तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 29, कुल 368 में से
संदर्भ में पढ़ेंश्लो० ४ ] प्रथममाह्निकम् । १९
अथ परापरोभयस्वरूपमयीं परापरां देवीं परा-
मृशति ।
दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् ।
स्ताज्ज्ञानशूलं सत्पक्षाविपक्षोत्कर्तनक्षमम् ॥४॥
'ज्ञानं'
'एवमेतदिदं वस्तु नान्यथेति सुनिश्चितम् ।
ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते ॥'
इत्याद्युक्तज्ञानशक्तिस्वभावमपि अन्तरासूत्रितेच्छा-
क्रियात्मकम्, अत एव परापराशब्दव्यपदेश्यम्, अत
एव तत्
'लोलीभूतमतः शक्तित्रितयं तत्रिशूलकम् ।'
इति वक्ष्यमाणनीत्या 'त्रिशूलम्' अत एव 'दीप्ताभिः'
अप्रतिहताभिः तत्तदिन्द्रियवृत्तिरूपाभिः 'ज्योति-
श्छटाभिः
'यत्र यत्र मिलिता मरीचय-
स्तत्र तत्र विभुरेव जृम्भते ।'
इत्यादिनीत्या वक्ष्यमाणस्वरूपस्य भेदप्रधानस्य
बन्धहेतुत्वात् बन्धरूपस्य आणवादिमलत्रयस्य प्लोष-
पं० १ क० ख० पु० परापरादेवीमिति समस्तः पाठः ।