सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 20, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 20

१० श्रीतन्त्रालोकः ।
इति । तच्छब्दपरामृष्टमुभयं व्याचष्टे 'जननी
जनकश्च' इति । जनयति विश्वम्-इति 'जननी' परा
पारमेश्वरी सृष्ट्यादिचक्राद्या, सा च शुद्धबोधमात्र-
स्वभावत्वात् 'विमला' येयम् आदिभूता चान्द्रमसी
'कला' सा 'आश्रयः' आलम्बनं गतिर्यस्याः सा, सक-
लजगदाप्यायकारिपरामृतमयी-इत्यर्थः । तदुक्तम्
'ऊर्ध्वे तु संस्थिता सृष्टिः परमानन्दरूपिणी ।
पीयूषवृष्टिं वर्षन्ती बैन्दवी परमा कला ॥'
इति । तथा
'ऊर्ध्वे स्थिता चन्द्रकला च शान्ता
पूर्णामृतानन्दरसेन देवी ।'
इति । अत एव 'अभिनवायां'
'सदा सृष्टिविनोदाय............।'
इत्यादीनीत्या सदा द्योतमानायां 'सृष्टौ' बहीरूप-
तायां स्वातन्त्र्यलक्षणं 'महः' तेजो यस्याः सा-इत्यु-
क्तम्। जनयति भावसंहारम्-इति 'जनकः' अभिरूपः
पं० ३ ख० पु० पारमेश्वरी सृष्टिचक्रः सा चेति इयानेव पाठः ।
पं० १४ क० पु० सदा द्योतनायामिति, ख० ग० पु० सदातनयामिति पाठः ।