वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
विध्वरूपात्मधानस्य परिणामोऽयमद्भुतः । पुरूरवस ऐलस्य माहात्म्यानुप्रकीर्तनम् ॥ १०६
[अ० १ श्लो० १०५-१३३] वायुपुराणम् । ५
( अनुक्रमणिका )
स्तूयमानः सुरैर्विष्णुः स्तौति देवं महेश्वरम् । लिङ्गोद्भवकथां पुण्यां सर्वपापप्रणाशिनीम् ॥ १०५
विध्वरूपात्मधानस्य परिणामोऽयमद्भुतः । पुरूरवस ऐलस्य माहात्म्यानुप्रकीर्तनम् ॥ १०६
पितॄणां द्विमकाराणां तर्पणं चामृतस्य वै । ततः पर्वाणि कीर्त्यन्ते पर्वाणां चैव संधयः ॥ १०७
स्वर्गलोकगतानां च प्राप्तानां चाप्यधोगतिम् । पितॄणां द्विमकाराणां श्राद्धेनानुग्रहो महान् ॥ १०८
युगसंख्या प्रमाणं च कीर्त्यते च कृतं युगम् । त्रेतायुगे चापकर्षाद्वार्तायाः संप्रवर्तनम् ॥ १०९
* वर्णानामाश्रमाणां च संख्यानां च प्रवर्तनम् । वर्णानामाश्रमाणां च संस्थितिर्धर्मतस्तथा ॥ ११०
यज्ञप्रवर्तनं चैव संवादो यत्र कीर्त्यते । ऋषीणां वसुना सार्धं वसोश्चाधः पुनर्गतिः ॥ १११
प्रश्नानां दुर्वचस्त्वं च स्वायंभुवमृते मनुम् । प्रशंसा तपसश्चोक्ता युगावस्थाश्च कृत्स्नशः ॥ ११२
द्वापरस्य कलेश्चात्र संक्षेपेण प्रकीर्तनम् । देवतिर्यङ्मनुष्याणां प्रमाणानि युगे युगे ॥ ११३
कीर्त्यन्ते युगसामर्थ्यात्परिणाहोच्छ्रयायुषः । शिष्टादीनां च निर्देशः प्रादुर्भावश्च कीर्त्यते ॥ ११४
( +मन्त्राणां ब्राह्मणानां च लक्षणं परिकीर्तितम् । ईश्वराणामृषीणां च मनोः पितृगणस्य च ॥) ११५
( ×वेदस्य तद्विजातानां मन्त्राणां च प्रकीर्तनम् । शाखानां परिमाणं च वेदव्यासा दिशब्ददनम्॥ ११६
मन्वन्तराणां संहारः संहारान्ते च संभवः । देवातानामृषीणां च मनोः पितृगणस्य च ॥ ११७
न शक्यं विस्तराद्वक्तुमित्युक्तं च समासतः । मन्वन्तरस्य संख्या च मानुषेण प्रकीर्तिता ॥ ११८
मन्वन्तराणां सर्वेषामेतदेव च लक्षणम् । अतीतानागतानां च वर्तमानेन कीर्त्यते ॥ ११९
तथा मन्वन्तराणां च प्रतिसंधानलक्षणम् । अतीतानागतानां च मोक्तं स्वायंभुवेऽन्तरे ॥ १२०
मन्वन्तरत्रयं चैव कालज्ञानं च कीर्त्यते । मन्वन्तरेषु देवानां प्रजेशानां च कीर्तनम् ॥ १२१
दक्षस्य चापि दौहित्राः प्रियाया दुहितुः सुता । ब्रह्मादिभिस्ते जनिता दक्षेणैव च धीमता ॥ १२२
साववर्ण्याद्याश्च कीर्त्यन्ते मनवो मेरुताश्रिताः । ध्रुवस्योत्तानपादस्य प्रजासर्गोपवर्णनम् ॥ १२३
पृथुना वाऽपि वैन्येन भूमेर्दोहप्रवर्तनम् । पात्राणां पयसां चैव वंशानां च विशेषणम् ॥ १२४
ब्रह्मादिभिः पूर्वमेव दुग्धा चयं वसुंधरा । दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतेः ॥ १२५
दक्षस्य कीर्त्यते जन्म सोमस्यांशेन धीमतः । भूतभव्यभवेशत्वं महेन्द्राणां च कीर्त्यते ॥ १२६
मन्वादिका भविष्यन्ति आख्यानैर्बहुभिर्वृताः । वैवस्वतस्य च मनोः कीर्त्यते सर्वविस्तरः १२७
देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् । ब्रह्मशुक्रात्समुत्पत्तिर्भृग्वादीनां च कीर्त्यते ॥ १२८
विनिवृत्ते प्रजासर्गे चाक्षुषस्य मनोः शुभे । दक्षस्य कीर्त्यते सर्गो ध्यानाद्वैवस्वतेऽन्तरे ॥ १२९
नारदः प्रियसंवादो दक्षपुत्रान्महाबलान् । नाशयामास शापाय आत्मनो ब्रह्मणः सुतः ॥ १३०
ततो दक्षोऽसृजत्कन्या वीरिण्यामेव विश्रुताः । कीर्त्यते धर्मसर्गश्च कश्यपस्य च धीमतः ॥ १३१
अत ऊर्ध्वं ब्रह्मणश्च विष्णोश्चैव भवस्य च । एकत्वं च पृथक्त्वं च विशेषत्वं च कीर्त्यते ॥ १३२
ईशत्वाच्च यथा शप्ता जाता देवाः स्वयंभुवा । मरुत्प्रसादो मरुतां दित्या देवाश्च संभवाः ॥ १३३
* इदमर्धं नास्ति ख. घ. ङ. पुस्तकेषु । + धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।
× धनुश्चिह्नान्तर्गतं नास्ति घ. पुस्तके ।
६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०श्लो० १३४-१६१]
( अनुक्रमणिका )
कीर्त्यन्ते मरुतां चाथ गणास्ते सप्तसप्तकाः। देवत्वं पितृवाक्येन(ण) वायुस्कन्धेन चाऽऽश्रयः ॥१३४
दैत्यानां दानवानां च गन्धर्वोरगरक्षसाम् । सर्वभूतपिशाचानां पशूनां पक्षिवीरुधाम् ॥ १३५
उत्पत्तयश्चाप्सरसां कीर्त्यन्ते बहुविस्तराः । समुद्रसंयोगकृतं जन्मैरावतहस्तिनः ॥ १३६
वैनतेयसमुत्पत्तिस्तथा चास्याभिषेचनम् । भृगूणां विस्तरचोक्तस्तथा चाऽङ्गिरसामपि ॥ १३७
कश्यपस्य पुलस्त्यस्य तथैवात्रेर्महात्मनः । पराशरस्य च मुनेः प्रजानां यत्र विस्तरः ॥ १३८
देवतानामृषीणां च प्रजोत्पत्तिस्ततः परम् । तिस्रः कन्याः प्रकीर्त्यन्ते यासु लोकाः प्रतिष्ठिताः ॥
पितृदौहित्रनिर्देशो देवानां जन्म चोच्यते । विस्तरते भगवतः पञ्चानां सुमहात्मनाम् ॥ १४०
इलाया विस्तरश्चोक्त आदित्यस्य ततः परम् । विकुक्षिचरितं चोक्तं धुन्धोश्चैव निबर्हणम् ॥ १४१
बृहद्बलबलान्तसंक्षेपादिक्ष्वाकाद्याः प्रकीर्तिताः । निम्यादीनां क्षितीशानां यावज्जह्नुगुणादिति ॥ १४२
कीर्त्यते विस्तरो यश्च ययातेरपि भूपतेः । यदुवंशसमुद्देशो हैहयस्य च विस्तरः ॥ १४३
क्रोष्टोरनन्तरं चोक्तस्तथा वंशस्य विस्तरः । ज्यामघस्य च माहात्म्यं प्रजासर्गश्च कीर्त्यते ॥ १४४
देवावृधस्य त्वर्कस्य वृष्णेचैव महात्मनः । (* अनमित्रान्वयश्चैव विष्णो[+ र्दिव्याभिशंसनम् ॥ १४५
विवस्वतोऽथ संपाप्तिर्मणिरत्नस्य धीमतः । युधाजितः प्रजासर्गः कीर्त्यते च महात्मनः ) ॥ १४६
कीर्त्यते चान्वयः श्रीमान्राजर्षेर्देवमीढुषः । पुनश्च जन्म चाप्युक्तं चरितं च महात्मनः ॥ ] १४७
कंसस्य चापि दौरात्म्यमेकान्तेन समुद्भवः । वासुदेवस्य देवक्यां विष्णोर्जन्म प्रजापतेः ॥ १४८
विष्णोरनन्तरं चापि प्रजासर्गोपवर्णनम् । देवासुरे समुत्पन्ने विष्णुना स्त्रीवधे कृते ॥ १४९
संरक्षता शक्रवधं शापः प्राप्तः पुरा भृगोः । भृगोश्चोत्थापयामास दिव्यां शुक्रस्य मातरम् ॥ १५०
देवानामसुरारणां च सङ्ग्रामा द्वादशाद्भुताः । नारसिंहप्रभृतयः कीर्त्यन्ते प्राणनाशनाः ॥ १५१
शुक्रेणाऽऽराधनं स्थाणोर्धीरेण तपसा कृतम् । वरदानप्रलुब्धेन यत्र शर्वस्तवः कृतः ॥ १५२
अनन्तरं विनिर्दिष्टं देवासुरविचेष्टितम् । जयन्त्या सह सक्ते तु यत्र शुक्रे महात्मनि ॥ १५३
आसुरान्मोहयामास शुकरूपेण बुद्धिमान् । बृहस्पतिस्तु तान्द्रुब्धः शशाप समहाद्युतिः ॥ १५४
उक्तं च विष्णुमाहात्म्यं विष्णोर्जन्मादिशब्दनम् । तुर्वसुः शुक्रदौहित्रो देवयांन्यां यदोरभूत् ॥१५५
अनुर्द्रुह्युस्तथा पूरुर्ययातेतनया नृपाः । अत्र वंश्या महात्मानस्तेषां पार्थिवसत्तमाः ॥ १५६
कीर्त्यन्ते यत्र कार्त्स्न्येन भूरिद्रविणतेजसः । कुशिकस्य च विप्रर्षेः सम्यग्ग्यो धर्मसंश्रयः ॥ १५७
बार्हस्पत्यं तु सुरभिर्यत्र शापमिहानुदत् । कीर्तनं जह्नुवंशस्य शांतनोर्वीर्यशब्दनम् ॥ १५८
भविष्यतां तथा राज्ञामुपसंहारशब्दनम् । अनागतानां सप्तानां मनूनां चोपवर्णनम् ॥ १५९
भौमस्यान्ते कलियुगे क्षीणे संहारवर्णनम् । परार्ध्यपर्ययोश्चैव लक्षणं परिकीर्त्यते ॥ १६०
ब्रह्मणो योजनायेण पारिमाणविनिर्णयः । नैमित्तिकः प्राकृतिकस्तथैवाऽऽत्यन्तिकः स्मृत ॥ १६१
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
[ अ०१श्लो० १६२-१९० ] वायुपुराणम् ७
( अनुक्रमणिका )
त्रिविधः सर्वभूतानां कीर्त्यते प्रतिसंचरः । अनावृष्टिर्भास्कराच्च घोरः संवर्तकोऽनलः ॥ १६२
मेवो ह्येकार्णवं वायुस्तथा रात्रिर्महात्मनः । संख्यालक्षणमुद्दिष्टं ततो ब्राह्मं विशेषतः ॥ १६३
भूरादीनां च लोकानां समानामुपवर्णनम् । कीर्त्यन्ते चात्र निरयाः पापानां रौरवादयः ॥ १६४
ब्रह्मलोकोपरिष्ठात्तु शिवस्य स्थानमुत्तमम् । यत्र संहारमायान्ति सर्वभूतानि संक्षये ॥ १६५
सर्वेषां चैव सत्त्वानां परिणामविनिर्णयः । ब्रह्मणः प्रतिसंसर्गे सर्वसंहारवर्णनम् ॥ १६६
अष्टरूप्यमतः प्रोक्तं प्राणस्याष्टकमेव च । गतिश्चोर्ध्वमधश्चोक्ता धर्माधर्मसमाश्रयात् ॥ १६७
कल्पे कल्पे च भूतानां महतामपि संक्षयः । प्रसंख्याय च दुःखानि ब्रह्मणश्चाप्यनित्यता ॥ १६८
दौरात्म्यं चैव भोगानां परिणामविनिर्णयः । दुर्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनम् ॥ १६९
व्यक्ताव्यक्तं परित्यज्य सत्त्वं ब्रह्मणि संस्थितम् । नानात्वदर्शनाच्छुद्धं ततस्तदभिवर्तते ॥ १७०
ततस्तापत्रयातीतो नीरूपारूख्यो निरञ्जनः । आनन्दो ब्रह्मणः प्रोक्तो न बिभेति कुतश्चन ॥ १७१
कीर्त्यते च पुनः सर्गो ब्रह्मणोऽन्यस्य पूर्ववत् । कीर्त्यते ऋषिवंशश्च सर्वपापप्रणाशनः ॥ १७२
इतिकृत्यसमुद्देशः पुराणस्योपवर्णितः । कीर्त्यन्ते जगतो ह्यत्र सर्वप्रलयविक्रियाः ॥ १७३
प्रवृत्तयश्च भूतानां निवृत्तीनां फलानि च । प्रादुर्भावो वशिष्ठस्य शक्तेर्जन्म तथैव च ॥ १७४
सौदासान्निग्रहस्तस्य विश्वामित्रकृतेन च । पराशरस्य चोत्पत्तिरदृश्यत्वं यथा विभोः ॥ १७५
जज्ञे पितॄणां कन्यायां व्यासश्चापि यथा मुनिः। शुकस्य च तथा जन्म सह पुत्रस्य धीमत. ॥ १७६
पराशरस्य मद्द्वेषो विश्वामित्रकृतो यथा । वशिष्ठसंभृतश्चाग्निर्विश्वामित्रजिघांसया ॥ १७७
संतानहेतोर्विभुना चोर्णिः स्कन्देन धीमता । दैवेन विधिना विप्र विश्वामित्रहितैषिणा ॥ १७८
एकं वेदं चतुष्पादं चतुर्धा पुनरीश्वरः । यथा बिभेद भगवान्व्यासः सर्वान्स्वबुद्धितः ॥ १७९
तस्य शिष्यैः प्रशिष्यैश्च शाखाभेदाः पुनः कृताः । प्रयोगैः षड्गुणैश्च यथा पृष्टः स्वयंभुवा ॥
पृष्टेन चानुपृष्टास्ते मुनयो धर्मकाङ्क्षिणः । देशं पुण्यमभीप्सन्तो विभुना तद्धितेषिणा ॥ १८१
सुनाभं दिव्यरूपारख्यं सत्याङ्गं शुभविक्रमम् । अनौपम्यमिदं चक्रं वर्तमानमतन्द्रिताः ॥ १८२
पृष्ठतो यात नियतास्ततः प्राप्स्यथ यद्धितम् । गच्छतो धर्मचक्रस्य यत्र नेमिर्विशीर्यते ॥ १८३
पुण्यः स देशो मन्तव्य इत्युवाच तदा प्रभुः । उक्त्वा चैवमृषीन्ब्रह्मा ह्यदृश्यत्वमगात्पुनः ॥ २८४
गङ्गागर्भसमाहारं नैमिषेयत्वमेव च । ईजिरे चैव सत्रेण मुनयो नैमिषे तदा ॥ १८५
मृते शरद्वति तथा तस्य चोत्थापनं कृतम् । ऋषयो नैमिषेयास्तु श्रद्धया परया पुनः ॥ १८६
निःसीमा गामिमां कृत्स्नां कृत्वा राजानमाहरन् । यथाविधि यथाशास्त्रं तमातिथ्यैरपूजयन् ॥ १८७
पीतं चैव कृतातिथ्यं राजानं विधिवत्तदा । अन्तर्धानगतः क्रूरः स्वर्भानुरसुरोऽहरत् ॥ १८८
अनुसङ्ग्रह्वंतं चापि नृपमैडं यथा पुरा । गन्धर्वसहितं दृष्ट्वा कलापग्रामवासिनम् ॥ १८९
संनिपातः पुनस्तस्य यथा यज्ञे महर्षिभिः । दृष्ट्वा हिरण्मयं सर्वं यज्ञे वस्तु महात्मनाम् ॥ १९०
| ८ | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० १ श्लो० २-९] |
|---|---|---|
| {: align="center"} | ||
| ( द्वादशवार्षिकसत्रनिरूपणम् ) |
तदा वै नैमिषेयाणां सत्रे द्वादशवार्षिके । यथा विवदमानास्तु ऐडेः संस्थापितस्तु तैः ॥ १९१
जनयित्वा त्वरण्यान्त ऐलपुत्रं यथायुषम् । समापयित्वा तत्सत्रमायुषं पर्युपासते ॥ १९२
एतत्सर्वं यथावृत्तं व्याख्यातं द्विजसत्तमाः । ऋषीणां परमं चात्र लोकतत्त्वमनुत्तमम् ॥ १९३
ब्रह्मणा यत्पुरा प्रोक्तं पुराणं ज्ञानमुत्तमम् । अवतारश्च रुद्रस्य द्विजानुग्रहकारणात् ॥ १९४
तथा पाशुपता योगाः स्थानानां चैव कीर्तनम् । लिङ्गोद्भवस्य देवस्य नीलकण्ठत्वमेव च ॥ १९५
कथ्यते यत्र विप्राणां वायुना ब्रह्मवादिना । धन्यं यशस्यमायुष्यं सर्वपापप्रणाशनम् ॥ १९६
कीर्तनं श्रवणं चास्य धारणं च विशेषतः । अनेन हि क्रमेणेदं पुराणं संप्रचक्ष्यते ॥ १९७
सुखभर्थः समासेन महानप्युपलभ्यते । तस्मात्किंचित्समुद्दिश्य पश्चाद्वक्ष्यामि विस्तरम् ॥ १९८
पादमाद्यमिदं सम्यग्योऽधीयीत जितेन्द्रियः । तेनाधीतं पुराणं तत्सर्वं नास्त्यत्र संशयः ॥ १९९
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः । न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ २००
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ २०१
अभ्यसन्निममध्यायं साक्षात्प्रोक्तं स्वयंभुवा । आपदं प्राप्य मुच्येत यथेष्टां प्राप्नुयाद्गतिम् ॥ २०२
यस्मात्पुरा ह्यनतीदं पुराणं तेन तत्स्मृतम् । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ २०३
नारायणः यर्वमिदं विश्वं व्याप्य प्रवर्तते । तस्यापि जगतः स्रष्टुः स्रष्टा देवो महेश्वरः ॥ २०४
अतश्च संक्षेपमिमं शृणुध्वं महेश्वरः सर्वमिदं पुराणम् ।
स सर्वकाले च करोति सर्गं सहारकाले पुनराददीत ॥ २०५
इति श्रीमहापुराणे वायुप्रोक्ते प्रक्रियापादेऽनुक्रमणिका नाम प्रथमोऽध्यायः ॥ १ ॥
अथ द्वितीयोऽध्यायः ।
द्वादशवार्षिकसत्रनिरूपणम् ।
प्रत्यब्रुवन्पुनः सूतमृषयस्ते तपोधनाः । कुत्र सत्रं समभवत्तेषामद्भुतकर्मणाम् ॥ १
कियन्तं चैव तत्कालं कथं च समवर्तत । आचचक्ष पुराणं च कथं तेभ्यः प्रभञ्जनः ॥ २
आचक्ष्व विस्तरेणेदं परं कौतूहलं हि नः । इति संनोदितः सूतः प्रत्युवाच शुभं वचः ॥ ३
शृणुध्वं यत्र ते धीरा ईजिरे सत्रमुत्तमम् । यावन्तं चाभवत्कालं यथा च समवर्तत ॥ ४
सिसृक्षमाणा विश्वं हि यत्र विश्वसृजः पुरा । सत्रं हि ईजिरे पुण्यं सहस्रं परिवत्सरान् ॥ ५
तपोगृहपतिर्यत्र ब्रह्मा ब्रह्माऽभवत्स्वयम् । इलाया यत्र पत्नीत्वं शामित्रं यत्र बुद्धिमान् ॥ ६
मृत्युश्चक्रे महातेजास्तन्मिन्सत्रे महात्मनाम् । विबुधा ईजिरे तत्र सहस्रं प्रतिवत्सरान् ॥ ७
भ्रमतो धर्मचक्रस्य यत्र नेमिरशीर्यत । कर्मणा तेन विख्यातं नैमिषं मुनिपूजितम् ॥ ८
यत्र सा गोमती पुण्या सिद्धचारणसेविता । रोहिणी सुषुवे तत्र ततः सौम्योऽभवत्सुतः ॥ ९
[ अ० २ श्लो० १०-३७ ] वायुपुराणम् ६
( द्वादशवार्षिकसत्रनिरूपणम् )
शक्तिज्येष्ठाः समभवन्वशिष्ठस्य महात्मनः । अरुन्धत्याः सुता यत्र शतमुत्तमतेजसः ॥ १०
कल्माषपादो नृपतिर्यत्र शप्तश्च शक्तिना । यत्र वैरं समभवद्विश्वामित्रवशिष्ठयोः ॥ ११
अदृश्यन्त्यां समभवन्मुनिर्यत्र पराशरः । पराभवो वशिष्ठस्य यस्मिञ्जातऽप्यवर्तत ॥ १२
तत्र त ईजिरे सत्रं नैमिषे ब्रह्मवादिनः । नेमिष ईजिरे यत्र नैमिषेयास्ततः स्मृताः ॥ १३
तत्सत्रमभवत्तेषां समा द्वादश धीमताम् । पुरूरवसि विक्रान्ते प्रशासति वसुंधराम् ॥ १४
अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः । तुतोष नैव रत्नानां लोभादिति हि नः श्रुतम् ॥ १५
उर्वशी चकमे यं च देवहूतिप्रणोदिता । आजहार च तत्सत्रं स्वर्वैश्यासहसंगतः ॥ १६
तस्मिन्नरपतौ सत्रं नैमिषेयाः प्रचक्रिरे । यं गर्भं सुषुवे गङ्गा पावकाद्दीप्ततेजसम् ॥ १७
तदुल्बं पर्वते न्यस्तं हिरण्यं पत्यपद्यत । हिरण्मयं ततश्चक्रे यज्ञवाटं महात्मनाम् ॥ १८
विश्वकर्मा स्वयं देवो भावयँल्लोकभावनाम् । बृहस्पतिस्ततस्तत्र तेषाममिततेजसाम् ॥ १९
ऐडः पुरूरवा भेजे तं देशं मृगयां चरन् । तं दृष्ट्वा महदाश्चर्यं यज्ञवाटं हिरण्मयम् ॥ २०
लोभेन हतविज्ञानस्तदादातुं प्रचक्रमे । नैमिषेयास्ततस्तस्य चुक्रुधुर्नृपतेर्भृशम् ॥ २१
निजघ्नुश्चापि संक्रुद्धाः कुशवज्रैर्मनीषिणः । ततो निशान्ते राजानं मुनयो दैवनोदिताः ॥ २२
कुशवज्रैर्विनिष्पिष्टः स राजा व्यजहात्तनूम् । और्वशेयं ततस्तस्य पुत्रं चक्रुर्नृपं भुवि ॥ २३
नहुषस्य महात्मानं पितरं यं प्रचक्षते । स तेषु वर्तते सम्यग्धर्मशीलो महीपतिः ॥ २४
आयुरायोग्यमत्युग्रं तस्मिन्स नरसत्तमः । सान्त्वयित्वा च राजानं ततो ब्रह्मविदां वराः ॥ २५
सत्रमारेभिरे कर्तुं यथावद्धर्मभूतये । बभूव सत्रं तन्तेषां बह्वाश्चर्यं महात्मनाम् ॥ २६
विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव । वैखानसैः प्रियसखैर्वालखिल्यैर्मरीचिकैः ॥ २७
अन्यैश्च मुनिभिर्जुष्टं सूर्यवैश्वानरप्रभैः । पितृदेवाप्सरःसिद्धैर्गन्धर्वोरगचारणैः ॥ २८
संभारैस्तु शुभैर्जुष्टं तैरेवेन्द्रसदो यथा । स्तोत्रसत्रग्रहैर्देवान्पितॄन्पित्र्यैश्च कर्मभिः ॥ २९
आनर्चुश्च यथाजाति गन्धर्वादीन्यथाविधि । आराधयितुमिच्छन्तस्ततः कर्मान्तरेष्वथ ॥ ३०
जगुः सामानि गन्धर्वा ननृतुश्चाप्सरोगणाः । व्याजह्रुर्मुुनयो वाचं चित्राक्षरपदां शुभाम् ॥ ३१
मन्त्रादितत्त्वविद्वांसो जगदुश्च परस्परम् । वितण्डावचनाश्चैके निजघ्नुः प्रतिवादिनः ॥ ३२
ऋषयस्तत्र विद्वांसः सांख्यार्थन्यायकोविदाः । न तत्र दुरितं किंचिद्दिदृक्षुर्बलराक्षसाः ॥ ३३
न च यज्ञहनो दैत्या न च यज्ञमुषोऽसुराः । प्रायश्चित्तं दुरिष्टं वा न तत्र समजायत ॥ ३४
शक्तिप्रज्ञाक्रियायोगैर्विधिरासीत्स्वनुष्ठितः । एवं वितेनिरे सत्रं द्वादशाब्दं मनीषिणः ॥ ३५
भृग्वाद्या ऋषयो धीरा ज्योतिष्टोमान्पृथक्पृथक् । चक्रिरे पृष्ठगमनान्सर्वानयुतदक्षिणान् ॥ ३६
समापयज्ञास्ते सर्वे वायुमेव महाधिपम् । पप्रच्छुरमितात्मानं भवद्भिर्र्यदहं द्विजाः ॥ ३७
२