्वेतात्प्रभवते पुण्यं सरस्तूत्तरमानसम् ॥ ६७
ज्योत्स्ना च मृगकान्ता च तस्माद्धे संबभूवतुः। मधुमत्सरः पुण्यं च पद्ममीनद्विजाकुलम् ॥ ६८
कल्पवृक्षसमाकीर्णं मधुवत्स्रवतः सुखम्। रुद्रकान्तामिति ख्यातं निर्मितं तद्द्रवेन तु ॥ ६९
अन्ये चाप्यत्र विख्याताः पद्ममीनद्विजाकुलाः। नाम्ना ह्रदा जया नाम द्वादशोदधिसंनिभाः ॥ ७०
तेभ्यः शान्ती च माध्वी च द्वे नद्यौ संबभूवतुः। यानि किंपुरुषाद्यानि तेषु देवो न वर्षति ॥ ७१
उद्भिज्जान्युदकान्यत्र प्रवहन्ति सरिद्वराः। ऋषभो दुन्दुभिश्चैव धूम्रश्चैव महागिरिः ॥ ७२
पूर्वायता महाभागा निम्नगा लवणाम्भासि। चन्द्रकक्षस्तथा द्रोणो महानग्निः शिलोच्चयः ॥
उद्ग्याता उदीच्यान्ता अवगाढा महोदधिम् ॥ ७३

१४४ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०४७-४८श्लो०७४-८०-१-१२]
( भुवनविन्यासः )

सोमकश्च वराहश्च नारदश्चः महीधरः । प्रतीचीमायतास्ते वै प्रविष्टा लवणोदधिम् ॥ ७४
वको बलाहकश्चैव मैनाकश्चैव पर्वतः । आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति ॥
*चन्द्रमैनाकयोर्मध्ये विदिशं दक्षिणं प्रति ॥ ७५
तत्र संवर्तको नाम सोऽग्निः पिबति तज्जलम् । नाम्ना समुद्रपः श्रीमानौर्वः स वडवामुखः ॥
द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम् । महेन्द्रभयवित्रस्ताः पक्षच्छेदभयात्तदा ॥
यदेतद्दृश्यते चन्द्रे श्वेते कृष्णशशाकृति ॥ ७७
भारतस्य तु वर्षस्य भेदास्ते नव कीर्तिताः । इहोदितस्य दृश्यन्ते तथाऽन्येऽन्यत्र नोदिते ॥ ७८
उत्तरोत्तरमेतेषां वर्षमुद्दिश्य ते गुणैः । आरोग्यायुष्प्रमाणाभ्यां धर्मतः कामतोऽर्थतः ॥ ७९
समन्वितानि भूतानि गुणैरेतैस्तु भागतः । वसन्ति नानाजातीनि तेषु वर्षेषु तानि वै ॥
इत्येषाऽधारयत्सर्वं पृथिवी विश्वं जगत्स्थितौ ॥ ८०

इति महापुराणे वायुप्रोक्ते भुवनविन्यासो नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
आदितः श्लोकानां समष्ट्यङ्काः–३५०२


अथाष्टचत्वारिंशोऽध्यायः ।

भुवनविन्यासः ।

सूत उवाच–
दक्षिणेनापि वर्षस्य भारतस्य निबोधत । दशयोजनसाहस्रं समतीत्य महार्णवम् ॥ १
त्रीण्येव तु सहस्राणि योजनानां समायसम् । अतस्त्रिभागविस्तीर्णं नानापुष्पफलोदयम् ॥ २
विद्युत्वन्तं महाशैलं तत्रैकं कुलपर्वतम् । येन कूटतटैर्नैकैस्तव्द्वीपं समलंकृतम् ॥ ३
प्रसन्नस्वादुसलिलास्तत्र नद्यः सहस्रशः । वाप्यस्तस्य तु द्वीपस्य प्रवृत्ता विमलोदकाः ॥ ४
तस्य शैलस्य च्छिद्रेषु विस्तीर्णेष्वार्यतेषु च । अनेकेषु समृद्धानि नानाकाराणि सर्वशः ॥ ५
नरनारीसमाढ्यानि मुदितानि महान्ति च । तेषां तलप्रवेशानि सहस्राणि शतानि च ॥ ६
पुराणि संनिविष्टानि पर्वतान्तर्गतानि च । सुसंबद्धानि चान्योन्यमेकद्वाराणि तान्यथ ॥ ७
दीर्घश्मश्रुधरात्मानो नीला मेवसप्रभाः । जातमात्राः प्रजास्तत्र अशीतिपरमायुषः ॥ ८
शाखामृगसधर्माणः फलमूलांशिनस्तथा । गोधर्माणो ह्यनिर्दिष्टाः शौचाचारविवर्जिताः ॥ ९
तद्द्दीपं तादृशैः पूर्णं मनुजैः क्षुद्रमानुषैः । एवमेतेऽन्तरद्वीपा व्याख्याता आनुपूर्वशः ॥ १०
विशंत्रिंशच्च पश्चाशत्षष्ट्यशीतिः शतं तथा । सहस्रमपि चाप्युक्तं योजनानां समन्ततः ॥ ११
विस्तीर्णाश्चायताश्चैव नानासत्त्वसमाकुलाः । बर्हिणद्वीपपर्वाणि क्षुद्रद्वीपाः सहस्रशः ॥ १२


* इदमर्धं नास्ति घ. पुस्तके ।

[अ०४८श्लो०१३-४०] वायुराणम् । १४५
( भुवनविन्यासः )
जम्बूद्वीपप्रदेशास्तु षडन्ये विविधाश्रयाः । अत्र द्वीपाः समाख्याता नानारत्नाकराः क्षितौ ॥ १३
अङ्गद्वीपं यमद्वीपं मलयद्वीपमेव च । *शङ्खद्वीपं कुशद्वीपं वराहद्वीपमेव च ॥ १४
अङ्गद्वीपं निबोध त्वं नानासत्त्वसमाकुलम् । नानाम्लेच्छगणाकीर्णं तद्दीपं बहुविस्तरम् ॥ १५
हेमविद्रुमपूर्णानां रत्नानामाकरं क्षितौ। नदीशैलवनैश्चित्रं संनिभं लवणाम्भसा ॥ १६
तत्र चक्रगिरिर्नाम नैकनिर्झरकन्दरः । तत्र सा तु दरी चास्य नानासत्त्वसमाश्रया ॥ १७
स मध्ये नागदेशस्य नैकदेशो महागिरिः । कोटिभ्यां नागानिलयं प्राप्तो नदनदीपतिम् ॥ १८
यमद्वीपमिति प्रोक्तं नानारत्नाकराचितम् । (÷तत्रापि द्युतिमान्नाम पर्वतो धातुमण्डितः ॥ १९
समुद्रगानां( णां ) प्रभवः प्रभवः काञ्चनस्य तु ॥ २०
तथैव मलयद्वीपमेवमेव सुसंवृतम् ।) मणिरत्नाकरं स्फीतमाकरं कनकस्य च ॥ २१
आकरं चन्दनानां च समुद्राणां तथाऽऽकरम् । नानाम्लेच्छगणाकीर्णं नदीपर्वतमण्डितम् ॥ २२
तत्र श्रीमांस्तु मलयः पर्वतो रजताकरः । महामलय इत्येवं विख्यातो वरपर्वतः ॥
द्वितीयं मन्दरं नाम प्रथितं च सदा क्षितौ । +नानापुष्पफलोपेतं रम्यं देवर्षिसेवितम् ॥ २३
अगस्त्यभवनं तत्र देवासुरनमस्कृतम् ॥ २४
तथा काञ्चनपादस्य मलयस्यापरस्य हि । निकुञ्जस्तृणसोमाङ्गैराश्रमं पुण्यसेवितम् ॥ २५
नानापुष्पफलोपेतं स्वर्गादपि विशिष्यते । तत्रावतरते स्वर्गः सदा पर्वसु पर्वसु ॥ २६
तथा त्रिकूटनिलये नानाधातुविभूषिते । अनेकयोजनोत्सेधे चित्रसानुदरगृहे ॥ २७
तस्य कूटतटे रम्ये हेमप्राकारतोरणा । निर्यूहवलभी चित्रा हर्म्यप्रासादमालिनी ॥ २८
शतयोजनविस्तीर्णा त्रिंशदायामियोजना । नित्यप्रमुदिता स्फीता लङ्का नाम महापुरी ॥
सा कामरूपिणां स्थानं राक्षसानां महात्मनाम् । आवासो बलदृप्तानां तद्विद्यादेवविद्विषाम् ॥ २९
मानुषाणामसंबाधा ह्यगम्या सा महापुरी ॥ ३०
तस्य द्वीपस्य वै पूर्वे तीरे नदनदीपतेः । गोकर्णनामधेयस्य शंकरस्याऽऽलयं महत् ॥ ३१
तथैकाराज्यं विज्ञेयं शङ्खद्वीपसमाश्रितम् । शतयोजनविस्तीर्णं नानाम्लेच्छगणालयम् ॥ ३२
तत्र शङ्खगिरिर्नाम धौतशङ्खदलप्रभः नानारत्नाकरः पुण्यः पुण्यकृद्भिर्निषेवितः ॥ ३३
शङ्खनागा महापुण्या यस्मात्प्रभवते नदी । यत्र शङ्खमुखो नाम नागराजः कृतालयः ॥ ३४
तथैव कुमुदद्वीपं नानापुष्पोपशोभितम् । नानाग्रामसमाकीर्णं नानारत्नाकरं शिवम् ॥ ३५
कुमुदा नाम महाभागा दुष्टचित्तनिबर्हणी । महादेवस्य भगिनी प्रभाभिस्ताभिरिज्यते ॥ ३६
तथा वराहद्वीपे च नानाम्लेच्छगणाकुले । नानाजातिसमाकीर्णे नानाधिष्ठानपत्तने ॥ ३७
धनधान्ययुते स्फीते धर्मिष्ठजनसंकुले । नदीशैलवनैश्चित्रैर्बहुपुष्पफलोपमैः ॥ ३८
वराहपर्वतो नाम तत्र रम्यः शिलोच्चयः । अनेककन्दरदरीगुहानिर्झरशोभितः ॥ ३९
तस्मात्सुरसपानीया पुण्यतीर्थतरङ्गिणी । वाराही नाग वरदा प्रवृत्ता स्म महानदी ॥
वाराहरूपिणे तत्र विष्णवे प्रभविष्णवे । अनन्यदेवतास्तस्मै नमस्कुर्वन्ति वै प्रजाः ॥ ४०


* इदमर्धं नास्ति ख. पुस्तके। ÷ धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + इदमर्धं नास्ति क. ख. ग. पुस्तकेषु ।

१९