तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 14, कुल 368 में से
संदर्भ में पढ़ें४ श्रीतन्त्रालोकः ।
'मम' आत्मनो 'हृदयं' जगदानन्दादिशब्दवाच्यं
तथ्यं वस्तु, सम्यक् देहप्राणादिप्रमातृतासंस्कारन्य-
क्कारपुरःसरसमावेशदशोल्लासेन दिक्कालाद्यक-
लिततया 'स्फुरतात्' कालत्रयावच्छेदशून्यत्वेन
विकसतात्-इत्यर्थः । तच्च कीदृक् ?-इत्युक्तं 'तदुभय'
इति । 'तत्' आद्यार्धव्याख्यास्यमानं च तत् 'उभयं'
तस्य 'यामलं'
' तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः ।'
इति वक्ष्यमाणनीत्या शक्तिशक्तिमत्सामरस्यात्मा
संघट्टः, ततः 'स्फुरितभावः' परानपेक्षत्वेन स्वत
एवोल्लसितसत्ताको योऽसौ
'अत एव विसर्गोऽयमव्यक्तह-कलात्मकः ।'
१ षण्णामानन्दभूमीनां य एकोऽनुसंधाता उदयास्तमयविहीनोऽन्तर्विश्रान्तिपर-
मार्थरूपो जगदानन्दः । वक्ष्यति च ग्रन्थकार एव उत्तरत्र
यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ।
यदनाहतसंवित्तिपरमामृतबृंहितम् ॥
यत्रास्ति भावनादीनां न मुख्या कापि संगतिः ।
तदेतज्जगदानन्दमस्मभ्यं शंभुरुचिवान् ॥
इति ।
पं० ६ ग० पु० सामरस्यरूपः इति पाठः ।