तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 18, कुल 368 में से
संदर्भ में पढ़ें८ श्रीतन्त्रालोकः।
तदास्य परमं वक्त्रं विसर्गप्रसरास्पदम् ।
अनुत्तरविकासोद्यज्जगदानन्दसुन्दरम् ॥
भाविवक्त्राविभागेन बीजं सर्वस्य संस्थितम् ।
हृत्स्पन्दोद्यत्परासारनिर्मामोर्म्यादि तन्मतम् ॥
एतत्परं त्रिकं सूक्ष्मं सर्वशक्त्यविभागवत् ।'
इति ।
अथ च 'हृदयं'
'हृदयं शक्तिसूत्रं तु ............।'
इत्याद्युक्त्या श्रीसृष्टिकात्याद्यखिलशक्तिचक्रासूत्र-
णेन प्रस्फुरद्रूपं श्रीकालसंकर्षणीधाम 'संस्फु-
रतात्' तादात्म्येनैकः स्याम्—इत्यर्थः।तच्च कीदृशम्?—
इत्युक्तम् 'अनुत्तरामृतकुलम्' इति । सृष्ट्यादीनाम-
त्रैव लयाद् अविद्यमानम् उत्तरम् अन्यत् यस्मात् अत
एव 'अमृतं' स्वात्मचमत्कारमात्रपरमार्थम्, अत एव
च 'कुलं'
पं० २ ख० पु० अनुत्तरविकासांशुजगदिति पाठः ।
पं० ३ ख० पु० वक्रादिभागेनेति पाठः ।
पं० ४ ख० पु० हृत्स्पन्दो दृक्परासारमूर्तिर्निर्मामतन्मयम्, इति पाठः ।
पं० ६ ख० पु० सृष्टिकालाद्यखिलशक्तिचक्रासूत्रेणेति पाठः ।
पं० ११ ख० पु० तदैकात्म्येन एक इति पाठः ।