तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 12, कुल 368 में से
संदर्भ में पढ़ें२ श्रीतन्त्रालोकः ।
देहे विमुक्त एवास्मि श्रीमत्कल्याणवारिधेः ।
यस्य कारुण्यविप्रुड्भिः सद्गुरुं तं हृदि श्रये ॥२॥
मूर्न्युत्तंस इव क्ष्मापैः सर्वैर्यस्यानुशासनम् ।
हृदये भवसंभारकर्कशेऽप्याशु शिश्रिये ॥३॥
न ग्रन्थकारपदमाप्तुमथास्म्यपूर्वं
वाक्कौशलं च न निदर्शयितुं प्रवृत्तः ।
किं त्वेतदर्थपरिशीलनतो विकल्पः
संस्कारवांश्च समियादिति वाञ्छितं नः ॥४॥
पं० १ ग० पु० एवास्मि यत्प्रसत्तीक्षणेक्षणात् ।
श्रीमत्कल्याणराजानं वन्दे तं जनकं गुरुम् ॥
इति पाठः ।
पं० २ ख० पु० श्रिये इति पाठः । एतच्छ्लोकानन्तरं ग० पु० श्लोकद्वयमाधिक्येन
दृश्यते यथा
शिवशासनागमरहस्यकोविदै-
र्गुरुभिर्गभीरहृदयैर्दयोदयैः ।
करुणारुणा विदधिरे दृशस्तथा
मयि दीनबन्धुभिरमोघभाषितैः ॥
यथा रहस्यसर्वस्वं मानसे मे शिवोदितम् ।
भाववासनया स्थानं कर्कशेऽप्याशु शिश्रिये ॥ युग्मम्
इति ।
पं० ३ क० पु० मूर्निं तंस इव, ख० पु० उत्तंसमिवेति नपुंसकनिर्दिष्टः पाठः ।
पं० ५ ग० माप्तुमनासपूर्वमिति पाठः ।
पं० ६ ग० पु० स्वं कौशलं प्रथयितुं विबुधाः प्रवृत्ता, इति पाठः ।
पं० ८ ग० पु० वाञ्छितं मे इति पाठः ।