वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 159, कुल 465 में से
संदर्भ में पढ़ें१५० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०४९-श्लो०१००-१२८]
(भुवनविन्यासः)
तस्मिञ्जनपदाः पुण्याः पर्वतान्तरिते शुभाः । वर्णाश्रमसमाकीर्णा देशास्ते सप्त वै स्मृताः॥ १००
न संकरश्च तेष्वस्ति वर्णाश्रमकृतः क्वचित् । धर्मस्य चाव्यभीचारादेकान्तसुखिताः प्रजाः ॥ १०१
न तेषु लोभो माया वा ईर्ष्याऽसूयाऽधृतिः कुतः । विपर्ययो न तेष्वस्ति एतत्स्वाभाविकं स्मृतम् ॥
करोत्पत्तिर्न तेष्वस्ति न दण्डो न च दण्डकाः । स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ॥ १०३
एतावदेव शक्यं वै तस्मिन्द्वीपे निवासिनाम् । पुष्करं सप्तमं द्वीपं प्रवक्ष्यामि निबोधत ॥ १०४
पुष्करेण तु द्वीपेन वृतः क्षीरोदको बहिः । शाकद्वीपस्य विस्ताराद्द्विगुणेन समन्ततः ॥ १०५
पुष्करे पर्वतः श्रीमानेक एव महाशिलः । चित्रैर्मणिमयैः शैलैः शिखरैस्तु समुच्छ्रितैः ॥ १०६
द्वीपस्य तस्य पूर्वार्धे चित्रसानुः स्थितो महान् । परिमण्डलसहस्राणि विस्तीर्णः पञ्चविंशतिः ॥ १०७
ऊर्ध्वं चैव चतुस्त्रिंशत्सहस्राणि समाचितः । द्वीपार्धस्य परिस्तोमः पर्वतो मानसोत्तमः ॥ १०८
स्थितो बेलासमीपे तु नवचन्द्र इवोदितः । योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ॥ १०९
तावदेव स विस्तीर्णः सर्वतः परिमण्डलः । स एवं द्वीपपक्षार्धे मानसः पृथिवीधरः ॥ ११०
एक एव महासानुः संनिवेशद्विधा कृतः । स्वादूदकेनोदधिना सर्वतः परिवारितः ॥ १११
पुष्करद्वीपविस्ताराद्विस्तीर्णोऽसौ समन्ततः । तस्मिन्द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ॥
अभितो मानसस्याथ पर्वतस्यानुमण्डलौ ॥ ११२
महावीतं तु यद्वर्षं बाह्यतो मानसस्य तत् । तस्यैवाभ्यन्तरे यत्तु धातकीखण्डमुच्यते ॥ ११३
दश वर्षसहस्राणि तत्र जीवन्ति मानवाः । आरोग्यसुखभूयिष्ठा मानसीं सिद्धिमास्थिताः ॥ ११४
सममायुश्च रूपं च तस्मिन्वर्षद्वये स्थितम् । अधमोत्तमौ न तेष्वास्तां तुल्यास्ते रूपशीलतः ॥ ११५
न तत्र वञ्चको नेर्ष्या न स्तेया(यं) न भयं तथा । निग्रहो न च दण्डोऽस्ति न लोभो न परिग्रहः ॥
सत्यानृत्यं न तत्रास्ति धर्माधर्मौ तथैव च । वर्णाश्रमाणां वार्ता वा पाशुपाल्यं वणिक्क्रिया ॥ ११७
त्रयी विद्या दण्डनीतिः शुश्रूषा शल्यमेव च । वर्षद्वये सर्वमेतत्पुष्करस्य न विद्यते ॥ ११८
न तत्र नद्यो वर्षे च शीतोष्णं वा न विद्यते । उद्भिज्ञान्युदकान्यत्र गिरिमप्र(स्र)वणानि च ॥ ११९
उत्तराणां कुरूणां च तुल्यकालो जनः सदा । सर्वत्र सुसुखस्तत्र जरामृत्युविवर्जितः ॥ १२०
इत्येष धातकीखण्डे महावीते तथैव च । आनुपूर्व्याद्विधिः कृत्स्नः पुष्करस्य प्रकीर्तितः ॥ १२१
स्वादूदकेनोदधिना पुष्करः परिवारितः । विस्तारान्मण्डलाच्चैव पुष्करस्य तथैव च ॥ १२२
एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृता । द्वीपस्यानन्तरो यस्तु समुद्रस्तत्समस्तु सः ॥ १२३
एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परात् । अपां चैव समुद्रेकात्समुद्रा इति संज्ञिताः ॥ १२४
ऋषयो निवसन्त्यस्मिन्प्रजा यस्माच्चतुर्विधाः । तस्माद्वर्षमिति प्रोक्तं प्रजानां सुखदं तु तत् ॥ १२५
ऋष इत्येव ऋषिणो वृषः शक्तिप्रबन्धने । रतिप्रबन्धनात्सिद्धं वर्षत्वं तेन तेषु तत् ॥ १२६
शुक्लपक्षे चन्द्रवृद्धौ समुद्रः पूर्यते सदा । पक्षीयमाणे बहुले क्षीयतेऽस्तमिते खगे ॥ १२७
• आपूय्र्यमाण उदधिः स्वत एवाभिपूय्र्यते । ततोऽपक्षीयमाणोऽपि स्वात्मनैवापकृष्यते ॥ १२८