सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 160, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 160

[अ० ४९ श्लो० १२९-१५३] वायुपुराणम्। १५१

( भुवनविन्यासः )
उखास्थमग्निसंयोगाज्जलंमुद्रिच्यते यथा । तथा महोदधिगतं तोयमुद्रिच्यते ततः ॥ १२९
अन्यूना ह्यतिरिक्ताश्च वर्धन्त्यापो हसन्ति च । उदयास्तमितेश्वेन्दोः पक्षयोः शुक्लकृष्णयोः ॥
क्षयवृद्धिंरवमुदधेः सोमवृद्धिक्षयात्पुनः ॥ १३०
दशोत्तराणि पञ्चैव अङ्गुलीनां शतानि तु । अपां वृद्धिः क्षयो दृष्टः समुद्राणां तु पर्वसु ॥ १३१
द्विरापत्वात्स्मृता द्वीपाः सर्वतश्चोदकावृताः । उदकस्याऽऽधानं यस्मात्तस्मादुधिरुच्यते ॥
अपर्वाणस्तु गिरयः पर्वाभिः पर्वताः स्मृताः । प्लक्षद्वीपे तु गोमेदः पर्वतस्तेन चोच्यते ॥ १३२
शाल्मलिः शाल्मलद्वीपे पूज्यते च महाद्रुमः । कुशद्वीपे कुशस्तम्बस्तस्य नाम्ना स उच्यते ॥ १३३
क्रौञ्चद्वीपे गिरिः क्रौञ्चो मध्ये जनपदस्य ह । शाकद्वीपे द्रुमः शाकस्तस्य नाम्ना स उच्यते ॥ १३४
न्यग्रोधः पुष्करद्वीपे तत्र तैः स नमस्कृतः । महादेवः पूज्यते तु ब्रह्मा त्रिभुवनेश्वरः ॥ १३५
तस्मिन्निवसति ब्रह्मा साध्यैः सार्धं प्रजापतिः । उपासते तत्र देवास्त्रयस्त्रिंशन्महर्षिभिः ॥
स तत्र पूज्यते चैव देवैर्देवोत्तमोत्तमः ॥ १३६
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधानि च । द्वीपेषु तेषु सर्वेषु प्रजानां हि क्रमात्त्विह ॥ १३७
सर्वशो ब्रह्मचर्येण सत्येन च दमेन च । आरोग्यायुः प्रमाणाद्धि द्विगुणं च समन्ततः ॥ १३८
एतस्मिन्पुष्करद्वीपे यदुक्तं वर्षकद्वयम् । गोपायति प्रजास्तत्र स्वयं सज्जनमण्डिताः ॥ १३९
ईश्वरो दण्डमुद्यम्य ब्रह्मा त्रिभुवनेश्वरः । सविष्णुः सशिवो देवः स पिता स पितामहः ॥ १४०
भोजनं चाप्रयत्नेन तत्र स्वयमुपस्थितम् । षड्रसं सुमहावीर्यं भुञ्जते च प्रजाः सदा ॥ १४१
परेण पुष्करस्याथ आवृत्त्यायः(यं) स्थितो महान् । स्वादूदकः समुद्रस्तु समन्तात्परिवेष्टितः ॥ १४२
परेण तस्य महती दृश्यते लोकसंस्थितिः । काञ्चनी द्विगुणा भूमिः सर्वा चैकशिलोपमा ॥ १४३
तस्मात्परेण शैलस्तु मर्यादान्ते तु मण्डलम् । प्रकाशाश्चाप्रकाशश्च लोकालोकः स उच्यते ॥ १४४
आलोकस्तस्य चार्वाक्तु निरालोकस्ततः परम् । योजनानां सहस्राणि दश तस्योच्च्छ्रयः स्मृतः ॥ १४५
तावांश्च विस्तस्तस्य पृथिव्यां कामगश्च सः । आलोके लोकशब्दस्तु निरालोके सलोकता ॥
लोकार्थं समतो लोको निरालोकस्तु बाह्यतः ॥ १४६
लोकविस्तारमात्रं तु आलोकः सर्वतो बहिः । परिच्छिन्नः समन्ताच्च उदकेनाऽऽवृतश्च सः ॥
निरालोकात्परश्चापि अण्डमावृत्य तिष्ठति ॥ १४७
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी । भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्तथा ॥ १४८
जनस्तपस्तथा सत्य एतावांलोकसंग्रहः । एतावानेव विज्ञेयो लोकान्तश्चैव तत्परः ॥ १४९
कुम्भस्थायी भवेद्याद्वक्प्रतीच्यां दिशि चन्द्रमाः । आदितः शुक्लपक्षस्य वपुरण्डस्य तद्विधम् ॥ १५०
अण्डानामहिशानां तु कोट्यो ज्ञेयाः सहस्रशः । तिर्यगूर्ध्वमधस्ताच्च कारणस्याव्ययात्मनः ॥
कारणैः प्राकृतैस्तत्र ह्यावृतं प्रतिसप्तभिः ॥ १५१
दशाधिक्येन चान्योन्यं धारयन्ति परस्परम् । परस्परावृताः सर्वे उत्पन्नाश्च परस्परात् ॥ १५२
अण्डस्यास्य समन्तात्तु संनिविष्टो घनोदधिः । समन्ताद्येन तोयेन धार्यमाणः स तिष्ठति ॥ १५३