सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

इक्ष्वाकुरेव दायादानन्यान्दश समाप्नुयात् । कन्याभावात्तु सुद्युम्नो नैनं भागमवाप्नुयात् ॥

[अ०८५-८६श्लो०१९-२८।१-९] वायुपुराणम्। ३१)
( वैवस्वतमनुवंशगान्धर्वमूर्छनाकथनम् )

उत्कलश्च गयश्चैव विनताश्वस्तथैव च । उत्कलस्योत्कलं राष्ट्रं विनताश्वस्य पश्चिमम् ॥ १९
दिक्ष्ववातस्य राजर्षेर्गयस्य तु गया पुरी ॥ २०
प्रविसृष्टे मनौ तस्मिन्प्रजाः सृष्ट्वा दिवाकरः । दशधा तद्धराक्षेत्रमकरोत्पृथिवीमिमाम् ॥ २१
इक्ष्वाकुरेव दायादानन्यान्दश समाप्नुयात् । कन्याभावात्तु सुद्युम्नो नैनं भागमवाप्नुयात् ॥
वशिष्ठवचनाच्चाऽऽसीत्प्रतिष्ठा नो महाद्युतिः । प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य महात्मनः ॥ २२
तत्पुरूरवसे प्रादाद्राष्ट्रं प्राप्य महायशाः । मानवेभ्यो महाभागा स्त्रीपुंसोर्लक्षणं प्रति ॥
मानवः स तु सुद्युम्नः स्त्रीभावमगमत्पुनः ॥ २३
एतच्छ्रुत्वा तु ऋषयः पप्रच्छुस्तदनन्तरम् । मानवः स तु सुद्युम्नः स्त्रीभावमगमत्कथम् ॥ २४

सूत उवाच--
प्रोवाच वचनं देवी प्रियहेतोः प्रियं प्रिया । समे ममाऽऽश्रमे देव यः पुमान्संप्रवेक्ष्यति ॥
भविष्यति ध्रुवं नारी सा तुल्याप्सरसां शुभा ॥ २५
तत्र सर्वाणि भूतानि पिशाचाः पशवश्च ये । स्त्रीभूताः सह रुद्रेण क्रीडन्त्यप्सरसो यथा ॥ २६
उमावनं प्रविष्टस्तु स राजा मृगयां गतः । पिशाचैः सह भूतैस्तु रुद्रैः स्त्रीभावमास्थिते ॥ २७
तस्मात्स राजा सुद्युम्नः स्त्रीभावं लब्धवान्पुनः । महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् ॥ २८

इति महापुराणे वायुप्रोक्ते वैवस्वतमनो सृष्टिकथनं नाम पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥
आदितः श्लोकानां समष्ट्यङ्काः--७०६५


अथ षडशीतितमोऽध्यायः ।

तत्र वैवस्वतमनुवंशगान्धर्वमूर्छनाकथनम् ।

सूत उवाच--
निसर्गं मनुपुत्राणां विस्तरेण निबोधत । पृषध्रो हिंसयित्वा तु गुरो*र्गावमभक्षयत् ॥ १
शापाच्छूद्रत्वमापन्नश्च्यवनस्य महात्मनः । करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ २
सहस्रक्षत्रियगणावरिक्रान्तः संबभूव ह । नाभागोऽरिष्टपुत्रस्तु विद्वानासीद्भालन्दनः ॥ ३
भालन्दनस्य पुत्रोऽभूत्प्रांशुर्नाम महाबलः । प्रांशोरेकोऽभवत्पुत्रः प्रजानेरिति विश्रुतः ॥ ४
प्रजानेरभवत्पुत्रः खनित्रो नाम वीर्यवान् । तस्य पुत्रोऽभवच्छ्रीमान्क्षुपो नाम महायशाः ॥ ५
क्षुपस्य विंशः पुत्रस्तु प्रतिमानं बभूव ह । विंशपुत्रस्तु कल्याणो विविंशो नाम धार्मिकः ॥ ६
विविंशपुत्रो धर्मात्मा खानिनेत्रः प्रतापवान् । करन्धमस्तस्यपुत्रस्त्रेतायुगमुखेऽभवत् ॥ ७
करन्धसुतश्चापि आविक्षिन्नाम वीर्यवान् । आविक्षितो व्यतिक्रामात्पितरं गुणवत्तया ॥ ८
मरुत्तो नाम धर्मात्मा चक्रवर्तिसमो नृपः । संवर्तेन दिवं नीतः ससुहृत्सह बान्धवैः ॥ ९


* अत्राऽऽर्षत्वादाकारैकादेशाभावः ।

३१२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८६श्लो०१०-३५]

( वैवस्वतमन्वंशानुगान्धर्वमूर्च्छनाकथनम् )

विवादोऽत्र महानासीत्संवर्तस्य बृहस्पतेः । ऋद्धिं दृष्ट्वा तु यज्ञस्य क्रुद्धस्तस्य बृहस्पतिः ॥ १०
संवर्तेन हते यज्ञे चुकोप सुभृशं तदा । लोकानां स हि नाशाय दैवतैर्हि प्रसादितः ॥ ११
मनूत्तश्चक्रवर्ती स नरिष्यन्तमवाप्तवान् । नरिष्यन्तस्य दायादो राजा दण्डधरो दमः ॥ १२
तस्य पुत्रस्तु विक्रान्तो राजाऽऽसीद्राष्ट्रवर्धनः । सुधृती तस्य पुत्रस्तु नरः सुधृतिनः सुतः ॥ १३
केवलस्तस्य पुत्रस्तु बन्धुमान्केवलात्मजः । अथ बन्धुमतः पुत्रो धर्मात्मा वेगवान्नृपः ॥ १४
बुधो वेगवतः पुत्रस्तृणबिन्दुर्वुधात्मजः । त्रेतायुगमुखे राजा तृतीये संबभूव ह ॥ १५
कन्या तु तस्य द्रविडा माता विश्ववसो हि सा । पुत्रश्चास्य विशालोऽभूद्राजा परमधार्मिकः ॥ १६
विशालात्स्य समुत्पन्ना विशाला येन निर्मिता । विशालस्य सुतो राजा हेमचन्द्रो महाबलः ॥ १७
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरम् । सुचन्द्रतनयो राजा धूम्राश्व इति विश्रुतः ॥ १८
धूम्राश्वतनयो विद्वान्सृञ्जयः समपद्यत । सृञ्जयस्य सुतः श्रीमान्सहदेवः प्रतापवान् ॥ १९
कृशाश्वः सहदेवस्य पुत्रः परमाधार्मिकः । कृशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ॥ २०
सोमदत्तस्य राजर्षेः सुतोऽभूज्जनमेजयः । जनमेजयात्मजश्चैव प्रमतिर्नाम विश्रुतः ॥ २१
तृणबिन्दुप्रसादेन सर्वे वैशालका नृपाः । दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥ २२
शर्यातेर्मिथुनं त्वासीदानार्तो नाम विश्रुतः । पुत्रः सुकन्या कन्या च भार्या या च्यवनस्य तु ॥ २३
आनर्तस्य तु दायादो रेवो नाम्ना तु वीर्यवान् । अनार्तो विषयो यस्य पुरी चापि कुशस्थली ॥
रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः । ज्येष्ठो भ्रातृशतस्याऽऽसीद्राजा प्राप्य कुशस्थलीम् ॥
कन्यया सह श्रुत्वा च गान्धर्वं ब्रह्मणोऽन्तिके । मुहूर्तं देवदेवस्य मर्त्यं बहुयुगं विभोः ॥ २६
आजगाम युवा चैव स्वां पुरीं यादवैर्वृताम् । कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ॥ २७
भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः । तां कथां रैवतः श्रुत्वा यथातत्त्वमरिंदमः ॥* २८
+ कन्यां तु बलदेवाय सुव्रतां नाम रेवतीम् । दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ॥ २९
रेमे रामश्च धर्मात्मा रेवत्या सहितः किल । तां कथामृषयः श्रुत्वा पप्रच्छुस्तदनन्तरम् ॥ ३०

ऋषय ऊचुः--
कथं बहुयुगे काले व्यतीते सूतनन्दन । न जरां रेवती प्राप्ता पलितं च कुतः प्रभो ॥ ३१
मेरुं गतस्य वा तस्य शर्यातेः संततिः कथम् । स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः ॥ ३२
कियन्तो वा सुरगणा गन्धर्वास्तत्र कीदृशाः । यच्छ्रुत्वा रैवतः कालान्मुहूर्तमिव मन्यते ॥ ३३

सूत उवाच--
न जरा क्षुत्पिपासा वा न च मृत्युभयं ततः । न च रोगः प्रभवति ब्रह्मलोकगतस्य हि ॥ ३४
गान्धर्वं प्रति यच्चापि पृष्टस्तु मुनिसत्तमाः । ततोऽहं संप्रवक्ष्यामि याथातथ्येन सुव्रताः ॥ ३५


* अत्रैवाध्यायसमाप्तिः ख. घ. पुस्तकयोः । + कन्यां तु बलदेवाय इत्यारभ्य सप्ताशीतितमाध्यायस्यसप्तसप्तस्वरं तु य इत्यन्तग्रन्थः ख. घ. पुस्तकयोर्नास्ति ।

[ अ०८६श्लो० ३६-५८]
वायुपुराणम् ।
३१३

(वैवस्वतमनुवंशगान्धर्वमूर्च्छनालक्षणकथनम्)

सूत उवाच—

सप्त स्वरास्त्रयो ग्रामा मूर्च्छनास्त्वेकविंशतिः । तालाश्चैकोनपञ्चाशदित्येतत्स्वरमण्डलम् ॥ ३६
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा । धैवतश्चापि विज्ञेयस्तथा चापि निषादवान् ॥ ३७
सौवीरी माध्यमग्रामो हरिणास्या तथैव च । स्यात्कलोपबलोपेता चतुर्थी शुद्धमध्यमाः ॥ ३८
शार्ङ्गी च पावनी चैव दृष्टाका च प्रथाक्रमम् । मध्यमग्रामिकाः ख्याताः षड्जग्रामं निबोधत ॥ ३९
उत्तरमन्द्रा जननी तथा या चोत्तरायता । शुद्धषड्जा सथा चैव जानीयात्सप्तमीं च ताम् ॥ ४०
गांधारग्रामिकांश्चान्यानिकीर्त्यमानान्निबोधत । अग्निष्टोमिकमाद्यं तु द्वितीयं वाजपेयिकम् ॥ ४१
तृतीयं पौण्ड्रकं प्रोक्तं चतुर्थं चाऽश्वमेधिकम् । पञ्चमं राजसूयं च षष्ठं चक्रसुवर्णकम् ॥ ४२
सप्तमं गोसवं नाम महावृष्टिकमष्टमम् । ब्रह्मदानं च नवमं प्राजापत्यमनन्तरम् ॥ ४३
नागपक्षाश्रयं विद्याद्रोत्तरं च तथैव च । हयक्रान्तं मृगक्रान्तं विष्णुकान्तं मनोहरम् ॥ ४४
सूर्यक्रान्तं वरेण्यं च मत्तकोकिलवादिनम् । सावित्रमर्धसावित्रं सर्वतोभद्रमेव च ॥ ४५
सुवर्णं च सुतन्द्रं च विष्णुं वैष्णवरावभौ । सागरं विजयं चैव सर्वभूतमनोहरम् ॥ ४६
हंसं ज्येष्ठं विजानीमस्तुम्बुरुप्रियमैव च । मनोहरमधात्र्यं च गन्धर्वानुगतश्च यः ॥ ४७
अलम्बुषेष्ठश्च तथा नारदप्रियं एव च । कथितो भीमसेनेन नागराणां यथा प्रियः ॥ ४८
विकलोपनीतावनिसा श्रीराखवो भार्गवप्रियः । * अभिरम्यश्च शुक्रश्च पुण्यः पुण्यारकः स्मृतः ॥
विंशतिर्मध्यग्रामः षड्जग्रामश्चतुर्दश ॥ ४९
तथा पञ्चदशेऽच्छन्ति गान्धारग्रामसंस्थितान् । ससौवीरा तु गान्धारी ब्रह्मणा ह्युपगीयते ॥ ५०
उत्तरादिस्वरस्यैव ब्रह्मा वै देवताऽत्र च । हरिदेशसमुत्पन्ना हरिणास्या व्यजायत ॥
मूर्छना हरिणास्यैव अस्या इन्द्रोऽधिदैवतम् ॥ ५१
करोपनीतवितता मरुद्भिः स्वरमण्डले । सा कलोपनता तस्मान्मारुतश्चात्र दैवतम् ॥ ५२
मरुद्देशसमुत्पन्ना मूर्छना शुद्धमध्यमा । मध्यमोऽत्र स्वरः शुद्धो गन्धर्वश्चात्र देवता ॥ ५३
मृगैः सह संचरते सिद्धानां मार्गदर्शने । यस्मात्तस्मात्स्मृता मार्गी मृगेन्द्रोऽस्याश्च देवता ॥ ५४
सा चा ऽऽश्रमसमायुक्ता अनेकान्यौरवान्भवान् । मूर्छना योजना ह्येषा रजसा रजनी ततः ॥
ताल उत्तरमन्द्रांशः षड्जदैवतकां विदुः । तस्मादुत्तरतालं च प्रथमं स्वायतं विदुः ॥
तस्मादुत्तरमन्द्रोऽयं देवताऽस्य ध्रुवो ध्रुवम् ॥ ५६
आयामादुत्तरत्वाच्च धैवतस्योत्तरायणः । स्यादियं मूर्छना ह्येवं पितरः श्राद्धदेवताः ॥ ५७
शुद्धषड्जस्वरं कृत्वा यस्मादग्निं महर्षयः । उपतिष्ठन्ति तस्मात्तं जानीयाच्छुद्धषड्जिकम् ॥ ५८


* इदमर्धं नास्ति क पुस्तके ।

४०

३१४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८६-८७श्लो०५९-६९-१-१०]
( गीतालंकारनिर्देशः )

यः सतां मूर्छनां कृत्वा पञ्चमस्वरको भवेत् । यक्षीणां मूर्छना सा तु याक्षिका मूर्छना स्मृता ॥ ५९
नागदृष्टिविषा गीता नोपसर्पन्ति मूर्छनाम् । भवन्तीव हता ह्येते ब्रह्मणा नागदेवसाः ॥ ६०
(*अहीनां मूर्छना ह्येषा वरुणश्चात्र देवता । +जलाधिपेन दृष्टा स्यादप्सु लीला तथैव च ॥ ६१
शकुन्तकानां कृत्वा च उपगायन्ति किंनराः उत्तमा मूर्छना तस्मात्पक्षिराजोऽत्र देवता ॥ ६२
[×मनो भन्दयती तेषां मूर्छना मन्दनीत्यपि । ऋषीणां स्नातकानां च विश्वे देवात्र (स्तु) दैवतम्] ॥
अश्वाक्रमंतकतावा रमन्ते वाऽत्र वाजिनः । अश्वक्रन्तेति नित्या वै अश्विनौ वाऽत्र देवतम् ] ॥ ६४
÷ गान्धाररागशब्देन गां धारयतेऽर्थतः । तस्माद्विशुद्धगान्धारी गन्धर्वश्वाधिदैवतम् ॥ ६५
गान्धारानन्तरं गत्वा सृष्टेयं मूर्छना यतः । तस्मादुत्तरगान्धारी वसवश्चात्र देवताः ॥ ६६
सेयं खलु महाभूता पितामहमुपस्थिता । षड्जेयं मूर्छना तस्मात्स्मृता ह्यनलदेवता ) ॥ ६७
दिव्येयं चाऽप्यृता तेन मन्दषष्ठा च मूर्छने । निवृत्तगुणानामानं पञ्चमं चात्र दैवतम् ॥ ६८
पूर्णा सप्त स्वरा ह्यवं मूर्छनाः संपकीर्तिताः । नानासाधारणाश्चैव षडेवानुविदस्तथा ॥ ६९
इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतमनुवंशगान्धर्वमूर्छनालक्षणकथनं नाम
षडशीतितमोऽध्यायः ॥ ८६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७६७४

अथसप्ताशीतितमोऽध्यायः ।

गीतालंकारनिर्देशः ।

पूर्वाचार्यमतं बुद्ध्वा प्रवक्ष्याम्यनुपूर्वशः । त्रिंशतं वै अलंकारास्तान्मे निगदतः शृणु ॥ १
अलंकारास्तु वक्तव्याः स्वैः स्वैर्वर्णैः प्रहेतवः । संस्थानयोगैश्च तथा पदानां चान्वेवेक्षया ॥ २
वाक्यार्थपदयोगार्थैरलंकारस्य पूरणम् । पदानि गीतकस्याऽऽहुः पुरस्तात्पृष्ठतोऽथवा ॥ ३
स्थानानि त्रीणि जानीयादुरः कण्ठः शिरस्तथा । एतेषु त्रिषु स्थानेषु प्रवृत्तो विधिरुत्तमः ॥ ४
चत्वारः प्रकृतौ वर्णाः प्रविचारश्चतुर्विधः । विकल्पयष्टधा चैव देवाः षोडशधा विदुः ॥ ५
स्थायी वर्णः प्रसंचारी तृतीयमवरोहणम् । आरोहणं चतुर्थं तु वर्णं वर्णविदो बिंदुः ॥ ६
तत्रैकः संचरस्थायी सचरास्तु चरीभवन् । अथ रोहणवर्णानामवरोहं विनिर्देशेत् ॥ ७
आरोहणेन चाऽऽरोहवर्णं वर्णविदा विदुः । एतेषामेव वर्णानामलंकारान्निबोधत ॥ ८
अलंकारास्तु चत्वारः स्थापनी क्रमरेजिनः । प्रमादश्चाप्रमादश्च तेषां वक्ष्यामि लक्षणम् ॥ ९
विस्वरोष्टकलाश्रैव स्थानादेकान्तरं गताः । आवर्तस्याक्रमोत्पत्ती द्वे कार्ये परिणामतः ॥ १०


*धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति । +नास्तीदमर्धं क. पुस्तके । ×धनुश्चिह्नान्तर्गतग्रन्थः क पुस्तके नास्ति ÷ एतदर्धस्थान इदमर्धं गांधारयते शब्देन गांधारंत्यथ वा पुनरिति ङ पुस्तके।

[अ० ८७ श्लो० ११-३३] वायुपुराणम्। ३१५

(गीतालङ्कारनिर्देशः)

कुमारमपरं विद्याद्विस्तरं वमनं गतम् । एष वै चाप्यपाङ्गस्तु कुतारकः कलाधिकः ॥ ११
श्येनस्त्वेकान्तरे जातः कलामात्रान्तरे स्थितः । तस्मिंश्चैव स्वरे वृद्धिस्तिष्ठते तद्विलक्षणा ॥ १२
श्येनस्तु अपरोहस्तु उत्तरः परिकीर्तितः । कलाकलप्रमाणाच्च सबिन्दुनीम जायते ॥ १३
बिन्दुरेककला कार्या वर्णान्तस्थायिनी भवेत् । विपर्ययस्वरोऽपि स्याद्यस्य दुर्घटितोऽपि न ॥
एकान्तरा तु वाद्यं तु षड्जतः परमः स्वरः । आक्षेपास्कन्दनं कार्यं काकस्येवोच्चपुष्कलम् ॥ १५
संतारौ तौ तु संचार्यो कार्यं वा कारणं तथा । आक्षिप्तमवरोहापि मोक्षमद्यस्तथैव च ॥ १६
द्वादशं च कलास्थानमेकान्तरगतं ततः । ( * प्रेङ्खोलितमलंकारमेवं स्वरसमन्वितम् ॥ १७
स्वरसंक्रामकाच्चैव ततः प्रोक्तं तु पुष्कलम् । मक्षिप्तमेव कलया पादानीतरयो भवेत् ॥ ) १८
द्विक्लं वा यथा भूतं यत्तद्घासितमुच्यते । उच्चाराद्विस्वरारूढा तथा चाष्टस्वरान्तरम् ॥ १९
यस्तु स्यादवरोहो वा तारतो मन्द्रतोऽपि वा । एकान्तरहिता ह्येते तमेव स्वरमन्ततः ॥ २०
मक्षिप्तच्छेदनों नाम चतुष्कलगण स्मृतः । अलंकारा भवन्त्येते त्रिंशद्ये वै प्रकीर्तिताः ॥
वर्णस्थानप्रयोगेण कलामात्राप्रमाणतः ॥ २१
संस्थानं च प्रमाणं च विकारी लक्षणं तथा । चतुर्विधमिदं ज्ञेयमलंकारप्रयोजनम् ॥ २२
यथाऽऽत्मनो ह्यलंकारो विपर्यस्तोऽतिगर्हितः । वर्णमेवाप्यलं कर्तुं विषमं ह्यात्मसंभवात् ॥ २३
नानाभरणसंयोगाद्यथा नार्या विभूषणम् । वर्णस्य चैवालंकारो विपर्यस्तोऽतिगर्हितः ॥ २४
न पादे कुण्डले दृष्टे न कण्ठे रसना तथा । एवमेव ह्यलंकारो विपर्यस्सो विगर्हितः ॥ २५
क्रियमाणोऽप्यलंकारो रागं यश्चैव दर्शयेत् । यथोद्दिष्टस्य मार्गस्य कर्तव्यस्य विधीयते ॥ २६
लक्षणं पर्यवस्यापि वर्णिकाभिः प्रवर्तनम् । याताथ्येन वक्ष्यामि मासोद्भवमुखोद्भवै ॥ २७
त्रवोविंशत्यशीतिस्तु तेषामेतद्विपर्ययः । षड्जपक्षोऽपि तत्त्वादौ मध्यौ हीनस्वरो भवेत् ॥ २८
षड्जमध्यमयोश्चैव ग्रामयोः पर्ययस्तया । मानो योत्तरमन्दस्य षडेवात्राविकस्य च ॥ २९
स्वरालंप्रत्ययश्चैव सर्वेषां प्रत्ययः स्मृतः । अनुगम्य वहिर्गीतं विज्ञातं पञ्चदैवतम् ॥ ३०
गोरूपाणां पुरस्तात्तु मध्यमांशस्तु पर्ययः । तयोर्विभागो गीतानां लावण्यमार्गसंस्थितः ॥ ३१
अनुषङ्गं मयोद्दिष्टं स्वसारं च स्वरान्सरम् । पर्ययः संप्रवर्तेत सप्तस्वरपदक्रमम् ॥ ३२
गान्धारांशेन गीयन्ते चत्वारि मद्रकानि च । पञ्चमो मध्यमश्चैव धैवते तु निषादजैः ॥
षड्जर्षभैश्च जानीमो भद्रकेष्वेव नान्तरे ॥ ३३


* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।

३१६ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०८७-८८श्लो०३४-४६।१-५]
(वैवस्वतमन्वंशवर्णनम्)

द्वे चापरान्तिके विद्याद्यङ्गुष्ठाष्टकस्य तु । प्राकृते वैणवैश्चैव गान्धारांशे प्रयुज्यते ॥ ३४
पदस्य तु त्रयं रूपं सप्तरूपं तु कैशिकम् । गान्धारांशेन कार्त्स्न्येन पर्ययस्य विधिः स्मृतः ॥
एवं चैव क्रमोद्दिष्टो मध्यमांशस्य मध्यमः ॥ ३५
यानि गीतानि प्रोक्तानि रूपेण तु विशेषतः । तन्तु सप्तस्वरं कार्यं सप्तरूपं च कैशिकम् ॥ ३६
अङ्गुदर्शनामित्याहुर्माने द्वे समके तथा । द्वितीयभावाचरणा मात्रा नाभिमतिष्ठिता ॥ ३७
उत्तरे च प्रकृत्येवं मात्रा तल्लीयते तथा । हन्तारः पिण्डको यत्र मात्रायां नातिवर्तते ॥ ३८
पादेनैकेन मात्रायां पादोनामधिवीरणा । संख्यायाश्चोपहेननं तत्र यानमिति स्मृतम् ॥ ३९
द्वितीयं पादभङ्ग च ग्रहेणाभिप्रतिष्ठितम् । पूर्वमष्टतृतीये तु द्वितीयं चापरीतिके ॥ ४०
अर्धेन पादसाम्यस्य पादभागाच्च पञ्चके । पादभागं सपादे तु प्रकृत्यामपि संस्थितम् ॥ ४१
चतुर्थमुत्तरे चैव मद्रवत्या च मद्रके । मद्रके दक्षिणास्यापि यथोक्ता वर्तते कला ॥ ४२
पूर्वमेवानुयोगं तु द्वितीया बुद्धिरिष्यते । पादौ चाऽऽहरणं चास्मत्पारं नात्र विधीविते ॥ ४३
एकत्वमुपयोगस्य द्वयोर्यद्धि द्विजोत्तम । अनेकसमवायस्तु पताकाहरिणं स्मृतम् ॥ ४४
तिसृणां चैव वृत्तीनां वृत्तौ वृत्ता च दक्षिणा । अष्टौ सु समवायास्ते सौवेरी मूर्छना तथा ॥
कुशत्यनुत्तरः सत्यं सप्तसत्त्वस्वरं तु यः । * चित्रशाखासुतं तस्य धार्मिकस्य महात्मनः ॥ ४६

इति श्रीमहापुराणे वायुप्रोक्ते गीतालंकारनिर्देशो नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥

आदितः श्लोकानां समष्ट्यङ्काः—७७२०


अथाष्टाशीतितमोऽध्यायः ।

वैवस्वतमन्वंशवर्णनम् ।

सूत उवाच—

ककुद्मिनस्तु तं लोकं रैवतस्य गतस्य ह । हता पुण्यजनैः सर्वा राक्षसैः सा कुशस्थली ॥ १
तद्वै भ्रातृशतं तस्य धार्मिकस्य महात्मनः । निबध्यमाना रक्षोभिर्दिशः संपाद्रवन्भयात् ॥ २
तेषां तु ते भयाक्रान्ताः क्षत्रियास्तत्र तत्र हि । अन्ववायस्तु सुमहान्महांस्तत्र द्विजोत्तमाः ॥ ३
प्रयता इतिविख्याता दिक्षु सर्वासु धार्मिकाः । धृष्टस्य धार्ष्टकं क्षत्रं रणधृष्टं बभूव ह ॥ ४
त्रिसाहस्रं तु सगशं क्षत्रियाणां महात्मनाम् । नभगस्य च दायादो नाभागो नाम वीर्यवान् ॥ ५


* इदमर्धं नास्ति क. पुस्तके । अस्यार्धस्य न पूर्वापरसंगतिः ।