सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

२ श्रीतन्त्रालोकः ।
देहे विमुक्त एवास्मि श्रीमत्कल्याणवारिधेः ।
यस्य कारुण्यविप्रुड्भिः सद्गुरुं तं हृदि श्रये ॥२॥
मूर्न्युत्तंस इव क्ष्मापैः सर्वैर्यस्यानुशासनम् ।
हृदये भवसंभारकर्कशेऽप्याशु शिश्रिये ॥३॥
न ग्रन्थकारपदमाप्तुमथास्म्यपूर्वं
वाक्कौशलं च न निदर्शयितुं प्रवृत्तः ।
किं त्वेतदर्थपरिशीलनतो विकल्पः
संस्कारवांश्च समियादिति वाञ्छितं नः ॥४॥
पं० १ ग० पु० एवास्मि यत्प्रसत्तीक्षणेक्षणात् ।
श्रीमत्कल्याणराजानं वन्दे तं जनकं गुरुम् ॥
इति पाठः ।
पं० २ ख० पु० श्रिये इति पाठः । एतच्छ्लोकानन्तरं ग० पु० श्लोकद्वयमाधिक्येन
दृश्यते यथा
शिवशासनागमरहस्यकोविदै-
र्गुरुभिर्गभीरहृदयैर्दयोदयैः ।
करुणारुणा विदधिरे दृशस्तथा
मयि दीनबन्धुभिरमोघभाषितैः ॥
यथा रहस्यसर्वस्वं मानसे मे शिवोदितम् ।
भाववासनया स्थानं कर्कशेऽप्याशु शिश्रिये ॥ युग्मम्
इति ।
पं० ३ क० पु० मूर्निं तंस इव, ख० पु० उत्तंसमिवेति नपुंसकनिर्दिष्टः पाठः ।
पं० ५ ग० माप्तुमनासपूर्वमिति पाठः ।
पं० ६ ग० पु० स्वं कौशलं प्रथयितुं विबुधाः प्रवृत्ता, इति पाठः ।
पं० ८ ग० पु० वाञ्छितं मे इति पाठः ।

श्लो० १ ] प्रथमाह्निकम् । ३
यातायाताः स्थिताः केचिदज्ञा मत्सरिणः परे ।
संदिग्धाः केऽपि किं ब्रूयां श्रोतारो यदनागताः ॥५॥
तदनाकर्ण्य गूढार्थं स्वादु स्वाशयकौशलम् ।
साकूतमुक्तमन्यैर्यत्तेन दोलायते मनः ॥६॥
अत्र मद्भागशक्तापि यन्निर्यन्त्रणमुल्लसेत् ।
तत्पारमेश्वरं श्रीमन्महानन्दविजृम्भितम् ॥७॥
इह खलु शास्त्रादावलौकिकाशीर्वादमुखेन वक्ष्य-
माणषडर्धशास्त्रार्थगर्भीकारेण समुचितेष्टदेवतां शास्त्र-
कारः परामृशति
विमलकलाश्रयाभिनवसृष्टिमहा जननी
भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः ।
तदुभययामलस्फुरितभावविसर्गमयं
हृदयमनुत्तरामृतकुलं मम संस्फुरतात्
॥१॥
पं० २ ख० पु० ब्रूयादिति पाठः ।

४ श्रीतन्त्रालोकः ।
'मम' आत्मनो 'हृदयं' जगदानन्दादिशब्दवाच्यं
तथ्यं वस्तु, सम्यक् देहप्राणादिप्रमातृतासंस्कारन्य-
क्कारपुरःसरसमावेशदशोल्लासेन दिक्कालाद्यक-
लिततया 'स्फुरतात्' कालत्रयावच्छेदशून्यत्वेन
विकसतात्-इत्यर्थः । तच्च कीदृक् ?-इत्युक्तं 'तदुभय'
इति । 'तत्' आद्यार्धव्याख्यास्यमानं च तत् 'उभयं'
तस्य 'यामलं'
' तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः ।'
इति वक्ष्यमाणनीत्या शक्तिशक्तिमत्सामरस्यात्मा
संघट्टः, ततः 'स्फुरितभावः' परानपेक्षत्वेन स्वत
एवोल्लसितसत्ताको योऽसौ
'अत एव विसर्गोऽयमव्यक्तह-कलात्मकः ।'
१ षण्णामानन्दभूमीनां य एकोऽनुसंधाता उदयास्तमयविहीनोऽन्तर्विश्रान्तिपर-
मार्थरूपो जगदानन्दः । वक्ष्यति च ग्रन्थकार एव उत्तरत्र
यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ।
यदनाहतसंवित्तिपरमामृतबृंहितम् ॥
यत्रास्ति भावनादीनां न मुख्या कापि संगतिः ।
तदेतज्जगदानन्दमस्मभ्यं शंभुरुचिवान् ॥
इति ।
पं० ६ ग० पु० सामरस्यरूपः इति पाठः ।

श्लो० १ ] प्रथमाह्निकम् । ५
इत्युक्त्या कुलाकुलोभयच्छटात्मकहकारार्धार्धरूपो
‘विसर्गो’ बहिरुल्लिलसिषास्वभावः स प्रकृतिर्यस्य
तत्; अत एवाह ‘अनुत्तरामृतकुलम्’ इति । ‘अनुत्तरं’
कतिपयकालदार्ढ्यकार्यमृतान्तरवैलक्षण्यात् उत्कृष्टं
च तत्
‘यत्रास्ति न भयं किंचिन्न जरा व्याधयोऽपि वा ।
न विघ्ना न च वै मृत्युर्न कालः कलयेच्च तम् ॥’
इत्यकालकलितत्वात् अविद्यमानं मृतं यत्र तत् ‘कुलं’
शरीरं यस्य तत् अमाख्यकलास्वरूपम्—इत्यर्थः ।
तदुक्तम्
‘कला सप्तदशी यासावमृताकाररूपिणी ।’
इति । किं च तदुभयम् ?—इत्याह ‘जननी जनकश्च’
इति । कीदृशी जननी ? ‘विमलकलाश्रया’ इति ।
विगता ‘मला’ अवच्छेदका यस्यास्तादृशी या ‘कला’
परविमर्शैकस्वभावकर्तृतालक्षणा, सा ‘आश्रय’ आल-
म्बनं स्वरूपं यस्याः सा शुद्धस्वातन्त्र्यशक्ति-
रूपा—इत्यर्थः ।
पं० १ क० पु० हकारार्धरूप इति पाठः ।
पं० २ क० पु० यत्र तत् इति पाठः ।

६ श्रीतन्त्रालोकः ।
अत एव 'अभिनवायाम्' आद्यायां 'सृष्टौ' शुद्धा-
ध्वमार्गे
'शुद्धेऽध्वनि शिवः कर्ता................।'
इति नीत्या शिवस्यैव तत्र साक्षात्कारित्वात् 'महः'
पारिपूर्ण्यलक्षणं तेजःस्फारो यस्याः सा-इत्युक्तम् ।
इहाद्वयनये हि भगवानेव स्वस्वातन्त्र्यमाहात्म्यात्
आभासमात्रसारतया स्वाव्यतिरिक्तमपि व्यति-
रिक्तत्वेनेवजगत् आभासयति,-इत्यनन्यापेक्षिणः
स्वातन्त्र्यस्यैव जगद्वैचित्र्यनिमित्तत्वमुक्तम्, अविद्या-
वासनादीनां भेदाभेदविकल्पोपहतत्वात् जगद्वैचित्र्य-
निमित्तत्वाभिधानानुपपत्तेः; अत एव भगवतश्चिदा-
द्यनन्तशक्तिसंभवेऽपि तत्स्फुरणमात्रत्वात् तासां
तस्या एव प्राधान्यात् इहाभिधानम् । यद्वक्ष्यति
'तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ।'
इति । जनकश्च कीदृक् ?-इत्युक्तं 'भरिततनुः'
इति । 'भरिता' सर्वाकाङ्क्षासंक्षयात् पारिपूर्ण्येन

श्लो० १ ] प्रथमाह्निकम् । ७
पूरिता 'तनुः' स्वभावो यस्य सः, अनन्योन्मुखतया
स्वतन्त्रः-इति यावत् । अत एव 'पञ्चभिः' चिदानन्दे-
च्छाज्ञानक्रियात्मभिः 'मुखैः'
'...................शैवी मुखमिहोच्यते ।'
इत्युक्त्या शक्तिभिः 'गुप्ता' परिपूरिता प्रबन्धेना-
नुवर्तमाना 'रुचिः' अभिलाषो विशेषानुपादानात्
कृत्यपञ्चकविषयो यस्यासौ, सदैव पञ्चविधकृत्यकारी-
इत्यर्थः । तदुक्तम्
'सृष्टिसंहारकर्तारं विलयस्थितिकारकम् ।
अनुग्रहकरं देवं प्रणतार्तिविनाशनम् ॥'
इति । तदेवम् अत्र विसर्गप्रसरस्वभावत्वेन जग-
द्वैचित्र्यबीजभूतं शिवशक्तिसंघट्टात्मकपरत्रिकशब्द-
वाच्यम् अनाख्यात्मकं विघ्नौघप्रध्वंसाय परामृष्टम् ।
तदुक्तम्
'तत्रापि शक्त्या सहितः स्वात्ममय्या महेश्वरः ।
यदा संघट्टमासाद्य समापत्तिं परां व्रजेत् ॥
पं० ७ क० पु० पञ्चकविशेष इति पाठः ।
पं० १५ क० पु० तत्रापि मर्त्यैरहितः स्वात्मशक्त्या महेश्वरः इति, ख० पु० तत्रापि
शक्त्या रहितः इति मौलिकः पाठः प्रथमोपन्यस्त आसीत् इति संदृश्यते ।

८ श्रीतन्त्रालोकः।
तदास्य परमं वक्त्रं विसर्गप्रसरास्पदम् ।
अनुत्तरविकासोद्यज्जगदानन्दसुन्दरम् ॥
भाविवक्त्राविभागेन बीजं सर्वस्य संस्थितम् ।
हृत्स्पन्दोद्यत्परासारनिर्मामोर्म्यादि तन्मतम् ॥
एतत्परं त्रिकं सूक्ष्मं सर्वशक्त्यविभागवत् ।'
इति ।
अथ च 'हृदयं'
'हृदयं शक्तिसूत्रं तु ............।'
इत्याद्युक्त्या श्रीसृष्टिकात्याद्यखिलशक्तिचक्रासूत्र-
णेन प्रस्फुरद्रूपं श्रीकालसंकर्षणीधाम 'संस्फु-
रतात्' तादात्म्येनैकः स्याम्—इत्यर्थः।तच्च कीदृशम्?—
इत्युक्तम् 'अनुत्तरामृतकुलम्' इति । सृष्ट्यादीनाम-
त्रैव लयाद् अविद्यमानम् उत्तरम् अन्यत् यस्मात् अत
एव 'अमृतं' स्वात्मचमत्कारमात्रपरमार्थम्, अत एव
च 'कुलं'
पं० २ ख० पु० अनुत्तरविकासांशुजगदिति पाठः ।
पं० ३ ख० पु० वक्रादिभागेनेति पाठः ।
पं० ४ ख० पु० हृत्स्पन्दो दृक्परासारमूर्तिर्निर्मामतन्मयम्, इति पाठः ।
पं० ६ ख० पु० सृष्टिकालाद्यखिलशक्तिचक्रासूत्रेणेति पाठः ।
पं० ११ ख० पु० तदैकात्म्येन एक इति पाठः ।

श्लो० १ ] प्रथमाह्निकम् । ९
‘कुलं पदमनामाख्यं....................।’
इत्यनाख्यरूपम्-इत्यर्थः । अन्यच्च कीदृक् ?—इत्या
ह ‘तदुभय’ इति । तच्च तत् व्याख्यास्यमानं सृष्टिसंहा-
रात्मकम् ‘उभयं’ तस्य ‘यामलं’ लोलीभावः, ततः
‘चक्रद्वयेऽन्तः कचति लोलीभूता परा स्थितिः।’
इति । तथा
‘प्रभवाप्यययोरन्तर्लोलीभावात्क्रमोऽवताराख्यः ।’
इत्यादिनीत्या स्फुरितसत्ताकः स्थित्यात्मा विविधः
सर्गस्तन्मयम् । परैव हि अनाख्या भगवती संवित्
स्वस्वातंत्र्यात् स्वात्मनि सृष्ट्यादि अवभासयति
विलाययति च—इत्यभिप्रायः । यदुक्तम्
‘यस्य नित्योदिता ह्येकाभासा कालक्षयंकरी ।
राजते हृदयाम्भोजविकासिगगनोदरे ॥
सृष्टिस्थित्युपसंहाररूपा तद्धरणे रता ।’
पं० १ ख० पु० कुलाकुलं पदमनामकमिति पाठः ।
पं० २ क० पु० इत्यनामा ख्यरूपमिति पाठः ।
पं० १० ख० पु० विलापयतीति पाठः ।
२

१० श्रीतन्त्रालोकः ।
इति । तच्छब्दपरामृष्टमुभयं व्याचष्टे 'जननी
जनकश्च' इति । जनयति विश्वम्-इति 'जननी' परा
पारमेश्वरी सृष्ट्यादिचक्राद्या, सा च शुद्धबोधमात्र-
स्वभावत्वात् 'विमला' येयम् आदिभूता चान्द्रमसी
'कला' सा 'आश्रयः' आलम्बनं गतिर्यस्याः सा, सक-
लजगदाप्यायकारिपरामृतमयी-इत्यर्थः । तदुक्तम्
'ऊर्ध्वे तु संस्थिता सृष्टिः परमानन्दरूपिणी ।
पीयूषवृष्टिं वर्षन्ती बैन्दवी परमा कला ॥'
इति । तथा
'ऊर्ध्वे स्थिता चन्द्रकला च शान्ता
पूर्णामृतानन्दरसेन देवी ।'
इति । अत एव 'अभिनवायां'
'सदा सृष्टिविनोदाय............।'
इत्यादीनीत्या सदा द्योतमानायां 'सृष्टौ' बहीरूप-
तायां स्वातन्त्र्यलक्षणं 'महः' तेजो यस्याः सा-इत्यु-
क्तम्। जनयति भावसंहारम्-इति 'जनकः' अभिरूपः
पं० ३ ख० पु० पारमेश्वरी सृष्टिचक्रः सा चेति इयानेव पाठः ।
पं० १४ क० पु० सदा द्योतनायामिति, ख० ग० पु० सदातनयामिति पाठः ।

श्लो० १ ] प्रथमाह्निकम् । ११
परः प्रमाता, स च 'पञ्चानां' वामेश्यादिवाहशक्तीनां
'मुखैः' चक्षुरादीन्द्रियवृत्तिरूपैर्द्वारैः
'येन येनाक्षमार्गेण यो योऽर्थः प्रतिभासते ।
स्वावष्टम्भबलाद्योगी तद्गतस्तन्मयो भवेत् ॥'
इत्यादिनीत्या तत्तद्विषयाहरणेन 'गुप्ता' स्वा-
वष्टम्भबलेन परिरक्षिता 'रुचिः' दीप्तिर्यस्यासौ, नि-
खिलभावग्रसिष्णुतया समुद्दीपितपरप्रमातृभावः-
इत्यर्थः । अत एव 'भरिततनुः' तत्तद्भावसंचर्वणेन
निराकाङ्क्षतोत्पादात् स्वात्ममात्रविश्रान्त्या पूर्णः-
इत्यर्थः । तदेवम् अत्र ग्रन्थकृता सृष्ट्यादिक्रमत्रयरूप-
तामवभासयन्त्यपि तदतिवर्तनेन परिस्फुरन्ती क्रमा-
क्रमवपुः परैव अनाख्या पारमेश्वरी संवित् परा-
मृष्टा,-इत्युक्तं स्यात् । यदुक्तमस्मत्परमेष्ठिगुरुभिः
'क्रमत्रयसमाश्रयव्यतिकरेण या संततं
क्रमत्रितयलङ्घनं विदधती विभात्युच्चकैः ।
क्रमैकवपुरक्रमप्रकृतिरेव या द्योतते
करोमि हृदि तामहं भगवतीं परां संविदम् ॥'
पं० १ ख० पु० वामेशादिवाहनशक्तीनामिति पाठः ।
पं० १३ क० पु० अस्मद्गुरुभिरिति पाठः ।

१२ श्रीतन्त्रालोकः ।
इति ।
अथ च 'हृदयं' निजबलसमुद्भूतिलक्षणं तत्त्वं
विशेषानुपादानात् सर्वस्य सम्यक् प्रख्योपाख्यारोहेण
'स्फुरतात्' विकसतात्—इत्यर्थः । तच्च कीदृक् ?
'तदुभयं' इति । तत् आद्यार्धव्याख्यास्यमानं माता-
पितृलक्षणम् 'उभयं' तस्य यत् 'यामलम्' आद्यया-
गाधिरूढं मिथुनं, तस्य परस्परोन्मुख्येन चमत्कार-
तारतम्ययोगात् 'स्फुरितः' सोल्लासो योऽसौ 'भावः'
आशयविशेषः, तेन यो 'विसर्गः' क्षेपः कुण्डगोला-
ख्यद्रव्यविशेषनिःष्यन्दः, स प्रकृतिर्यस्य तत् ; अत
एव च 'अनुत्तरे' श्वेतारुणात्मदेवतामयताद्यनुसंधा-
नेन पशुशुक्रशोणितवैलक्षणयादुत्कृष्टे 'अमृते' सारे
'.............कुलमुत्पत्तिगोचरः।'
इत्युक्त्या 'कुलम्' आकारो यस्य तत् । किं
तदुभयम् ?—इत्याह 'जननी जनकश्च' इति । कीदृशी
पं० २ ख० पु० लक्षणं सतत्त्वमिति पाठः ।
पं० ४ क० ख० पु० तच्च तदाद्यार्धेति 'कीदृक्-तदुभयेति' वाक्यद्वयहीनश्च पाठः ।
पं० ६ क० पु० आश्रयविशेषस्तेन विमलो यो विसर्ग इति, कुण्डगोलकाख्यो द्रव्येति
च पाठः ।
पं० १२ क० पु० वैलक्षण्याद्युत्कृष्टे इति पाठः ।
पं० १३ ख० पु० कुल उत्पत्तिगोचरे इति पाठः ।

श्लो० १ ] प्रथमाह्निकम् । १३
जननी ? 'विमलकलाश्रया' इति । 'विमला' इति
वर्णकला 'आश्रयः' आलम्बनं यस्याः सा, विमल-
कलाभिधाना-इत्यर्थः । तथा 'अभिनवसृष्टिमहा'
इति । 'अभिनवस्य' श्रीमदभिनवगुप्तस्य 'सृष्टिः'
जन्म सैव
'नन्दन्ति पितरस्तस्य नन्दन्ति च पितामहाः ।
अद्य माहेश्वरो जातः सोऽस्मान्संतारयिष्यति ॥'
इत्याद्युक्तेः सत्पुत्रप्रसवेन कृतकृत्यतया चमत्का-
रातिशयकारित्वेन 'महः' उत्सवो यस्याःसा तथा ।
तथा जनकश्च कीदृशः ? 'पञ्चमुखगुप्तरुचिः' । 'पञ्च-
मुखः' सिंहः, सिंहगुप्तेति संज्ञया 'रुचिः' दीप्तिः
सर्वत्र प्रथा यस्यासौ
'तस्यात्मजश्चुखुलकेति जने प्रसिद्ध-
श्चन्द्रावदातधिषणो नरसिंहगुप्तः ।'
पं० २ क० पु० वर्णकलास्वरूप आश्रय इति पाठः ।
पं० ३ क० पु० चमत्कारत्वेनेति इयानेव पाठः ।

१४ श्रीतन्त्रालोकः।
इति वक्ष्यमाणदृशा नरसिंहगुप्तसंज्ञया ख्यातः-
इत्यर्थः । अस्य हि ग्रन्थकृतः श्रीनरसिंहगुप्तविमला-
ख्यौ पितरौ,-इति गुरवः ।
‘सन्ति [न्तो] हि पदेषु पदैकदेशान्प्रयुञ्जानाः ।’
इति नीत्या ‘भीमो भीमसेनः’ इतिवत् अत्रापि नर-
सिंहगुप्तसिंहगुप्तपदयोः प्रयोगः । ‘भरिततनुः’ इति
‘शिवशक्त्यात्मकं रूपं भावयेच्च परस्परम् ।
न कुर्यान्मानवीं बुद्धिं रागमोहादिसंयुताम् ॥
ज्ञानभावनया सर्वं कर्तव्यं साधकोत्तमैः ।’
इत्याद्युक्तनीत्या द्वयोरपि शिवशक्तिसमावेशमयत्वा-
भिधानस्येष्टेः काकाक्षिन्यायेन योज्यम् । तदेवम्
एवंविधसिद्धयोगिनीप्रायपितृमेलकसमुत्थतया
‘तादृङ्मेलककलिका-
कलिततनुर्यो भवेद् गर्भे ।
उक्तः स योगिनीभूः
स्वयमेव ज्ञानभाजनं भक्तः ॥’

श्लो० १ ] प्रथमाह्निकम्। १५
इत्युक्तनीत्या स्वात्मनि निरुत्तरपदाद्वयज्ञानपा-
त्रतामभिदधता ग्रन्थकृता निखिलषडर्धशास्त्रसार-
संग्रहभूतग्रन्थकरणेऽप्यधिकारः कटाक्षीकृतः । अत्र
च संभवन्त्यपि व्याख्यान्तराणि न कृतानि, ग्रन्थ-
गौरवभयात् प्रकृतानुपयोगाच्च । केषांचिदपि व्याख्या-
न्तराणामासमञ्जस्यमतीव संभवदपि न प्रकाशितम् ।
एवं हि
‘........................तस्यै हेतुं २ न चाचरेत् ।’
इति वक्ष्यमाणदृशा स्वात्मनि समयलोपावहं
महात्मनाम् महागुरूणां ३ निन्दाबीजमासूत्रितम्,–
२ हेतुः आक्षेपः ।
३ समयलोपावहम् अचारभ्रष्टतासंपादकम् । महागुरूणां निन्दा-
बीजमिति, इत्थं हि केचिदत्र मन्दधियः समर्थयन्ते,– विमलकला
विगताः सर्वकलङ्कमला यस्यां सा षोडशी कलात्मिका तिथिः, अर्था
दमावास्याख्या, सैव अभिनवसृष्टिः पञ्चदशकलासृष्टिः, तत्र सोद्योगा
तथा भरिततनुश्च । पञ्चमुखगुप्तरुचिरिति, दिनं पञ्चयामकं रात्रि-
स्त्रियामा इत्याश्रित्य पञ्चमुखं दिनं तत्र गुप्तरुचिरीक्षिताभिलाषः
अमावस्यादिनप्रारम्भ इत्यर्थः । निन्दाबीजमिति सविचिकित्सज्योतिष-
शास्त्रदृशा, न तु अनुत्तरदृशा, तत्र अमावस्यादिनप्रारम्भयोरवश्यं रक्ष-
णीयत्वाद्भरमेवैतदिति सहृदया एवात्र प्रमाणम् ॥
पं० ८ ख० पु० तस्यैव हेतुमिति एव पदाधिकः पाठः ।

१६ श्रीतन्त्रालोकः ।
इति भवेत्; को नाम शान्तिकर्मारभमाणो
वेतालोत्थापनं कुर्यात्, इह चास्माभिस्तद्व्याख्यासा-
रोच्चयनस्यैव प्रतिज्ञातत्वात् तदेव क्रियते,-इति तदि-
तरत्स्वयमेवसर्वत्रासारतयाचिन्वन्तु सचेतसः,-इत्य-
लमनेनापि वचनेन, प्रस्तुतमिहाभिदध्मः ॥ १ ॥
तदेवं परं त्रिकं परामृश्य परापरमपि पराम्रष्टु-
मुपक्रममाणः प्रथमं तावत् परां देवीं परामृशति
नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम् ।
मातृमानप्रमेयांशशूलाम्बुजकृतास्पदाम् ॥२॥
'परां' पूर्णाम्, अत एव भिन्नमपि जगत् स्वा-
त्मनि अभेदरूपतया पालयन्तीम् अनन्योन्मुखतया
च प्रकृष्टां
'या सा शक्तिर्जगद्धातुः कथिता समवायिनी।'
इत्याद्युक्त्या 'भैरवयोगिनीं' नित्यमेव परप्रमा-
त्रवियुक्तत्वात् तदात्मभूताम्, अत एव
पं० ४ ख० पु० इत्यमलेनापीति पाठः ।
पं० ११ क० ख० पु० अभेदतयेति पाठः ।

श्लो० ३ ] प्रथममाह्निकम् । १७
'इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते ।'
इत्याद्युक्त्या चिद्रूपा चासौ 'प्रतिभा' प्रज्ञा, ताम्
आद्योच्छलत्तात्मकत्वेन बहिरुल्लिलसिषास्वभावाम्,
अत एव 'देवीं' प्रमातुरपि विश्रान्तिधामत्वात् प्रमिति-
रूपतया द्योतमानाम्, अत एव बहिरपि प्रमातृप्रमाण-
प्रमेयाण्येव 'अंशा' अरारूपा भागा यस्य 'शूलस्य' तत्र
यानि औन्मनसानि अम्बुजानि, तत्र 'कृतास्पदां'
तदुत्तीर्णतया भासमानां 'नौमि' देहप्राणादिप्रमातृ-
रूपन्यग्भावेन तत्स्वरूपमाविशामि-इत्यर्थः ॥२॥
एवमुक्तेऽपि परास्वरूपेऽपरास्वरूपमनभिधाय,
तदुभयमयस्य परापरस्वरूपस्य वक्तुमशक्यत्वात्
क्रमप्राप्तां परापरां देवीं परिहृत्य, प्रथमं तावदपरां
देवीमभिमुखयति
नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते ।
प्रावृरामेघघनव्योमविद्युल्लेखाविलासिनीम् ॥३॥
पं० २ ख० पु० प्रज्ञापदं नास्ति ।
पं० ६ क० पु० अणुरूपा भागा इति पाठः ।
पं० ८ ख० पु० प्राणाभिमातृरूपेति पाठः ।
पं० ११ क० पु० परापरस्वरूपस्येति पाठः ।
पं० १२ क० पु० परापरदेवीमिति पाठः ।
३

१८ श्रीतन्त्रालोकः ।
'नृत्यतो'
‘नर्तक आत्मा’ ( शि० ३ उ० ९ सू० )
इति शिवसूत्रदृष्ट्या निगूहितस्वस्वरूपावष्टम्भमूलं
तत्तद्विश्ववैचित्र्यभूमिकाप्रपञ्चं प्रकाशयतो ‘भैरवा-
कृतेः’ पूर्णस्वरूपस्य परमात्मनः ‘शरीरस्थाम्’
‘एवंभूतमिदं वस्तु भवत्विति यदा पुनः ।
जाता तदैव तद्वस्तु कुर्वत्यत्र क्रियोच्यते ॥’
इत्याद्युक्त्या तत्तत्प्रमातृप्रमेयाद्यनन्ताभासवैचित्र्य-
कारितया स्वरूपाविष्टाम्, अत एव ‘देवीं’ जगदुल्ला-
सनक्रीडाकारिणीम् अपरां भगवतीं ‘नौमि’ इति
संबन्धः । अत एव बहिरपि विश्वात्मना द्योतमा-
नत्वेऽपि
‘भेदभावकमायीयतेजोंशग्रसनाच्च तत् ।
सर्वसंहारकत्वेन कृष्णां तिमिररूपधृत् ॥’
इत्याद्युक्तस्वरूपे परप्रमातर्येव विश्रान्तत्वात् कृष्ण-
पिङ्गलरूपाम् इत्युक्तं ‘प्रावृण्मेघघनव्योमविद्युल्लेखा-
विलासिनीम्’ इति ॥ ३ ॥
पं० ४ क० ख० पु० तत्तद्वैचित्र्येति पाठः ।

श्लो० ४ ] प्रथममाह्निकम् । १९
अथ परापरोभयस्वरूपमयीं परापरां देवीं परा-
मृशति ।
दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् ।
स्ताज्ज्ञानशूलं सत्पक्षाविपक्षोत्कर्तनक्षमम् ॥४॥
'ज्ञानं'
'एवमेतदिदं वस्तु नान्यथेति सुनिश्चितम् ।
ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते ॥'
इत्याद्युक्तज्ञानशक्तिस्वभावमपि अन्तरासूत्रितेच्छा-
क्रियात्मकम्, अत एव परापराशब्दव्यपदेश्यम्, अत
एव तत्
'लोलीभूतमतः शक्तित्रितयं तत्रिशूलकम् ।'
इति वक्ष्यमाणनीत्या 'त्रिशूलम्' अत एव 'दीप्ताभिः'
अप्रतिहताभिः तत्तदिन्द्रियवृत्तिरूपाभिः 'ज्योति-
श्छटाभिः
'यत्र यत्र मिलिता मरीचय-
स्तत्र तत्र विभुरेव जृम्भते ।'
इत्यादिनीत्या वक्ष्यमाणस्वरूपस्य भेदप्रधानस्य
बन्धहेतुत्वात् बन्धरूपस्य आणवादिमलत्रयस्य प्लोष-
पं० १ क० ख० पु० परापरादेवीमिति समस्तः पाठः ।

२० श्रीतन्त्रालोकः ।
कम्, अत एव ‘स्फुरत्’ शुद्धबोधैकरूपतया स्फुरत्ता-
सारम्, अत एव ‘सन्’ च असौ ‘पक्षो’ जगदानन्द-
स्तस्य ‘विपक्षाः’ तदप्रथारूपा निजानन्दाद्या आनन्दा४
अनानन्दाश्च तेषाम् ‘उत्कर्तनं’ पूर्णप्रथात्मकत्वेन
क्षपणं, तत्र ‘क्षमं’ समर्थं ‘स्तात्’ इति वाक्यार्थः ।
तदुक्तं
‘जयन्ति जगदानन्दविपक्षक्षपणक्षमाः ।
परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः ॥’
इति ॥ ४ ॥
इदानीमपरमपि त्रिकं पराम्रष्टुमाह
स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा
क्रमात्मता चेति विभोर्विभूतिः ।
तदेव देवीत्रयमन्तरास्ता-
मनुत्तरं मे प्रथयत्स्वरूपम् ॥ ५ ॥
‘स्वातन्त्र्यरूपा शक्तिः’ यस्यासौ अनन्तशक्ति-
र्भगवान् शिवः, ‘क्रमस्य’
४ शून्यप्रभृतिव्यानान्ता विश्रान्तिरूपनिजानन्द-निरानन्द-परानन्द-ब्रह्मानन्द-
महानन्द-चिदानन्दरूपाः षडानन्दभूमय इति ।
पं० १४ ख० पु० प्रथयत्प्रकाशमिति पाठः ।

प्रकाशात्मकत्वात् 'अनुत्तरं' 'स्वं' सर्वकर्तृत्वादेरसा-

श्लो० ५ ] प्रथममाह्निकम् । २१
'मूर्त्तिवैचित्र्यतो देशक्रममाभासयत्यसौ ।
क्रियावैचित्र्यनिर्भासात् कालक्रममपीश्वरः ॥' (ई० २।१।५)
इत्याद्युक्तनीत्या देशकालात्मनो विश्ववैचित्र्यस्य
सर्गस्य, सम्यग्भेदेन 'सिसृक्षा' जगत्सृष्टिनिमित्तं पार-
मेश्वरी इच्छारूपा शक्तिः, 'क्रमात्मता'
'क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः।' (ई० २।१।४)
इत्यादिनीत्या भेदप्रधानं तत्तदनन्ताभाससंभिन्नं
संकुचितात्मरूपं नरत्वम्, इत्येवं येयं नर-शक्ति-शिवा-
त्मिका 'विभोः' भगवतः परस्यानुत्तरस्य प्रकाशस्य
'विभूतिः' तत्तत्स्फुरणात्मत्वेन ऐश्वर्यं 'तदेव' क्रमेण
तत्स्फारसारत्वात् समनन्तरोक्तस्वरूपं 'देवीत्रयं' पर-
प्रकाशात्मकत्वात् 'अनुत्तरं' 'स्वं' सर्वकर्तृत्वादेरसा-
धारणं 'रूपं' 'प्रथयत्' तत्तद्भेददशोदयेऽप्यतिरोदधत्
मम आत्मनः 'अन्तरास्ताम्' ऐकात्म्येन स्फुरतात्-
इत्यर्थः ॥ ५ ॥
एवं स्वदर्शनोचितदेवतापरामर्शानन्तरं तत्स्वरूपा-
नुप्रवेशेनैव युगपद् गणेशवटुकावपि अभिमुखयति
पं० १० ख० पु० तत्तत्स्फुटात्मत्वेनेति पाठः ।