सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 146, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 146

[अ० ४५ श्लो० ६८-९६] वायुपुराणम् । १३७
( भुवनविन्यासः )
आख्याते त्वेवमृषयः सूतपुत्रेण धीमता । उत्तरश्रवणे भूयः पप्रच्छुस्तदनन्तरम् ॥ ६८
ऋषय ऊचुः—
यदिदं भारतं वर्षं यस्मिन्स्वायंभुवादयः । चतुर्दशैते मनवः प्रजासर्गे भवन्त्युत ॥ ६९
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम । एतच्छ्रुत्वा वचस्तेषामब्रवील्लोमहर्षणः ॥ ७०
पौराणिकस्तदा सूत ऋषीणां भावितात्मनाम् । एतद्विस्तरतो भूयस्तानुवाच समाहितः ॥ ७१
सूत उवाच—
निसर्ग एष विख्यातः कुरूणां तु यथार्थवत् । भारतस्य तु वक्ष्यामि निसर्गं तं निबोधत ॥ ७२
पुण्यतीर्थे हिमवतो दक्षिणस्यातलस्य हि । पूर्वपश्चायतस्यास्य दक्षिणेन द्विजोत्तमाः ॥ ७३
तथा जनपदानां च निस्तरं श्रोतुमर्हथ । अत्र वो वर्णयिष्यामि वर्षेऽस्मिन्भारते प्रजाः ॥ ७४
इदं तु मध्यमं चित्रं शुभाशुभफलोदयम् । उत्तरं यत्समुद्रस्य हिमवद्दक्षिणं च यत् ॥ ७५
वर्षं यद्भारतं नाम यत्रेयं भारती प्रजा । भरणाच्च प्रजानां वै मनुर्भरत उच्यते ॥
निरुक्तवचनाच्चैव वर्षं तद्भारतं स्मृतम् ॥ ७६
ततः स्वर्गश्च मोक्षश्च मध्यश्चान्तश्च गम्यते । न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ ७७
भारतस्यास्य वर्षस्य नव भेदाः प्रकीर्तिताः । समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥ ७८
इन्द्रद्वीपः कसेरुश्च ताम्रपर्णी गभास्तिमान् । नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥ ७९
अयं तु नवमस्तेषां द्वीपांः सागरसंवृतः । योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरम् ॥ ८०
आयतो ह्याकुमारिक्याद्गाङ्गाप्रभवाच्च वै । तिर्यगुत्तरविस्तीर्णाः सहस्राणि नवैव तु ॥ ८१
द्वीपो ह्युपानिविष्टोऽयं म्लेच्छैरन्तेषु नित्यशः । पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः ॥ ८२
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । इज्यायुद्धवणिज्याभिर्वर्तयन्तो व्यवस्थितः ॥ ८३
तेषां संव्यवहारोऽयं वर्तते तु परस्परम् । धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ॥ ८४
संकल्पपञ्चमानां तु आश्रमाणां यथाविधि । इह स्वर्गापवर्गार्थं प्रवृत्तिर्नैर्षु मानुषी ॥ ८५
यस्त्वयं नवमो दीपास्तिर्यगायत उच्यते । कृत्स्नं जयति यो ह्येनं स सम्राडिए कीर्त्यते ॥ ८६
अयं लोकस्तु वै सम्राडन्तरिक्षा विराट्समृतः । स्वराडन्यः स्मृतो लोकः पुनर्वक्ष्यामि विस्तरम् ॥ ८७
सप्त चास्मिन्सपर्वाणो विश्रुताः कुलपर्वताः । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥
विंध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ ८८
तेषां सहस्रशश्चान्ये पर्वतास्तु समीपगाः । अभिजाताः सर्वगुणा विपुलाश्चित्रसानवः ॥ ८९
मन्दरः पर्वतश्रेष्ठो वैहारो दर्दुरस्तथा । कोलाहलः ससुदसो मैनाको वैद्युतस्तथा ॥ ९०
पातंधमो नाम गिरिस्तथा पाण्डुरपर्वतः । गन्तुप्रस्थः कृष्णगिरिर्गोधनो गिरिरेव च ॥ ९१
पुष्पगिर्युज्जयन्तो च शैलौ रैवतकस्तथा । श्रीपर्वतश्च कारुश्च कूटशैलो गिरिस्तथा ॥ ९२
अन्ये तेभ्यः परिज्ञाता ह्रस्वाः स्वल्पोपजीविन । तैर्विमिश्रा जनपदा आर्यम्लेच्छाश्च नित्यशः ॥ ९३
पीयन्त यैरिमा नद्यो गङ्गा सिन्धुसरस्वती । शतद्रुश्चन्द्रभागा च यमुना सरयूस्तथा ॥ ९४
इरावती वितस्ता च विपाशा देविका कहूः । गोमती धूतपापा च बाहुदा च दृषद्वती ॥ ९५
कौशिकी च तृतीया तु निश्चीरा गण्डकी तथा । इक्षुर्लोहित इत्येता हिमवत्पादनिःसृताः ॥ ९६
१८